Digital Sanskrit Buddhist Canon

शश इति ३७

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Śaśa iti 37
शश इति ३७।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपीण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः कालात्तरेण पत्नी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातः। स उन्नीतो वर्धितो महान्संवृत्तः। पिता चास्य धनक्षयमनुप्राप्तो भोगक्षयमनुप्राप्तः। स च विस्तीर्णसुहृत्संबन्धिबान्धवस्तं पुत्रं कालानुकालं ज्ञातिसकाशं प्रेषयति। स तैर्ज्ञातिभिस्तथा लाडितो यथा तेषु प्रवृद्धस्नेहः संवृत्तः॥



यावदपरेण समयेन जेतवनं निर्गतः। अथासौ ददर्श बुद्धं भगवतं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकम्। स प्रसादजातश्च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। तस्मै भगवता संसारवैराग्यिकी धर्मदेशना कृता यां श्रुत्वा संसारे दोषदर्शी निर्वाणे गुणदर्शी भूत्वा मातापितरावनुज्ञाप्य भगवच्छासने प्रव्रजितः॥ स एवं प्रव्रजितः सन् ज्ञातिभिः सह संसृष्टो विहरति। ततो भगवांस्तं गृहिसंसर्गान्निवार्यारण्ये नियोजयते। स तत्र नाभिरमते। यावद्भगवांस्तं त्रिरपि गृहिसंसर्गान्निवारयति। वत्सानेकदोषदुष्टो ऽयं गृहीसंसर्गः सत्ति चक्षुर्विज्ञेयानि नूपाणि इष्टानि कात्तानि प्रियाणि मनापानि कामोपसंहितानि रञ्जनीयानि श्रोत्रविज्ञेयाः शब्दा घ्राणविज्ञेया गन्धा जिह्वाविज्ञेया रसाः कायविज्ञेयानि स्प्रष्टव्यानि मनोविज्ञेया धर्मा इष्टाः कात्ताः प्रिया मनापाः कामोपसंहिता रञ्जनीयाः कण्टकभूताः। अनेकपर्यायेण चास्यारण्यगुणाः संवर्णिता यत्र स्थितस्य कुशलानां धर्माणां वृद्धिर्भवति॥ यावत्तेन कुलपुत्रेण भगवत्तं कल्याणमित्रमागम्यारण्यवासेन वसता युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहृत्य सर्वक्लेशप्रहाणदर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः॥



स पूर्वनिवासमनुस्मृत्य भगवतो ऽस्यातिदुष्कराणि दृष्ट्वा भगवत्तमुपसंक्रम्य सगौरवः स्तौति मानयति च॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। पश्य भदत्त यावदयं कुलपुत्रो भगवता यावत्त्रिरपि ग्रामात्तान्निवार्यारण्ये नियोजितो यावदर्हत्त्वे प्रतिष्ठापित इति॥ भगवानाह। किमत्र भिक्षव आश्चर्यं यदिदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिभुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञानज्ञेयवशिप्राप्तेनायं कुलपुत्रो यावत्त्रिरपि ग्रामात्तान्निवार्यारण्ये नियोजितो यावदर्हत्त्वे प्रतिष्ठापितो यत्तु मयातीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योयायासैरयं कुलपुत्रः स्वजीवितपरित्यागेन ग्रामात्तान्निवार्यारण्यवासे नियुक्तस्तच्छृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अन्यतरस्मिन्गिरिकन्दरे प्रस्रवणपुष्पफलकन्दसंपन्ने ऋषिः प्रतिवसति कष्टतपाः फलमूलाम्बुभक्षो ऽजिनवल्कलवासी अग्निहोत्रिकः। तस्य च ऋषेः शशो वयस्यो मानुषप्रलापी। स दिवसानुदिवसं त्रिः ऋषिसमीपमुपसंक्रामति उपसंक्रम्याभिवादनं कृत्वा विविधाभिः कथाभिः संमोदते। तावेवं प्रवृद्धस्नेहौ पितापुत्रवदवस्थितौ॥ यावत्कालात्तरेण महत्यनावृष्टिः प्रादुर्भूता यया नद्युदपानान्यल्पसलिलानि संवृतानि पुष्पफलवियुक्ताश्च पादपाः॥ ततः स ऋषिस्तत्राश्रमपदे उपभोगविरहान्नाभिरमते। सो ऽजिनचीरवल्कलान्यभिसंक्षेप्तुमारब्धः॥



अथ शशस्तं तथा प्रवृत्तं दृष्ट्वा पृष्टवान्महर्षे क्क गमिष्यसीति॥ ऋषिराह। ग्रामात्तमवगमिष्यामि तत्र पक्कभैक्षेणा यापयिष्यामीति॥ ततः स ऋषिवचनमुपश्रुत्य जातसंतापो मातापितृवियोगमिव मन्यमानः पादयोर्निपत्य तमृषिमुवाच। मा मां परित्यज अपि चानेकदोषसंकुलो गृहवासो ऽनेकगुणसंपन्नश्चारण्यवास इति॥ स बह्वप्युच्यमानो न निवर्तते। ततः स शशेनोच्यते। यद्यवश्यं गत्तव्यं किं न्वद्येह तावत्प्रतीक्षस्वश्चो यथाभिप्रेतं यास्यसीति॥ ततस्तस्य ऋषेरेतदभवत्। नियतमयं मामाहारजातेनोपनिमन्त्रयितुकामो यस्मादिमे तिर्यग्योनिगताः प्राणिनः संचयपरा इति। तेन तस्य प्रतिज्ञातम्॥



अथ कृताह्निकमाहारकाले शश उपसंक्रम्य तमृषिं प्रदक्षिणीकृत्य क्षमयितुमारब्धः। क्षमस्व मम महर्षे यन्मया ऊहापोहविरहितेन तिर्यग्योनावुपपन्नेन तव किञ्चिदपकृतं स्यादित्युक्त्वा सहसोत्प्लुत्याग्रौ प्रपतितः॥ ततः स रिषिर्जातसंवेगो बाष्पदुर्दिनमुखः प्रियैकपुत्रकमिवोपगृह्योवाच। वत्स किमिदमारब्धमिति॥ शश उवाच। महर्षे ऽरण्यप्रियतया मदीयेन मांसेनाहोरात्रं यापयिष्यसि। किं च

न सत्ति मुद्रा न तिला न तण्डुला वने विवृद्धस्य शशस्य केचन।

शरीरमेतत्त्वनलाभिसंस्कृतं ममोपयोज्याद्य तपोवने वसेति॥



ततः स ऋषिः शशवचनमुपश्रुत्य जातसंवेग उवाच। यद्येवं तव प्रियतया काममिहैव जीवितं परित्यक्ष्यामि न च ग्रामात्तमवतरिष्यामीति। श्रुत्वैतद्वचनं शशः प्रीतमनाः संवृत्त ऊर्ध्वमुखश्च गगनतलमभिवीक्ष्य याचितुं प्रवृत्त आह च।

अरण्ये मे समागम्य विवेके रमते मनः।

अनेन सत्यवाक्येन माहेन्द्रं देव वर्ष नु॥



इत्युक्तमात्रे बोधिसत्त्वानुभावेन माहेन्द्रभवनमाकम्पितम्। देवतानां चाधस्ताज्ज्ञानदर्शनं प्रवर्तते। किं कृतमिति। पश्यत्ति बोधिसत्त्वानुभावादिति। यावच्छक्रेण देवेन्द्रेण माहेन्द्रवर्षं वृष्टं येन तदाश्रमपदं पुनरपि तृणगुल्मौषधिपुष्पफलसमृद्धं संवृत्तम्॥



ततस्तेन ऋषिणा शशं कल्याणमित्रमागम्य तत्र वसता पञ्चाभिज्ञाः साक्षात्कृताः॥ ततः स ऋषिः शशमुवाच। भोः शश तेन दुष्करेण व्यवसायेन कारुण्यभावाच्च किं प्रार्थयसे इति। तेनोक्तम्। अन्धे <लोके अनायके> अपरिणायके बुद्धो भूयासमतीर्णानां सत्त्वानां तारयिता अमुक्तानां मोचयिता अनाश्वस्तानामाश्वासयिता अपरिनिर्वृतानां परिनिर्वापयितेति॥ ततः स ऋषिरिदं वचनमुपश्रुत्य शशमब्रवीत्। यदा त्वं बुद्धो भवेथास्माकमपि समन्वाहरेथा इति॥ शश उवाचैवमस्त्विति॥



भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन शश आसीदहं सः। ऋषिरेष एव कुलपुत्रः। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यत्कल्याणमित्रा विहरिष्यामः कल्याणसहायाः कल्याणसंपर्का न पापमित्रा न पापसहाया न पापसंपर्का इत्येवं वो भिक्षवः शिक्षितव्यम्॥



अथायुष्मानानन्दो भगवत्तमिदमवोचत्। इह मम भदत्त एकाकिनो रहोगतस्य प्रतिसंलीनस्यैवं चेतसि चेतःपरिवितर्क उदपादि। उपार्धमिदं ब्रह्मचर्यस्य यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्को न पापमित्रता न पापसहायता न पापसंपर्का इति॥ भगवानाह। मा त्वमानन्दैवं विच उपार्धमिदं ब्रह्मचर्यस्य यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्को न पापमित्रता न पापसहायता न पापसंपर्का इति। सकलमिदमानन्द केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्को न पापमित्रता न पापसहायता न पापसंपर्काः। तत्कस्य हेतोः। मां ह्यानन्द कल्याणमित्रमागम्य जातिधर्माणः सत्त्वा जातिधर्मतायाः परिमुच्यत्ते जराव्याधिशोकमरणपरिदेवदुःखदौर्मनस्योपायासधर्माणः सत्त्वा उपायासधर्मतायाः परिमुच्यते। तदनेनैव ते आनन्द पर्यायेण वेदितव्यं यत्सकलमिदं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं ब्रह्मचर्यं यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्का न पापमित्रता न पापसहायता न पापसंपर्का इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते आयुष्मानानन्दो ऽन्ये च भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project