Digital Sanskrit Buddhist Canon

धर्मगवेषीति ३८

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
धर्मगवेषीति ३८।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ आचरितमेतदना<थ>पिण्डदस्य गृहपतेः कल्यमेवोत्थाय भगवतो दर्शनायोपसंक्रम्य जेतवनं स्वयं संमार्ष्टुम्॥ अथान्यतमेन कालेनानाथपिण्डदस्य गृहपतेः कश्चिद्याक्षेपः समुत्पन्नः। ततो भगवान्पुण्यकामानां सत्त्वानां पुण्यतीर्थोपदर्शनार्थं स्वयमेव संमार्जनीं गृहीत्वा जेतवनं संमार्ष्टु प्रवृत्तः। भगवत्तं दृष्ट्वा महाश्रावका अपि शारद्वतीपुत्रमौद्गल्यायनकाश्यपनन्दरेवतप्रभृतयः संमार्ष्टुं प्रवृत्ताः॥ ततो जेतवनं सह श्रावकैः संमृज्य उपस्थानशालां प्रविश्य पुरस्ताद्भिक्षुसङ्घस्य प्रज्ञप्त एवासने निषणः। निषद्य भगवान्भिक्षूनामन्त्रयते स्म। पञ्चेमे भिक्षव आनुशंसाः संमार्जने। कतमे पञ्च। आत्मनश्चित्तं प्रसीदति। परस्य चित्तं प्रसीदति। देवतानां मनसो भवति प्रासादिकम्। संवर्तनीयं कुशलमूलमुपचिनोति। कायस्य च भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यते। इति पञ्चानुशंसाः संमार्जने॥



ततश्चतस्रः पर्षदो भगवतः सकाशात्संमार्जनस्येति पञ्चानुशंसानुपश्रुत्य प्रसादजाताः प्रीतिसौमनस्यप्रसन्नचित्ताः स्वस्वासनादुत्थाय येन भगवांस्तेनाञ्जलिं प्रगृह्य भगवत्तमेतदूचुः। वयं भगवन्भगवत उपस्थापकाः सर्वं जेतवनं सदा संमार्ष्टुमिच्छामो ऽस्माकमनुग्रहं कुरु। ततो भगवांस्तासां तूष्णीभावेनाधिवासयति॥ ततस्ताश्चतस्रः पर्षदो भगवतो ऽधिवासनां विदित्वा संमार्जनीर्गृहीत्वा सर्वं जेतवनं संमार्ष्टु प्रवृत्ताः। सर्वं जेतवनं चाराममार्गपर्यत्तं संमार्ज्य भगवतो धर्मदेशनां श्रोतुमेकात्ते निषण्णा आदरयुक्ताः॥



अनाथपिण्डदो गृहपतिरपि तं प्रदेशमनुप्राप्तः। तेन श्रुतं यथा भगवता महाश्रावकसहायेन स्वयमेव जेतवनं संमृष्टमिति। भगवता देशितान्संमार्जने पञ्चानुशंसानुपश्रुत्य विप्रतिसारीभूत इति चित्तितवान्। किमर्थं मया भगवतो विहारे तस्मिन्पुण्यक्षेत्रे। यत्राद्यैवारोपितं बीजमद्यैव फलं संपद्यते स्वल्पस्यानत्तं फलं निष्पद्यते। तथागतसंमुखीभूते सर्वश्रावकसंवासिते ऽतीवमनोरमभूमौ सर्वदेवासुरमनुष्यगन्धर्वगरुडकिन्नरमहोरगाणां मनोहर्षास्पदीभूते सर्वभूतप्रेतपिशाचयक्षराक्षसनारकद्रोहिणामनवकाशे सर्वमारमारकायिकानां देवानां मनुष्याणां चानवकाशभुवने भग्नाभिभवजाते रागद्वेषमोहमात्सर्येर्ष्यामानदुष्टसत्त्वानामविदि<त>प्रभावे पापाचाराणामलब्धागमने पापमित्रहस्तगतानाममनापजाते श्रद्धाविगतानां त्यागधर्मरहितानामदृष्टाचित्तितभवने दुःशीलानां कुवृत्तिनाममनोगमने दयाभावविरहितानां क्रोधिनां परुषभाषिणामलब्धशरणे वीर्यहीनकुसीदवृत्तिनां त्यक्तारम्भाशमिनां सूदूरीभूते ध्यानच्युतमुषितस्मृतीनां कुदृष्टिचारिणां कुमार्गप्रस्थितानामन्धकारीभूते दुःप्रज्ञानां कुबुद्विलब्धज्ञानात्तराणामप्राप्तागमनभावे दातॄणामतीवमनोरथकृते सुशीलयुक्तानां मनोरमवासे क्षमाचारिणामादरागमनलब्धे वीर्यारब्धानां नित्यानुगमनप्राप्ते ध्यानरतानामालीनभुवने प्रज्ञाधारिणां प्रबोधप्रकाशापरित्यक्तक्षेत्रे एतादृशे बुद्धविक्रीडिते विहारे संमार्ष्टुं चित्ताक्षेपः कृतः। न पुनः कदापि मया तथा क्षमं कर्तुम्। इति निश्चित्य पुनस्तस्यैतदभवत्। यत्र भगवता महाश्रावकसहायेन स्वयं संमार्जनं कृतं कथमहमस्योपरि यास्यामि॥



ततो ऽनाथपिण्डदो ऽपत्रपमाणनूपो लज्जापरिगतहृदयस्तत्रावस्थाने स्थितः॥ जानकाः पृच्छका बुद्धा भगवत्तः। तेन भिक्षवः पृष्टाः क एष इति॥ भिक्षव ऊचुः। अनाथपिण्डदो भदत्त भगवतो लज्जायमाननूपो ऽपत्राप्यपरिगतहृदयो नेच्छति भगवतः सकाशमत्रोपरिष्टात्पादन्यासेनोपसंक्रमितुं यत्र नाम भगवता महाश्रावकसहायेन स्वयं जेतवनं संमृष्टमिति॥ ततस्तं भगवानाह। गृहपते बुद्धवचनं* * * * *प्रवेष्टव्यं। कस्मात्। सद्धर्मगौरवा हि बुद्धा भगवत्तो धर्मो ह्यर्हतां गुरुरिति॥ ततो ऽनाथपिण्डदो गाथाभिगीतेन गायन्येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवतः पादाभिवन्दनं कृत्वा पुरस्तादेकात्ते निषणो धर्मकथाश्रवणाय॥ ततो भगवता धर्म्यया कथया संदर्शितः समादापितः समुत्तेजितः संप्रहर्षितः। सो ऽनेकपर्यायेण भगवता धर्म्यया कथया संदर्शितः समादापितः समुत्तेजितः संप्रहर्षितः संप्रकात्तः॥



तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं <बुद्धं> भगवत्तं पप्रच्छुः। आश्चर्यं भदत्त यद्भगवान्धर्मे सादरजातः सगौरवजातो धर्मस्यैव वर्णं भाषत इति। पश्य भदत्त यावद्धर्मरत्रस्यामी भाजनभूताः सत्त्वा आदरेण सर्वं जेतवनं संमार्ष्टुं प्रवृत्ता धर्मं च श्रोतव्यं मन्यत्त इति॥ भगवानाह। किमत्र भिक्षव आश्चर्यं यदिदानीं तथागतो विगतरागद्वेषमोहो ऽथ परिमुक्तो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर्धर्मे सादरजातः सगौरवजातो धर्मस्यैव वर्णं भाषते। यत्तु मयातीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर्धर्महेतोः स्वजीवितस्यापिपरित्यागः कृतः तच्छृणुत साधु च <सुष्ठु च> मनसि कुरु<त> भाषिष्ये॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नमखिलमकण्ठकमेकपुत्रमिव राज्यं पालयति। स च राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महति त्यागे वर्तते॥ सो ऽपरेण समयेन देव्या सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः कालात्तरेण सा देवी सत्त्ववती संवृत्ता दोहदश्चास्याः समुत्पन्नः सुभाषितं शृणुयामिति। तया राज्ञे निवेदितम्। राज्ञा नैमित्तिकानाहूय पृष्टास्त ऊचुर्देवास्य सत्त्वस्यानुभाव इति॥ ततस्तेन राज्ञा सौभाषणिकस्यार्थे सुवर्णपिटको ग्रामनगरनिगमराष्ट्रराजधानीषु पर्यटितो न च तत्सुभाषितमुपलभ्यते॥ यावत्परिपूर्णैर्नवभिर्मासैः सा देवी प्रसूता। दारको जातो ऽभिनूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्त्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाट उच्चघोषः संगतभ्रूस्तुङ्गनासः सर्वाङ्गप्रत्यङ्गोपेतः। तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवत्वस्य दारकस्य नामेति। अमात्या ऊचुः। यस्मादयं दारको ऽजात एव सुभाषितं गवेषते तस्माद्भव<तु> दारकस्य सुभाषितगवेषी नामेति। तस्य सुभाषितगवेषीति नाम कृतम्॥ सुभाषितगवेषी दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां द्वाभ्यां मलधात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्। यदा क्रमेण महान्संवृत्तस्तदापि सुभाषितं गवेषते न च लभते॥



स पितुरत्ययाद्राज्ये प्रतिष्ठितः अमात्यानाज्ञापयति। सुभाषितेन मे ग्रामण्यः प्रयोजनं गवेषत मे सुभाषितमिति॥ ततस्तैरमात्यैः सकले जम्बूद्वीपे हिरण्यपिटकाः सुभाषितहेतोः संदर्शिता न च सुभाषितमासादितम्। ततस्ते राज्ञे निवेदितवत्तः॥ ततः स राजा सुभाषितश्रवणहेतोरुत्कण्ठति परितप्यति॥



शक्रस्य देवानामिन्द्रस्याधस्ताज्ज्ञानदर्शनं प्रवर्तते। स पश्यति राजानं सुभाषितश्रवणहेतोर्विहन्यमानम्। तस्यैतदभवत्। यन्न्वहं राजानं मीमांसेयेति॥ अथ शक्रो देवानामिन्द्रो गुह्यकनूपधारी भूत्वा विकृतकरचरणनयनो राज्ञः पुरस्ताद्राथां भाषते।



धर्मं चरेत्सुचरितं नैनं दुश्चरितं चरेत्।

धर्मचारी सुखं शेते अस्मिँल्लोके परत्र चेति॥



ततो राजा विस्मयोत्फुल्लदृष्टिस्तं गुह्यकमुवाच। ब्रूहि ब्रूहि गुह्यक तावन्मे एतां गाथां श्रोष्यामीति॥ ततो गुह्यको राजानमुवाच। यदि यद्ब्रवीमि तन्मे करिष्यसि एवमहमपि यदाज्ञापयिष्यसि तत्करिष्यामीति॥ राजोवाच। किमाज्ञापयिष्यसीति॥ गुह्यक उवाच। सप्ताहोरात्राणि खदिरकाष्ठैरग्निखदां तापयित्वा तत्र पद्यात्मानमुत्स्रक्ष्यसि ततस्ते ऽहं पुनर्गाथां वक्ष्यामीति॥ तच्छ्रवणाच्च राजा प्रीतमनास्तं गुह्यकमुवाच। एवमस्त्विति॥ ततो राज्ञा गुह्यकं प्रतिज्ञायां प्रतिष्ठाय सर्वविजिते घण्ठावघोषणं कारितम्। सप्तमे दिवसे राजा सुभाषितश्रवणहेतोरग्नि<ख>दा<या>मात्मानमुत्स्रक्ष्यति ये ऽद्भुतानि द्रष्टुकामा आगच्छत्विति॥



ततो ऽनेकेषु प्राणिशतसहस्रेषु संनिपतितेषु गगनतले चानेकेषु देवताशतसहस्रेषु संनिपतितेषु बोधिसत्त्वस्याध्याशयशुद्धितामवगम्याद्भुतभावं च द्रष्टुमिहावतस्थुः॥ अथ स गुह्यक आकाशमुत्पत्य बोधिसत्त्वमुवाच। क्रियतां महाराज यथाप्रतिज्ञातमिति॥ ततो राजा ज्येष्ठं कुमारं राज्ये ऽभिषिच्यामात्यान्नैगमजानपदांश्च क्षमयित्वा जनकायं चाश्वास्याग्निखदासमीपमुपगम्य इमां गाथां भाषते।



एषाङ्गारखदा महाभयकरी ज्वालार्करक्तोपमा

धर्मार्थे प्रपतामि निश्चितमना निस्साध्वसो जीविते।

एषा चाग्निखदा भविष्यति शुभा पुण्यानुभावान्मम

शीता चन्दनपङ्कवासितजला पद्माकुला पद्मिनी॥



इत्युक्ता बोधिसत्त्वस्तस्यामग्निखदायां पतितः पतितमात्रस्य चास्याग्निखदा पद्मिनी प्रादुर्भूता॥ ततः शक्रो देवानामिन्द्रस्तदत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा यक्षनूपमत्तर्धाप्य स्वनूपेण स्थित्वा गाथां भाषते।



धर्मं चरेत्सुचरितं नैनं दुश्चरितं चरेत्।

धर्मचारी सुखं शेते लोके ऽस्मिंश्च परत्र चेति॥

अथ बोधिसत्त्वेन तां गाथामुद्गृहीत्वा सुवर्णपत्तेष्वभिलिख्य कृत्स्ने जम्बुद्वीपे ग्रामनगरनिगमराष्ट्रराजधानीषु पर्यटिता॥



भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूवाहं सः। तदापि मे सुभाषितश्रवणहेतोः स्वजीवितं परित्यक्तं प्रागेवेदानीम्। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यद्धर्मं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामो धर्मं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project