Digital Sanskrit Buddhist Canon

कृष्णासर्प इति ५१

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
षष्ठो वर्गः।



कृष्णासर्प इति ५१।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे। राजगृहे नगरद्वारे ऽन्यतरो गृहपतिराढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। स च मत्सरी कुटुकुञ्चक आगृहीतपरिष्कारः काकायापि बलिं न प्रदातुं व्यवस्यति। स श्रमणब्राह्मणवनीपकान्दृष्ट्वा चित्तं प्रदूषयति स्वके चोद्याने महान्हिरण्यसुवर्णस्य राशिः स्थापितः॥ स तत्र गृद्धो ऽध्यवसितः कालगतः॥



स कालं कृत्वा तस्यैवोपरि आशीविष उत्पन्नो महान्कृष्णासर्पो दृष्टिविषः। अथ ये तदुद्यानं जनकायाः प्रविशत्ति तान्प्रेक्षितमात्रेण जीविताद्यपरोपयति। एष च शब्दो राजगृहे नगरे समत्ततो विसृतः ये अमुकमुद्यानं प्रविशत्ति सर्वे ते निधनमुपयात्तीति। जनकायेन च राज्ञे बिम्बिसाराय निवेदितम्॥ अथ राज्ञो बिम्बिसारस्यैतदभवत्। कस्तं शक्यति विनेतुमन्यत्र बुद्धाद्भगवत इति॥



अथ राजा बिम्बिसारो महाजनकायपरिवृतो येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकात्ते निषणः। एकात्तनिषणं राजानं बिम्बिसारं भगवान्धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। अथ राजा बिम्बिसार उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवत्तमिदमवोचत्। इह भगवन्नाजगृहे नगरे ऽमुष्मिन्नुद्याने महानाशीविषः कृष्णसर्पो दृष्टिविषः प्रतिवसति महाजनविप्रघातं करोति साधु भगवांस्तं विनयेदनुकम्पामुपादायेति। अधिवासयति भगवान्नाज्ञो बिम्बिसारस्य तूष्णीभावेन। अथ राजा बिम्बिसारो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वोत्थायासनात्प्रक्रात्तः॥



अथ भगवांस्तस्या एव रात्रेरत्ययात्पूर्वाह्ने निवास्य पात्रचीवरमादाय येन तदुद्यानं तेनोपसंक्रात्तः। उपसंक्रम्य भगवता सूर्यसहस्रातिरेकप्रभाः कनकवर्णा मरीचय उत्सृष्टा यैस्तदुद्यानं सर्वमवभासितं कल्पसहस्रपरिभाविताश्च मैत्र्यंशव उत्सृष्टा यैरस्य स्पृष्टमात्रं शरीरं प्रह्लादितम्॥ अथ स आशीविष इतश्चामुतश्च प्रेक्षितुमारब्धः कस्य प्रभावान्मम शरीरं प्रह्लादितमिति। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चानेन भगवतो ऽत्तिके चित्तं प्रसादितं प्रसन्नचित्तस्य च भगवता तन्मय्या गत्यास्तन्मय्या योन्या धर्मो देशितः। भद्रमुख त्वयैवैतद्रव्यमुपार्जितं येन त्वमाशीविषगतिमुषपादितः साधु ममात्तिके चित्तं प्रसादयास्माच्च निधानाच्चित्तं विरागय मा हैवेतः कालं कृत्वा नरकेषूपपत्स्यस इति। यदास्य भगवता जातिः स्मारिता तदा रोदितुं प्रवृत्तः॥ अथ भगवांस्तस्यां वेलायां गाथे भाषते।



इदानीं किं करिष्यामि तिर्यग्योनिगतस्य ते।

अक्षणप्रतिपन्नस्य किं रोदिषि निरर्थकम्॥

साधु प्रसाद्यतां चित्तं महाकारुणिके जिने।

तिर्यग्योनिं विराग्येह ततः स्वर्गं गमिष्यसीति॥



यावद्भगवता पात्रे प्रक्षिप्य वेणुवनं नीतः॥ अत्रात्तरे राज्ञा मागधेन जनकायेन च श्रुतं यथासावाशीविषो भगवता विनीत इति॥



अथासावाशीविषः स्वाश्रयं जुगुप्समानो ऽनाहारतां प्रतिपन्नः। भगवतो ऽत्तिके चित्तं प्रसाद्य कालगतः प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नः॥ धर्मता खलु देवपुत्रस्य वा देवकन्याया वाचिरोपसंपन्नस्य त्रीणि चित्तान्युत्पद्यत्ते कुतश्च्युतः कुत्रोपपन्नः केन कर्मणेति। पश्यत्याशीविषेभ्यश्च्युतः प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नो भगवतो ऽत्तिके चित्तं प्रसाद्येति। अथाशीविषपूर्वकस्य देवपुत्रस्यैतदभवत्। न मम प्रतिनूपं स्याद्यदहं पर्युषितपरिवासो भगवत्तं दर्शनायोपसंक्रामेयं यन्न्वहमपर्युषितपरिवास एव भगवत्तं दर्शनायोपसंक्रामेयमिति। अथाशीविषपूर्वको देवपुत्रश्चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो मणिरत्नचित्रचूडः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस्तस्यामेव रात्रौ दिव्यानामुत्पलपद्मकुमुदपुण्डरीकमन्दारकाणां पुष्पाणामुत्सङ्गं पूरयित्वा सर्ववेणुवनं कलन्दकनिवापमुदारेणावभासेनावभास्य भगवत्तं पुष्पैरवकीर्य भगवतः पुरस्तान्निषणो धर्मश्रवणाय। अथ भगवानाशीविषपूर्वकस्य देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्यां श्रुत्वाशीविषपूर्वकेण देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्त्रोतआपत्तिफलं प्राप्तम्। स दृष्टसत्यस्त्रिरुदानमुदानयति। इदमस्माकं भदत्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर्नेष्टेन स्वजनबन्धुवर्गेण न पर्वूप्रेतैर्न श्रमणब्राह्मणैर्यद्भगवतास्माकं कृतम्। उच्छोषिता रुधिराश्रुसमुद्रा लङ्घिता अस्थिपर्वताः पिहितान्यपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि प्रतिष्ठापिताः स्मो देवमनुष्येषु। आह च।



तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदोषयुक्तः।

अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः॥

त्वदाश्रयाच्चाप्तमपेतदोषं मयाद्य शुद्धं सुविशुद्ध चक्षुः।

प्राप्तं च शात्तं पदमार्यकात्तं तीर्णश्च दुःखार्णवपारमस्मि॥

नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय।

भवसहस्रसुदुर्लभदर्शन सफलमद्य मुने तव दर्शनमिति॥

अवनम्य ततः प्रलम्बहारः चरणौ द्वावभिवन्द्य जातहर्षः।

परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम॥



अथाशीविषपूर्वको देवपुत्रो वणिगिव लब्धलाभः संपन्नसस्य इव कर्षकः शूर इव विजितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशमुपगतस्तयैव विभूत्या तस्यामेव रात्रौ राज्ञो बिम्बिसारस्य सकाशमुपसंक्रम्य सर्वं राजकुलमुदारेणावभासेनावभास्य राजानं प्रबोध्य एतदुवाच। महाराज उत्तिष्ठ २ किं स्वपिषीति॥ अथ राजा प्रबुद्धः पश्यति तमुदारमवभासं तं च देवपुत्रम्। दृष्ट्वा प्रीतमनास्तं पप्रच्छ कस्त्वमिति॥ स कथयत्यहं स दृष्टाशीविषो भगवता तत्रोद्याने विनीतः कालं कृत्वा प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नः भगवत्तञ्च मे पर्युपास्य सत्यदर्शनं कृतम्। स इदानीं प्रबोधयामि। गत्वा तदुद्यानममुकस्मात्प्रदेशान्महानिधानमुत्पाट्य मम नाम्ना भगवत्तं सश्रावकसङ्घं भोजय दक्षिणादेशनां च कारयेति। अधिवासयति राजा बिम्बिसारो देवपुत्रस्य तूष्णीभावेन। अथाशीविषपूर्वको देवपुत्रो राज्ञस्तूष्णीभावेनाधिवासनां विदित्वा तत्रैवात्तर्हितः॥



अथ स राजा बिम्बिसारस्तस्यामेव रात्रौ मागधानां पौरजानपदानां निवेद्य तदुद्यानं गत्वा निधानमुत्पाट्य भगवत्तं सश्रावकसङ्घं त्रैमास्यं भोजयित्वा भगवत्तं पप्रच्छ। कानि भगवन्नाशीविषपूर्वकेण देवपुत्रेण कर्माणि कृतानि येनाशीविषेषूपपन्नः कानि कर्माणि कृतानि येन देवेषूपपन्नः सत्यदर्शनञ्च कृतमिति॥ भगवानाह। यत्तेनातिमात्रो लोभ उत्पादितः श्रमणब्राह्मणवनीपकानां चात्तिके चित्तं प्रदूषितं तेनाशीविषेषूपपन्नः। यन्ममात्तिके चित्तं प्रसादितं तेन देवेषूपपन्नः। काश्यपे च सम्यक्संबुद्धे उपासकभूतेन शरणगमनशिक्षापदग्रहणं कृतं तेन सत्यदर्शनं कृतमिति। तस्मात्तर्हि महाराज मात्सर्यप्रहाणाय व्यायत्तव्यमेते दोषा न भविष्यत्ति ये आशीविषस्य एष एव गुणगणो भविष्यति यस्तस्यैव देवपुत्रस्येत्येवं ते महाराज शिक्षितव्यम्॥ अथ राजा बिम्बिसारो भगवतो भाषितमानन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वोत्थायासनात्प्रक्रात्तः॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project