Digital Sanskrit Buddhist Canon

उत्तर इति ४६

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
उत्तर इति ४६।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः श्रेष्ठिभिः पौरैस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे। राजगृहे ऽन्यतरः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः कालात्तरेण पत्नी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां <वा> मासानामत्ययात्प्रसूता। दारको जातः। तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादुत्तरे नक्षत्रे जातस्तस्माद्भवतूतर इति नाम॥ उत्तरो दारक उन्नीतो वर्धितो महान्संवृत्तः। पिता चास्य कालगत उत्तरश्च गृहे स्वामी संवृत्तः॥ तेनापण स्थापितः क्रीणाति विक्रीणीते क्रयविक्रयेण जीविकां कल्पयति॥ स दिवसानुदिवसं भगवत्सकाशमुपसंक्रामति। तस्य भगव<त्सं>दर्शनात्सद्धर्मश्रवणाच्च भगवच्छासने प्रसादो जातः। तस्य प्रव्रज्याचित्तमुत्पन्नम्॥ स मातरं विज्ञापयामास अम्बानुजानीहि मां भगवच्छासनेषु प्रव्रजिष्यामीति। ततो माता कथयति। पुत्र त्वमेकपुत्रको यावदहं जीवामि तावन्न प्रव्रजितव्यं मृतायां मयि यथाकरणीयं करिष्यसीति॥ स चोत्तरो यत्किञ्चिदुपार्जयति तत्सर्वं मात्रे ऽनुप्रयच्छत्यनेनाम्ब श्रमणब्राह्मणकृपणवनीपकान्प्रतिपादयस्वेति। सा चास्य माता लुब्धा कुटुकुञ्चिका मत्सरिणी आगृहीतपरिष्कारा तान्कार्षापणान्गोपायित्वा ये श्रमण ब्राह्मणाः पिण्डार्थिनस्तद्गृहं प्रविशत्ति तान्परिभाषते प्रेतोपपन्ना इव यूयं नित्यं परगृहेभ्यो भैक्षमटथेति। सा च पुत्रं विसंवादपत्यहमद्य इयतां भिक्षूणां भोजनं प्रयच्छामीति॥



यावदसौ कालं कृत्वा प्रेतेषूपपन्ना उत्तरश्च मातृवियोगाद्दानानि दत्त्वा पुण्यानि कृत्वा भगवच्छासने प्रव्रजितः॥ तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः॥



स गङ्गातीरे पर्णकुटिं कृत्वा ध्यायति। सा चास्य माता प्रेतलोकोपपन्ना नग्नादग्धस्थूणासदृशी स्वकेशरोमसंछन्ना सूचीछिद्रोपममुखी पर्वतोपमकुक्षिरादीप्ता संप्रज्वलिता एकज्वालीभूतार्तस्वरं क्रन्दत्तो आयुष्मत्तमुत्तरमुपसंक्रात्ता। यावदायुष्मता उत्तरेण सा प्रेती दृष्टा पृष्टा च का त्वमेवंविधेति॥ प्रेती आह।



अहं ते जननी स्निग्धा यया जातो ऽसि पुत्रक।

अन्नपानवियुक्तेषु प्रेतेषु समुपागता॥

पञ्चविंशति वर्षाणि यतः कालगता ह्यहम्।

नाभिजानामि पानीयं कुतो भक्तस्य दर्शनम्॥



सफलान्वृक्षान्गच्छामि निष्फला भवत्ति ते पूर्णानि सरांसि गच्छामि तानि शुष्काणि सत्ति॥ सुखं भदत्तस्य हि वृक्षमूलं भजते शीतलभाजन। कृपां जनयित्वा कृपणायै मह्यं ददस्व तोयं तृषार्तितायै॥ तत उत्तरो मातरमुवाच। अम्ब ननु पुरा त्वं <म>या मनुष्यभूता दानानि दापिता पुण्यानि कारितेति॥ प्रेती आह। न मया पुत्रक मात्सर्याभिभूतया दानानि <दत्तानि> पुण्यानि वा कृतानि सर्वं तदर्थजातं पापचित्तया अग्निखदायां निखातम्। तदिदानीं पुत्रक ज्ञातिगृहं गत्वा छन्दनभिक्षं कृत्वा मम नाम्ना बुद्धप्रमुखं भिक्षुसङ्घं भोजय दक्षिणामादेशय देशनां च कारय। एवं प्रेतयोनेर्मम मोक्षः स्यादिति॥ उत्तर आह। एवमस्त्वम्ब किं तु त्वया बुद्धात्ते स्थातव्यमिति॥ प्रेती आह। पुत्रका ऽपत्रपे नग्ना ह्रियान्वितेति॥ उत्तर आह। अम्ब यदा पापं करोषि तदा नापत्रपिता इदानीं किमर्थं फलकाले व्यपत्रपस इति॥ प्रेती आह। एवं भवत्वागमिष्यामीति॥



तत उत्तरेण ज्ञातिगृहेभ्यश्छन्दनभिक्षणं कृत्वा बुद्धप्रमुखो भिक्षुसङ्घः श्वो भक्तेनोपनिमन्त्रितो गण्डीकाले च बुद्धप्रमुखो भिक्षुसङ्घः संनिपतितः सा च प्रेती बुद्धात्ते स्थिता। प्रेतीदिदृक्षुकाण्यनेकानि प्राणिशतसहस्राणि संनिपतितानि। ते तां प्रेतीं विकृताश्रयां दृष्ट्वा परं संवेगमुपगता भगवतो ऽत्तिके चित्तं प्रसादयामासुः॥ तत आयुष्मानुत्तरो बुद्धप्रमुखं भिक्षुसङ्घं प्रणीतेनाहारेण संतर्प्य प्रेत्या नाम्ना दक्षिणादेशनां कारयामास। भगवांश्च पञ्चाङ्गोपेतेन स्वरेण स्वयमेव दक्षिणादेशनामादिशति।



इतो दानाद्वि यत्पुण्यं तत्प्रेतीमनुगच्छतु।

उत्तिष्ठतां क्षिप्रमियं प्रेतलोकात्सुदारुणादिति॥



यावद्भगवता तदधिष्ठानं तस्याः प्रेत्या महतश्च जनकायस्य तथाविधा धर्मदेशना कृता यां श्रुत्वानेकप्राणिशतसहस्रैः सत्यदर्शनं कृतं सा च प्रसन्नचित्ता कालगता प्रेतमहर्द्धिकेषूपपन्ना॥ आयुष्मतोत्तरेण समन्वाहृता प्रेतमहर्द्धिकेषूपपन्ना। तत आयुष्मता उत्तरेणोक्तम्। अम्बास्ति ते शक्तिः क्रियतां दानोत्सर्ग इति॥ प्रेतमहर्द्धिकोवाच। पुत्र न शक्ष्यामि नास्ति मे दाने ऽभिलाष इति॥ तत आयुष्मानुत्तरः प्रेतमहर्द्धिकामुवाच।



अद्यापि ते तिष्ठति तच्छरीरं विवृद्धनिर्मांसत्वगस्थिचर्मं

लोभान्धकारावृतलोचनाया निवर्तितं यत्त्वया प्रेतलोक इति॥



यावदायुष्मता उत्तरेण सुबहु परिभाष्यैका यमली लब्धा। ततः सा सङ्घाय दत्ता। येन च भिक्षुणा सङ्घमध्यात्सा यमली क्रीता तेन मानवके स्थापिता॥ ततस्तया प्रेत्या रात्रावुपागत्यापहृता॥ ततस्तेन भिक्षुणा ऽयुष्मत उत्तराय निवेदितम्। उत्तरेण गत्वा प्रेतीं परिभाष्य पुनरप्यानीय दत्ता॥ एवं यावत्त्रिरपि तस्य भिक्षोः सकाशादपहृता आयुष्मता चोत्तरेणानीय दत्ता। भिक्षुणा च सा पाटयित्वा चातुर्दिशाय भिक्षुसङ्घाय विलेपनिकायां सीविता। ततस्तया न पुनरपहृता॥



अत एवं मात्सर्यं सत्त्वानां विडम्बनकरं दृष्ट्वा मात्सर्यप्रहाणाय ध्यायितव्यम्। तथा एवंविधा दोषा न स्युर्यथा तस्याः प्रेत्या इति॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project