Digital Sanskrit Buddhist Canon

अनाथपिण्डद इति ३९

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
अनाथपिण्डद इति ३९।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। अथ भगवान्पूर्वान्हे निवास्य पात्रचीवरमादाय श्रावस्त्यां पिण्डाय प्राविक्षत्। यावदनुपूर्वेण चञ्चूर्यमाणो राजमार्गमवतीर्णः। तत्र च राजमार्गे ऽन्यतमो ब्राह्मणो ऽभ्यागतः। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकम्। दृष्ट्वा च पुनः सुचिरं निरीक्ष्य पृथिव्यां लेखां निकृष्य भगवत्तमुवाच। भो गौतम न तावद्दुत्ते लेखा लङ्घयितव्या यावन्मे यञ्च पुराणशतानि नानुप्रयच्छसीति॥ ततो भगवान्कर्मणामविप्रणाशसंदर्शनार्थमदत्तादानवैरमण्यार्थं च इन्द्रकील इव तस्मिन्प्रदेशे स्थितः॥



एष च शब्दः श्रावस्त्यां समत्ततो विसृतः यथा किल भगवान्नाजमार्गे ऽन्यतमेन ब्राह्मणेन पञ्चानां पुराणशतानामर्थे विधारित इति। ततो राजा प्रसेनजित्कौशलः सहश्रवणदेवामात्यगणपरिवृतो येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवत्तमिदमवोचत्। गच्छतु भगवानहं प्रदास्यामीति॥ भगवानाह। न महाराज त्वयैतानि दातव्यान्यपि त्वन्येनैतानि दातव्यानीति॥ तथा विशाखा मृगारमाता रिषिदत्तपुराणौ स्थपती शक्रब्रह्मादयो देवा वैश्रवणप्रभृतयश्चत्वारो लोकपाला हिरण्यसुवर्णमुपादाय भगवत्तमुपसृप्ताः। तानपि भगवानुवाच न भवद्भिरेतानि दातव्यानीति॥ यावदनाथपिण्डदेन गृहपतिना श्रुतम्। स हिरण्यसुवर्णस्य हेलां पूरयित्वा उपरि पञ्च पुराणशतानि दत्त्वा भगवत्तमुपगतो भगवन्निदं प्रतिगृह्यतामिति॥ भगवानाह। गृहपते त्वया एतानि दातव्यानि दीयतां ब्राह्मणायेति॥ ततो ऽनाथपिण्डदेन गृहपतिना सा सुवर्णहेला ब्राह्मणाय दत्ता॥



भिक्षवः संशयजाताः सराजिका च पर्षत्सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। पश्य भगवन्यावदनेन ब्राह्मणेन भगवान्विधारितो ऽनाथपिण्डदेन च कार्षापणा दत्ताः कुतश्च प्रभृति भगवानस्मै धारयत इति॥ भगवानाह। इच्छथ यूयं भिक्षवः श्रोतुम्॥ एवं भदत्त॥ तेन हि भिक्षवः शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये। [तथागतेनैतानि भिक्षवः पूर्वमन्यासु जातिषु अवश्यंभावीनि कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः बाह्ये पृथिवीधातौ नाब्धातौ न तेजोधातौ न वायुधातौ अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥]



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति। ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नमखिलमकण्ठकमेकपुत्रकमिव राज्यं पालयति॥ तस्य ज्येष्ठः कुमारो युवराजः। सो ऽपरेण समयेन वसत्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशूक्रशारिकाकोकिलजीवञ्जीविकनिर्घोषिते वनषण्डे ऽमात्यपुत्रपरिवृतः क्रीडति रमते। वयस्यो ऽमात्यपुत्रः वयस्यः। सो ऽपरेण पुरुषेण सार्धमक्षैः क्रीडितवान्। ततो ऽमात्यपुत्रस्तेन पुरुषेण पञ्च पुराणशतानि निर्जितः। राजपुत्रश्चास्य प्रतिभूरवस्थितः।* * * * * * *



* * * *तेन मे संसारे ऽनत्तं भोगव्यमनमनुभूतमिदानीमप्यभिसंबुद्धबोधिरनेन बाधितः। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीयो ऽदत्तदानस्य च प्रहाणाय व्यापत्तव्यं यथा एवंविधा दोषास्तस्य। एवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project