Digital Sanskrit Buddhist Canon

जाम्बाल इति ५०

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
जाम्बाल इति ५०।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्य<क्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागय>क्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो वैशालीमुपनिश्रित्य विहरति मर्कटह्रदतीरे कूटागारशालायाम्। तेन खलु समयेन वैशाल्यामन्यतरस्यां नगरपरिखायां पञ्च प्रेतशतानि प्रतिवसत्ति वात्ताशान्युज्किताशानि खेटमूत्रोपजीवीनि यूयशोणितविष्ठाहाराणि घोराणि प्रकृतिदुःखितानि च। आह च।



वात्ताशा उज्किताशाश्च खेटमूत्रोपजीविनः।

यूयशोणितविष्ठाशा घोराः प्रकृतिदुःखिता इति॥



तस्यां च वैशाल्यामन्यतरो ब्राह्मणः। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता दौर्गन्धं चास्याः काये संवृत्तम्। ततस्तेन ब्राह्मणेन नैमित्तिका आहूय पृष्टाः। ते कथयत्ति यो ऽयमुदरस्थो दारकस्तस्यायं प्रभाव इति॥ यावदसौ नवानां मासानामत्ययात्प्रसूता। दारको जातो दुर्वर्णो दुर्दर्शनो अवकोटिमको ऽमेध्यम्रक्षितगात्रो दुर्गन्धश्च। तथाप्यसौ स्नेहपाशानुबद्धाभ्यां परमबीभत्सो ऽपि मातापितृभ्यां संवर्धितः॥ सो ऽमेध्यस्थानेष्वेवाभिरमते संकारकूटे जम्बाले केशाँल्लुञ्चति अमेध्यं मुखे प्रक्षिपति। तस्य बालो जाम्बाल इति संज्ञा संवृत्ता॥



यावदसावितश्चामुतश्च परिभ्रमन्पूरणेन काश्यपेन दृष्टः। तस्यैतदभवत्। यादृशेषु स्थानेष्वयमभिरमते नूनमयं सिद्धपुरुषो यन्न्वहमेनं प्रव्राजयेयमिति॥ स तेन प्रव्राजितो नग्नः पर्यटति सत्क्रियासु च वर्तते। ततस्तेन पर्यटता वैशालीपरिखायां पञ्च प्रेतशतानि दृष्टानि। स पूर्वकर्मविपाकसंबन्धात्तां नगरपरिखामवतीर्य तैः सार्धं संगम्य समागम्य संमोदते सखित्वं चाभ्युपगतः॥ यावदपरेण समयेन जाम्बालो दारकः क्कचित्प्रयोजनेन व्याक्षिप्तो वैशालीं प्रविष्टः भगवांश्च तां नगरपरिखामनुप्राप्तः। ददृशुस्ते प्रेता बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्च भगवतः पादयोर्निपतिता भगवता उक्ताः किं भवतां बाधत इति॥ ते ऊचुः पिपासिताः स्मो भगवन्निति॥ ततो भगवता पञ्चभ्यो ऽङ्गुलिभ्यो ऽष्टाङ्गोपेतस्य पानीयस्य पञ्च धारा उत्सृष्टा येन तानि पञ्च प्रेतशतानि संतर्पितानि। ततस्ते भगवतो ऽत्तिके चित्तं प्रसाद्य कालगताः प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नाः॥



धर्मता खलु देवपुत्रस्य वा देवकन्यकाया वाचिरोपपन्नस्य त्रीणि चित्तान्युत्पद्यत्ते कुतश्च्युतः कुत्रोपपन्नः केन कर्मणेति। ते पश्यत्ति प्रेतेभ्यश्च्युताः प्रणीतेषु <देवेषु> त्रयस्त्रिंशेषूपपन्ना भगवतो ऽत्तिके चित्तमभिप्रसाद्येति॥ अथ प्रेतपूर्विणां देवपुत्राणामेतदभवत्। नास्माकं प्रतिनूपं स्याद्यद्वयं पर्युषितपरिवासा भगवत्तं दर्शनायोपसंक्रामेम यन्नुवयमपर्युषितपरिवासा एव भगवत्तं दर्शनायोपसंक्रामे<मे>ति॥ अथ प्रेतपूर्विणो देवपुत्राश्चलविमलकुण्डलधरा हारार्धहारविराजितगात्रा मणिरत्नविचित्रमौलयः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रास्तस्यामेव रात्रौ दिव्यानामुत्पलपद्मकुमुदपुण्डरीकमन्दारकाणां पुष्पाणामुत्सङ्गं पूरयित्वा सर्वां कूटागारशालामुदारेणावभासेनावभास्य भगवत्तं पुष्पैरवकीर्य भगवतः पुरस्तान्निषणा धर्मश्रवणाय। अथ भगवान्प्रेतपूर्विणां देवपुत्राणामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्यां श्रुत्वा पञ्चभिर्देवपुत्रशतैर्विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतआपत्तिफलमनुप्राप्तम्॥ ते दृष्टसत्या लब्धलाभा इव वणिजः संपन्नसस्या इव कर्षकाः शूरा इव विजितसंग्रामाः सर्वरोगपरिमुक्ता इवातुरा यया विभूत्या भगवत्सकाशमागतास्तयैव विभूत्या भगवत्तं त्रिः प्रदक्षिणीकृत्य स्वभवनं गताः॥



अथ जाम्बालो नगरपरिखामागतस्तान्प्रेतान्नाद्राक्षीत्। ततः समन्वेषितुमारब्धः। स च तान्परिमार्गमाणः खेदमापन्नो न च तानासादयति॥



अत्रात्तरे नास्ति किञ्चिद्बुद्धानां भगवतामज्ञातमदृष्टमविंदितमविज्ञातम्। धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रात्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतबशवर्तिप्रतिविशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते। को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कमहमपायादुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं कस्य कामपङ्कनिमग्नस्य हस्तोद्धारमनुप्रदद्यां कमार्यधनविरहितमार्यधनैश्चर्याधिपत्ये प्रतिष्ठापयेयं कस्यानवरोपितानि कुशलमूलान्यवरोपयेयं कस्यावरोपितानि परिपाचयेयं कस्य परिपक्कानि विमो<च>येयम्। आह च।



अप्येवातिक्रमेद्वेलां सागरो मकरालयः।

न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥

ततो भगवाञ्जाम्बालस्य कुलपुत्रस्यानुग्रहार्थं पूर्वाह्ने निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतो वैशालीं पिण्डाय प्राविक्षत्। यावदनुपूर्वेण पिण्डपातमटन्वीथोमवतीर्णः जाम्बालश्च इतस्ततो ऽन्वाहिण्डमानो भगवतो ऽग्रतः स्थितः। अथ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चानेन भगवतो ऽत्तिके चित्तं प्रसादितम्। स प्रसादजातो भगवतः पादयोर्निपत्य कृतकरपुट उवाच। यदि भगवन्मादृशानां सत्त्वानामस्मिन्धर्मविनये प्रव्रज्यास्ति लभेयं स्वाख्याते धर्मविनये प्रव्रज्यामिति। ततो भगवान् महाकरुणापरिगतहृदयः सत्त्वानामाशयानुशयज्ञस्तं भव्यनूपं विदित्वा गजभुजसदृशं सुवर्णवर्णबाहुमभिप्रसार्येदमवोचत्। एहि भिक्षो चर ब्रह्मचर्यम्। इत्युक्तमात्रे भगवता सप्ताहावरोपितैरिव केशैर्द्वादशवर्षोपसंपन्नस्येव भिक्षोरीर्यापथेन पात्रकरकव्यग्रहस्तो ऽवस्थितः। आह च।



एहीति चोक्तः स तथागतेन मुण्डश्च साङ्घाटिपरीतदेहः।

सद्यः प्रशात्तेन्द्रिय एव तस्थावेवं स्थितो बुद्धमनोरथेन।



ततो ऽस्य भगवता मनसिकारो दत्तः॥ तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः। सो ऽर्हत्त्वप्राप्तो ऽपि लूहेनाभिरमते॥ तत्र भगवान्भिक्षूनामन्त्रयते स्म। एषो ऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणां लूहाधिमुक्तानां यदुत जाम्बालो भिक्षुरिति॥



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। किं भदत्त जाम्बालेन स्थविरेण कर्म कृतं येनैवंविधं दुःखमनुभवतीति॥ भगवानाह। जाम्बालेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। जाम्बालेनैव कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि अपि कल्पश तैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्।



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्नेव भद्रकल्पे चत्वारिंशद्वर्षसहस्रायुषि प्रजायां क्रकुच्छन्दो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स शोभावतीं राजधानीमुपनिश्रित्य विहरति। तस्यां च राजधान्यामन्यतमेन गृहपतिना विहारः कारितो यत्र नानादिग्देशवासिनो भिक्षव आगत्तव्यं गत्तव्यं वस्तव्यं च मन्यत्ते। तस्मिंश्च विहारे पृथग्जनो भिक्षुर्नैवासिकः स चातीवावासमत्सरी आगत्तुकान्भिक्षून्दृष्ट्वा ऽभिषज्यते कुप्यति व्यापद्यते मद्रुः प्रतितिष्ठति कोपं संजनयति। ये तु तस्माद्विहाराद्भिक्षवः प्रक्रामत्ति तान्दृष्ट्वा प्रीतिप्रामोद्यबहलः प्रत्युद्गम्याभाषते च॥ यावदपरेण समयेन जनपदादर्हद्भिक्षुरागतः। स च विहारस्वाम्यनागामी। तेनासावीर्यापथेन संलक्षितो ऽर्हन्निति। ततः प्रसादजातेन श्वो भक्तेन जेत्ताकस्नात्रेण चोपनिमन्त्रितः सार्धं भिक्षुसङ्घेन। स चावासिको भिक्षुस्तत्र नासीत्॥ यावद्वितीये दिवसे जेत्ताकस्नात्रे प्रतिपादिते भक्ते सज्जीकृते आवासिको भिक्षुरागतः। सो ऽपि जेत्ताकस्नात्रं प्रविष्टः पश्यति विहारस्वामिनमेकशाटकनिवसितमागत्तुकस्य भिक्षोः परिकर्म कुर्वाणम्। ततो ऽस्य मात्सर्यमुत्पन्नम्। तेन प्रदुष्टचित्तेन खरं वाक्कर्म निश्चारितम्। वरं खलु ते भिक्षो ऽमेध्येन शरीरमुपलिप्तं न त्वेवंविधस्य दानपतेः सकाशादुपस्थानं स्वीकृतमिति। ततस्तेनार्हता तूष्णीभावेनाधिवासितं मा हैवायं तपस्वी गाढतरस्य कर्मणो भागी भविष्यतीति॥ यावत्सामग्रीदेशकाले संप्राप्ते नैवासिकेन भिक्षुणा श्रुतमर्हतो ऽत्तिके त्वया चित्तं प्रदूषितमिति श्रुत्वा चास्य विप्रतिसारो जातः। ततो ऽर्हतो भिक्षोः पादयोर्निपत्याह। क्षमस्वार्य यन्मया त्वयि परुषा वाग्निश्चारितेति। ततो ऽर्हस्तस्य प्रसादाभिवृद्यर्थं गगनतलमभ्युद्गम्य विचित्राणि प्रातिहार्याणि विदर्शयितुमारब्धः। ततो ऽस्य भूयसा विप्रतिसारः समुत्पन्नः। तेन तस्य पुरस्तात्तत्कर्मात्येयनादेशितं प्रकाशितमुत्तानीकृतं च न चानेन शकितं नैष्ठिकं ज्ञानमुत्पादयितुम्॥ यावन्मरणकालसमये प्रणिधिं कर्तुमारब्धः। यन्मया ऽर्हतो ऽत्तिके चित्तं प्रदूषितं खरं च वाक्कर्म निश्चारितं मा अस्य कर्मणो विपाकं प्रतिसंवेदयेयं यत्तु मया पठितं स्वाध्यायितं दानप्रदानानि दत्तानि सङ्घस्य चोपस्थानं कृतं तस्य कर्मणो विपाकेनानागतान्सम्यक्संबुद्धानारागयेयं मा विरागयेयमिति॥



किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेनावासिको भिक्षुरयमेवासौ जाम्बालः। यदनेनार्हतो ऽत्तिके खरं वाक्कर्म निश्चारितमस्य कर्मणो विपाकेनानत्तं संसारे दुःखमनुभूतं तेनैव च कर्मावशेषेण एतर्हि पश्चिमे भवे एवं दुर्गन्धः परमदुर्गन्धो ऽमेध्यावस्करस्थाननिवासाभिप्रायः संवृत्तः। यत्पुनरनेन तत्र पठितं स्वाध्यायितं स्कन्धकौशलं धातुकौशलमायतनकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं च कृतं तेन मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यन्मात्सर्यप्रहाणाय व्यायत्तव्यम्। तत्कस्य हेतोः। एते दोषा न भविष्यत्ति ये जाम्बालस्य पृथग्जनभूतस्य एष एव गुणगणो भविष्यति यो ऽसौ <तस्यै>वार्हत्त्वप्राप्तस्येत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project