Digital Sanskrit Buddhist Canon

गुडशालेति ४१

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
पञ्चमो वर्गः।



गुडशालेति ४१।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहे विहरति वेणुवने कलन्दकनिवापे॥ यदा भगवता ऽनुत्तरा सम्यक्संबोधिरभिसंबुद्धा तदायुष्मद्यां शालिपुत्रमौद्गल्यायनाभ्यामियं प्रतिज्ञा कृता न तावत्पिण्डकं परिभोक्ष्यावहे यावन्नरकतिर्यक्प्रेतेभ्य एकसत्त्वमपि न मोचयाव इति। ततस्तावायुष्मत्तौ कालेन कालं कदाचिन्नरकचारिकां चरतः कदाचित्तिर्यक्प्रेतचारिकां चरतः। तौ तत्र सत्त्वानां विविधयातनाभ्याहतानामसत्प्रलापं दृष्ट्वा तानागत्य चतसृणां पर्षदामारोचयतः ते ऽपि श्रुत्वा संवेगमापद्यत्ते। ततस्तौ तदधिष्ठानं तथाविधां धर्मदेशनां कुरुतो ययानेके सत्त्वा विशेषमधिगच्छत्ति धर्मश्रवणकथायाश्च भाजनीभवत्ति॥



यावदपरेण समयेनायुष्मान्महामौद्गल्यायनः प्रेतचारिकां चरन्नद्राक्षीत्प्रेतं पर्वतकूटप्रख्यं समुद्रसदृशकुक्षिं सूचीछिद्रोपममुखं स्वकेशसंछन्नमादीप्तं सम्यक्प्रज्वलितमेकज्वालीभूतं ध्मायत्तमार्तस्वरं क्रन्दत्तं दुःखां तीव्रां खरां कटुकाममनापां वेदनामनुभवत्तं येन येनोच्चारप्रस्रावभूमिस्तेन तेनान्वाहिण्डमानं तदपि कृच्छ्रेणासादयत्तम्॥ ततः स्थविरः प्रेतं पप्रच्छ। किं ते भोः कर्म कृतं येनैवंविधां दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयस इति॥ प्रेत आह। आदित्ये हि समुद्रते न दीपेन प्रयोजनम्। भगवत्तमेतमर्थं परिपृच्छ स ते अस्माकीनां कर्मप्लोतिं व्याकरिष्यतीति॥ अथायुष्मान्महामौद्गल्यायनोयेन भगवांस्तेनोपसंक्रात्तः॥



तेन खलु समयेन भगवान्प्रतिसंलयनाद्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्विवानेडकमनेकशता च पर्षद्भगवतः सकाशान्मधुरमधुरं धर्मं शृणोत्यनिज्यमानैरिन्द्रियैः। ततो बुद्धा भगवत्तः पूर्वालापिन<ः प्रियालापिन> एहीतिस्वागतवादिनः स्मितपूर्वङ्गमाश्च। तत्र भगवानायुष्मत्तं महामौद्गल्यायनमिदमवोचत्। एहि मौद्गल्यायन स्वागतं ते कुतस्त्वमेतर्ह्यागच्छसीति॥ मौद्गल्यायन आह। आगच्छाम्यहं भदत्त प्रेतचारिकायास्तत्राहं प्रेतमद्राक्षं सूचीछिद्रोपममुखं पर्वतोपमकुक्षिं स्वकेशसंछन्नं दुर्गन्धं परमदुर्गन्धम्। आह च।



विशुष्ककण्ठोष्ठपुटः सुदुःखितः प्रवृद्धशैलोपमचञ्चिताश्रयः।

स्वकेशसंछन्नमुखो दिगम्बरः सुसूक्ष्मसूचीसदृशाननः कृशः॥

नग्नः स्वकेशसंछन्नो <अ>स्थियत्त्रवदुच्छ्रितः।

कपालपाणिर्घोरश्च क्रन्दन्समभिधावति॥

बुभुक्षया पिपासया क्लात्तो व्यसनपीडितः।

आर्तस्वरं क्रन्दमानो दुःखां वेदति वेदनाम्॥

किं तेन प्रकृतं पापं मर्त्यलोके सुदारुणमिति॥

भगवानाह। पापकारी मौद्गल्यायन स प्रेत इच्छसि तस्य कर्मप्लोतिं श्रोतुम्॥ एवं भदत्त॥ तेन हि मौद्गल्यायन शृणु साधु च सुष्ठु च मनसि कुरु भाषिष्ये।



भूतपूर्वं मौद्गल्यायन राजगृहे नगरे ऽन्यतरः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तस्य पञ्चमात्राणीक्षुशालशतानि यत्र चेक्षुः पीड्यते। असति च बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यत्ते ही<नदी>नानुकम्पकाः प्रात्तशयनासनभक्ता एकदक्षिणीया लोकस्य॥ यावदन्यतमः प्रत्येकबुद्धो हीनदीनानुकम्पी प्रात्तशयनासनसेवी स पूर्वाह्ने निवास्य पात्रचीवरमादाय राजगृहं पिण्डाय प्राविक्षत्। स च भदत्तः क्षयव्याधिना स्पृष्टः। तस्य वैद्येनेक्षुरस उपदिष्टः। स श्रेष्ठिसकाशं यत्नशालामुपसंक्रात्तः श्रेष्ठिना च स प्रत्येकबुद्धो दृष्टः कायप्रासादिकश्चित्तप्रासादिकश्च। दृष्ट्वा श्रेष्ठिना उक्तः। केनार्यस्य प्रयोजनमिति॥ प्रत्येकबुद्धः कथयति। गृहपते इक्षुरसेनेति॥ ततस्तेन गृहपतिना भृतकपुरुषस्याज्ञा दत्ता आर्यस्येक्षुरसं प्रयच्छेति। स च गृहपतिः केनचिदेव करणीयेन बहिर्यानाय संप्रस्थितः॥ अथ तस्य पुरुषस्य परकीये द्रव्ये मात्सर्यमुत्पन्नं यद्यहमस्य रसं दास्ये पुनरप्येष आगमिष्यतीति। तेनानिष्टगतित्रयप्रपातनम्रेण सर्वाभिमतगतिद्वयनिराकरिष्णुना ऽत्यत्तदूरापगतेनार्यधर्मेभ्यः पापं चित्तमुत्पाद्य स प्रत्येक बुद्ध उक्तः। आह रे भिक्षो पात्रं देहिरसं ते दास्यामीति॥ असमन्वाहृत्यार्हच्छ्रावकप्रत्येकबुद्धानां ज्ञानदर्शनं न प्रवर्तत इति। हीनदीनानुकम्पितया भृत्यपुरुषो ऽयमस्यानुग्रहः कर्तव्य इति तत्पात्रमुपनामितम्॥ ततो ऽसौ दुराचारो निर्घृणहृदयस्तद्गृहीत्वा प्रतिगुप्तं प्रदेशं गत्त्वा प्रस्रावेण पूरयित्वा उपरीक्षुरसेनाच्छाद्य तस्मै प्रत्येकबुद्धायानुप्रददौ। तेन संलक्षितम्। स चित्तयति बह्वनेन तपस्विना पापं कृतमिति। स तदेकात्ते छोरयित्वा प्रक्रात्तः॥



भगवानाह। किं मन्यसे मौद्गल्यायन यो ऽसौ तेन कालेन तेन समयेन भृतकपुरुष आसीदयं स प्रेतः। तस्य कर्मणो विपाकेन संसारे ऽनत्तं दुःखमनुभूतवानिदानीमपि प्रेतभूतः प्रकृष्टतरं दुःखमनुभवति। तस्मात्तर्हि ते मौद्गल्यायन मात्सर्यप्रहाणाय व्यायत्तव्यं यथा एवंविधा दोषा न स्युर्ये प्रेतस्य। इति हि मौद्गल्यायन एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि ते मौद्गल्यायन एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं ते मौद्गल्यायन शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमना आयुष्मान्महामौद्गल्यायनो ऽन्ये च देवासुरगरुडादयो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project