Digital Sanskrit Buddhist Canon

सुभद्र इति ४०

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
सुभद्र इति ४०।



बुद्धो भगवान्सत्कृतो <गुरुकृतो> मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः कुशिनगर्यां विहरति स्म मल्लानामुपवर्तने यमकशालवने॥ अथ भगवांस्तदेव परिनिर्वाणकालसमये आयुष्मत्तमानन्दमामन्त्रयते स्म। प्रज्ञापयानन्द तथागतस्यात्तरेण यमकशालयोरुत्तराशिरसं मञ्चमद्य तथागतस्य रात्र्या मध्यमे <पामे> निरुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यतीति। एवं भदत्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्यात्तरेण यमकशालयोरुतराशिरसं मञ्चं प्रज्ञाप्य येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकात्ते ऽस्थात्। एकात्तस्थित आयुष्मानानन्दो भगवत्तमिदमवोचत्। प्रज्ञप्तो भदत्त तथागतस्यात्तरेण यमकशालयोरुत्तराशिरा मञ्चः॥ अथ भगवान्येन मञ्चस्तेनोपसंक्रात्तः। उपसंक्रम्य दक्षिणेन पार्श्वेन शय्यां कल्पयति पादे पादमाधायालोकसंज्ञी स्मृतः संप्रजानन्निर्वाणसंज्ञामेव मनसि कुर्वन्॥



तेन खलु समयेन कुशिनगर्यां सुभद्रः परिव्राजकः प्रतिवसति जीर्णवृद्धो महल्लकः। स विंशतिशतवयस्कः कौशिनागराणां मल्लानां सत्कृतो गुरुकृतो मानितः पूजितो ऽर्हन्संमतः। अश्रौपीत्सुभद्रः परिव्राजको ऽत्र श्रमणस्य गौतमस्य रात्र्या मध्यमे यामे अनुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यत्यस्ति च धर्मेषु काङ्क्षायितत्वमाशा च मे संतिष्ठते प्रतिबलश्च मे स भगवान्गौतमः तत्काङ्क्षायितत्वं प्रतिविनोदयितुम्। श्रुत्वा च पुनः कुशिनगर्या निष्क्रम्य येन यमकशालवनं तेनोपसंक्रान्तः॥



तेन खलु समयेनायुष्मानानन्दो बहिर्विहारस्या ऽभ्यवकाशे चङ्कमे चङ्कम्यते। अद्राक्षीत्सुभद्रः परिव्राजक आयुष्मत्तमानन्दं दूरादेव दृष्ट्वा च पुनर्येनायुष्मानानन्दस्तेनोपसंक्रात्तः। उपसंक्रम्यायुष्मतानन्देन सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्यैकात्ते ऽस्थात्। एकात्तस्थितः सुभद्रः परिव्राजक आयुष्मत्तमानन्दमिदमवोचत्। श्रुतं मे भो आनन्दाद्य श्रमणस्य गौतमस्य रात्र्यां मध्यमे यामे निरुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यत्यस्ति च मे धर्मेषु काङ्क्षायितत्वमाशा च मे संतिष्ठते प्रतिबलश्च मे स भगवान्गौतमस्तत्काङ्क्षायितत्वं प्रतिविनोदयितुम्। सचेद्भ<ग>वत आनन्दास्त्यगुरु प्रविशेम पृच्छेम कञ्चिदेव प्रदेशं शचेदवकाशं कुर्यात्प्रश्नव्याकरणाय॥ आनन्दाह। अलं सुभद्र मा भगवत्तं विहेठय श्रात्तकायो भगवान्क्लात्तकायः सुगतः॥ द्विरपि त्रिरपि सुभद्रः परिव्राजक आयुष्मत्तमानन्दमिदमवोचत्। श्रुतं भो आनन्दाद्य श्रमणस्य गौतमस्य रात्र्या मध्यमे यामे अनुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यत्यस्ति च मे धर्मेषु काङ्क्षापितत्वमाशा च मे संतिष्ठते प्रतिबलश्च मे <स> भगवान्गौतमस्तत्काङ्क्षायितत्वं प्रतिविनोदयितुम्। सचेद्भ<ग>वत आनन्दास्त्यगुरु प्रविशेम पृच्छेम कञ्चिदेव <प्रदेशं> सचेदवकाशं कुर्यात्प्रश्रस्य व्याकरणाय॥ द्विरपि त्रिरपि आयुष्मानान्दः सुभद्रं परिव्राजकमिदमवोचत्। अलं सुभद्र मा तथागतं विहेठय श्रात्तकायो भगवान्क्लात्तकायः सुगतः॥ पुनरपि सुभद्रः परिव्राजक आयुष्मत्तमानन्दमिदमवोचत्। श्रुतं भो आनन्द पुराणानां परिव्राजकानामत्तिकाज्जीर्णानां वृद्धानां महतां चरणाचार्याणां कदाचित्कर्हिचित्तथागता अर्हत्तः सम्यक्संबुद्धा लोके उत्पद्यते तद्यथा उडुम्बरं पुष्पं तस्य चाद्य भगवतो गौतमस्य रात्र्या मध्यमे यामे अनुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यति अस्ति च मे धर्मेषु काङ्क्षायितत्वमाशा च मे संतिष्ठते प्रतिबलश्च मे स भगवान्गौतमस्तत्काङ्क्षायितत्वं प्रतिविनोदयितुम्। सचेद्भ<ग>वत आनन्दास्त्यगुरु प्रविशेम पृच्छेम कञ्चिदेव प्रदेशं सचेदवकाशं कुर्यात्प्रश्नव्याकरणाय॥ पुनरप्यायुष्मानानन्दः सुभद्रं परिव्राजकमिदमवोचत्। अलं सुभद्र मा तथागतं विहेठय श्रात्तकायो भगवान्क्लात्तकायः सुगतः॥



इमां च पुनरायुष्मत आनन्दस्य सुभद्रेण परिव्राजकेन सार्धमत्तराकथां विप्रकृतामश्रौषोद्भगवान्दिव्येन श्रोत्रेण विशुद्धेनातिक्रात्तमानुषेण श्रुत्वा च पुनरायुष्मत्तमानन्दमिदमवोचत्। अलमानन्द मा सुभद्रं परिव्राजकं वारय प्रविशतु पृच्छतु यद्यदेवाकाङ्क्षति। अयं मे पश्चिमो भविष्यति अन्यतीर्थिकपरिव्राजकैः सार्धमत्तराकथासमुदाहारः अयञ्च मे चरमो भविष्यति साक्षाच्छ्रावकाणामेहिभिक्षुकया प्रव्रजितानां यदुत सुभद्रः परिव्राजकः॥ अथ सुभद्रः परिव्राजको भगवता कृतावकाशो हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातो येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्यैकात्ते निषणः। <एकात्तनिषणः> सुभद्रः परिव्राजको भगवत्तमिदमवोचत्। यानीमानि भो गौतम पृथग्लोके तीर्थ्यायतनानि तद्यथा पूरणः काश्यपो मास्करी गोशालीपुत्रः सञ्जयी वैनूटीपुत्रो ऽजितः केशकम्बलः ककुदः कात्यायनो निर्ग्रन्थो ज्ञातपुत्रः प्रत्यज्ञासिषुर्मे स्वां स्वां प्रतिज्ञां* * * * * *



अथ भगवांस्तस्यां वेलायां गाथां भाषते।

एकान्नत्रिंशत्को वयसा सुभद्र यत्प्राव्रजं किं कुशलं गवेषी।

पञ्चाशद्वर्षाणि समाधिकानि यस्मा<द>हं प्रव्रजितः सुभद्र॥

शीलं समाधिश्चरणं च विद्या चैकाग्रता चेतसो भाविता मे।

आर्यस्य धर्मस्य प्रदेशवक्ता इतो बहिर्वै श्रमणो ऽस्ति नान्यः॥



यस्य सुभद्र धर्मविनये आर्याष्टाङ्गो मार्गो नोपलभ्यते प्रथमः श्रमणस्तत्र नोपलभ्यते द्वितीयस्तृतीयश्चतुर्थः श्रमणस्तत्र नोपलभ्यते। यस्मिंस्तु सुभद्र धर्मविनये आर्याष्टाङ्गो मार्ग उपलभ्यते प्रथमः श्रमणस्तत्रोपलभ्यते द्वितीयस्तृतीयश्चतुर्थः श्रमणस्तत्रोपलभ्यते। अस्मिंस्तु सुभद्र धर्मविनये आर्याष्टाङ्गो मार्ग उपलभ्यते। इह प्रथमः श्रमण उपलभ्यते इह द्वितीय इह तृतीय इह चतुर्थो न सत्तीतो बहिः श्रमणा वा ब्राह्मणा <वा>। शून्याः परप्रवादाः श्रमणै<र्वा> ब्राह्मणैर्वा। एवमत्र पर्षदि सम्यक्सिंहनादं नदामि॥



अस्मिन्खलु धर्मपर्याये भाष्यमाणे सुभद्रस्य परिव्राजकस्य विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पन्नम्॥ अथ सुभद्रः परिव्राजको दृष्टधर्मा प्राप्तधर्मा पर्यवगाढधर्मा तीर्णकाङ्क्षस्तीर्णविचिकित्सो ऽपरप्रत्ययो ऽनन्यनेयः शास्तुः शास<न>धर्मेषु वैशारद्यप्राप्त उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येनायुष्मानानन्दस्तेनाञ्जलिं प्रणम्यायुष्मत्त<मानन्द>मिदमवोचत्। लाभा भदत्तानन्देन सुलब्धा यद्भगवतानन्दो महाचार्येण महाचार्यात्तेवासिकाभिषेकेणाभिषिक्तः। अपि त्वस्माकमपि स्युर्लाभाः सुलब्धा यद्वयं लभेमहि स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्॥ अथायुष्मानानन्दो भगवत्तमिदमवोचत्। अयं भदत्त सुभद्रः परिव्राजक आकाङ्क्षते स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्॥ तत्र भगवान्सुभद्रं परिव्राजकमामन्त्रयते। एहि भिक्षो चर ब्रह्मचर्यम्॥ सैव तस्यायुष्मतः प्रव्रज्याभूत्सोपसम्पत्स भिक्षुभावः॥



एवं प्रव्रजितः स आयुष्मानेको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा व्यहार्षीत्। एको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा विहरन्यदर्थं कुलपुत्राः केशश्मश्रु अवतार्य काषापाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनागारिकां प्रव्रजत्ति तदनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयमभिज्ञया साक्षात्कृत्योपसंपद्य प्रवेदयते। क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं करणीयं नान्यमस्माद्भवं प्रजानामि। आजातवानायुष्मानर्हन्बभूव सुबिमुक्तः॥ अथायुष्मतः सुभद्रस्यार्हत्त्वप्राप्तस्य विमुक्तिसुखं प्रतिसंवेदयत एतदभवत्। न मम प्रतिनूपं स्याद्यदहं शास्तारं परिनिर्वापयत्तं पश्येयं यन्न्वहं तत्प्रथमतरं परिनिर्वापयेयमिति॥ तत्रायुष्मान्सुभद्रः प्रथमतरं परिनिर्वृतः ततः पश्चाद्भगवान्॥



यदा भगवता पश्चिमशयनोपगतेन धर्मोपरोधिकायां वेदनायां वर्तमानायां छिद्यमानेषु धर्मेषु मुच्यमानेषु संधिषु सुभद्रो ऽर्हत्त्वे प्रतिष्ठापितो बहवश्च कौशीनागरा मल्लाधर्मे नियुक्ता तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। आश्चर्यं भदत्त यदयं सुभद्रः परिव्राजको भगवता छिद्यमानेषु धर्मेषु मुच्यमानासु संधिषु संसारवागुराया मोचयित्वा यावदत्यत्तनिष्ठे निर्वाणे प्रतिष्ठापित इति॥ भगवानाह। किमत्र भिक्षव आश्चर्यं यदिदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सुभद्रः परिव्राजकः संसारवागुराया मोचयित्वा यावदत्यत्तनिष्ठे निर्वाणे प्रतिष्ठापितो यत्तु मयातीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैनूहापोहविरहिते<न> तिर्यग्योनावुपपन्नेन स्वजीवितपरित्यागेन सुभद्रः परित्रातः कौशीनागराश्च मल्लास्तच्छृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अन्यतरस्यां पर्वतदर्यां मृगयूथ<प>ः प्रतिवसति अनेकमृगसहस्रपरिवारः पण्डितो व्यक्तो मेधावी तच्च मृगयूथं लुब्धकेन विचार्य राज्ञे निवेदितम्॥ ततो राज्ञा चतुरङ्गेण बलकायेन निर्गत्य तन्मृगयूथं सर्वं <सं>कटीकृतम्॥ ततो यूथपतेरेतदभवत्। यद्यहमिदानीमिमान्न रक्षिष्यामि यद्यैव ते सर्वे न भविष्यत्तीति॥ ततो यूथपतिः समत्ततो व्यवलोकयितुमारब्धः कतमेन प्रदेशेनास्य मृगकुलस्य निस्सरणं स्यादिति। स पश्यति तस्यां पर्वतदर्यां नदीं वहमानां सा च नदी अहार्यहारिणी शीघ्रस्रोतास्ते च मृगा दुर्बलाः॥ ततो यूथपतिः सहसा तां नहीमवतीर्य मध्ये स्थित्वा शब्दमुदीरयति। आगच्छत्तु भवत्त एतस्मात्कूलादुत्प्लुत्य मम पृष्ठे पादान्स्थापयित्वा परत्र कूले प्रतितिष्ठत। अनेनोपायेन जीवितं वः पश्याम्यतो ऽन्यथा मरणमिति॥ ततस्तैर्मृगैस्तथैव कृतम्॥ अथ तस्य पृष्ठे क्षुरनिपातात्त्वक् छिन्ना मांसरुधिरास्थि<राशि> र्व्यवस्थितो न चास्य व्यवसायो निवृत्तः तद्गतकारुण्यो मृगाणामत्तिके॥ ततः सर्वेषु लङ्घितेषु पृष्ठतो ऽवलोकयितुं प्रवृत्तः मा कश्चिदत्रालङ्घितो भविष्यतीति। स पश्यति मृगशावकमेकमलङ्घि<तम्>। ततो यूथपतिश्छिद्यमानेषु मर्मसु मुच्यमानासु संधिषु इष्टजीवितमगणयित्वा कूलमुत्तीर्य मृगशावकं पृष्ठमधिरोह्य नदीमुत्तार्य कूले स्थापयित्वा तं मृगगणमुत्तीर्ण दृष्ट्वा मरणकाले प्रणिधिं कर्तुमारब्धः। यथा मे इमे मृगा अयं च मृगशावक इष्टेन जीवितेनाच्छादिता व्यसनात्परित्राता एवमप्यहमनागते ऽध्वनि अनुत्तरां सम्यक्संबोधिमभिसंबुध्यैतान्संसारवागुराया मोचयेयमिति॥



भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन मृगपतिरासीदहं सः। मृगा इमे कौशीनागरा मल्ला मृगशावको ऽयमेव सुभद्रः॥



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्ध भगवत्तं पप्रच्छः। कानि भदत्त सुभद्रेण कर्माणि कृतानि येन पश्चिमः साक्षाच्छ्रावकाणामिति॥ भगवानाह। सुभद्रेणैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि न बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यते शुभान्यशुभानि च।



न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्नेव भद्रके कल्पे विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां <च> बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे॥ अथ भगवतः काश्यपस्य सम्यक्संबुद्धस्य भागिनेयो ऽशोको नाम्ना। स भगवत्सकाशे मोक्षार्थी प्रव्रजितः। स स्वाधीनं मोक्षं मन्यमानो न व्यायच्छते॥ यावद्दीर्घकालप्रकर्षेणाशोको जनपदे वर्षोषितः। भगवांश्च काश्यपः सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयादिवाग्निः पश्चिमशयनोपगतः अशोकश्च भिक्षुरशोकस्याधस्तात्प्रतिसंलीनो बभूव॥ अथ या देवता तस्मिन्नशोकवृक्षे व्युषिता सा भगवतः काश्यपस्य सम्यक्संबुद्धस्य परिनिर्वाणं श्रुत्वा रोदितुं प्रवृत्ता। तस्या रुदत्त्या ऽश्रुबिन्दवो ऽशोकस्य काये निपतितुं प्रवृत्ताः॥ अथाशोक ऊर्ध्वमुखस्तां देवतां रुदत्तीमाह। किमर्थं देवते रुद्यत इति॥ देवतोवाच। अद्य रात्र्या मध्यमे यामे भगवतः काश्यपस्य सम्यक्संबुद्धस्य परिनिर्वाणं भविष्यतीति॥ अथाशोको देवतावचनमुपश्रुत्य मर्मविद्ध इव प्रचलितवान्। सो ऽपि करुणकरुणं रोदितुं प्रवृत्तः॥ ततो देवतया पृष्टः किमर्थं रोदिषीति॥ अशोक उवाच। <गुरुवियोगा>ज्ज्ञातिवियोगाच्च। काश्यपो मे सम्यक्संबुद्धो मातुलः। सो ऽहं विस्रब्धविहारी न व्यायतवान् दूरे चासावहं च पृथग्जनः। अपकृष्टत्वादध्वनो न शक्ष्यामि विशेषमधिगत्तुमिति॥ देवतोवाच। यदि पुनरहं भवत्तं भगवत्सकाशमुपनयेयं किं शक्यमिति॥ अशोक उवाच। तथा हि मे बुद्धिः परिपक्का यथा सहदर्शनादेव भगवतः <शक्ष्यामि> विशेषमधिगत्तुमिति॥ ततो देवतया अशोको भगवत्सकाशमृद्यनुभावान्नीतः। तस्य भगवद्दर्शनात्प्रसाद उत्पन्नः प्रसादजातस्य च भगवता काश्यपेन तथाविधो धर्मो देशितः यच्छ्रवणादर्हत्त्वं साक्षात्कृतं प्रथमतरं चायुष्मानशोकः परिनिर्वृतः ततो भगवान्काश्यपः सम्यक्संबुद्धः॥



ततः सा देवता आयुष्मतो ऽशोकस्य परिनिर्वाणं दृष्ट्वा प्रीतिमुत्पादयामास चित्तयति च। यः कश्चिदनेनायुष्मता विशेषो ऽधिगतः सर्वः स मा<मा>गम्य। एवमप्यहमनागते ऽध्वनि यो ऽसौ भगवता काश्यपेन उत्तरो नाम माणवो व्याकृतो भविष्यसि त्वं मानववर्षशतायुषि प्रजायां शाक्यमुनिर्नाम तथागतो ऽर्हन्सम्यक्संबुद्ध इति तस्याहमेव पश्चिमशयनोपगतस्य चरमः साक्षाच्छ्रावकाणमेहिभिक्षुक<या प्रव्रजितानां> भवेयं पूर्वतरं च भगवतः परिनिर्वा<पयेयं> ततो भगवान्शाक्यमुनिरिति॥



भगवानाह। किं मन्यध्वे भिक्षवो यासौ देवतायं स सुभद्रः। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यत्कल्याणमित्रा विहरिष्यामः कल्याणसहायाः कल्याणासंपर्का न पापमित्रा न पापसहाया न पापसंपर्का इत्येवं वो भिक्षवः शिक्षितव्यम्॥



अथायुष्मानानन्दो भगवत्तमिदमवोचत्। इह मम भदत्तैकाकिनो रहोगतस्य प्रतिसंलीनस्यैवं चेतसि चेतःपरिवितर्क उदपादि। उपार्धमिदं ब्रह्मचर्यस्य यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्को न पापमित्रता न पापसहायता न पापसंपर्क इति॥ मा त्वमानन्दैवं वोच उपार्धमिदं ब्रह्मचर्यस्य यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्को न पापमित्रता न पापसहायता न पापसंपर्क इति। सकलमिदमानन्द केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्को न पापमित्रता न पापसहायता न पापसंपर्कः। तत्कस्य हेतोः। मां ह्यानन्द कल्याणमित्रमागम्य जातिधर्माणः सत्त्वा जातिधर्मतायाः परिमुच्यत्ते जराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासधर्माणः सत्त्वा उपायासधर्मतायाः परिमुच्यत्ते। तदनेनैव ते आनन्द पर्यायेण वेदितव्यं यत्सकलमिदं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्को न पापसहायता न पापमित्रता न पापसंपर्क इत्येवं ते आनन्द शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project