Digital Sanskrit Buddhist Canon

सुनूप इति ३५

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
सुनूप इति ३५।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। यदा भगवान्प्रतिसंलयनाद्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्विवानेडकर्मनेकशता <च> पर्षद्भगवतः सकाशान्मधुरमधुरं धर्मं शृणोत्यनिञ्जमानैरिन्द्रियैस्तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। पश्य भदत्त यावद्धर्मरत्नस्यामी भाजनभूताः सत्त्वा आदरेण श्रोतव्यं मन्यत्त इति॥ भगवानाह। यथा तथागतेन भिक्षव आदरजातेन धर्मः श्रुतश्चोद्गृहीतश्च तच्छृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये।



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां सुनूपो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नमखिलमकण्ठकमेकपुत्रकमिव राज्यं पालयति। स च राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महति त्यागे वर्तते। तस्य च राज्ञः सुन्दरिका नाम देवी अभिनूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता सुन्दरकश्च नाम्ना एकपुत्र इष्टः कात्तः प्रियो मनापः क्षात्तो ऽप्रतिकूलः॥ अथापरेण समयेन राज्ञः सुनूपस्य धर्मे ऽभिलाष उत्पन्नः। तेन सर्वे ऽमात्याः संनिपात्योक्ताः पर्येषत मे ग्रामण्यो धर्मान्धर्मो मे रोचत इति। ततस्ते ऽमात्याः कृतकरपुटा राजानं विज्ञापयत्ति। दुर्लभो महाराज धर्मः। श्रूयते महाराज बुद्धानां लोके उत्पादाद्धर्मस्योत्पादो भवतीति॥ ततो राज्ञा सुवर्णपिटकं ध्वजाग्रे बद्ध्‍वा सर्वविजिते घण्टावघोषणं कारितं यो मे धर्मं वक्ष्यति तस्येमं सुवर्णपिटकं दास्यामि महता च सत्कारेण सत्करिष्यामीति॥ ततो बहवः काला अतिक्रात्ता न च कश्चिद्धर्मदेशक उपलभ्यते। ततः स राजा धर्महेतोरुत्कण्ठति परितप्यति॥



शक्रस्य च देवानामिन्द्रस्याधस्ताज्ज्ञानदर्शनं प्रवर्तते। स पश्यति राजानं धर्महेतोर्विहन्यमानन्। तस्यैतदभवत्। यन्न्वहं सुनूपं राजानं मीमांसेयेति॥ ततो यक्षनूपमात्मानमभिनिर्माय विकृतकरचरणनयनो ऽनेकपरिषन्मध्यगतं राजानमेतदवोचत्। ननु धर्माभिलाषी भवानहं ते धर्मं वक्ष्यामीति॥ ततो धर्मश्रवणात्प्रीतिप्रामोद्यजातो राजा यक्षमेतदुवाच। ब्रूहि गुह्यक धर्मान्श्रोष्यामीति॥ गुह्यक उवाच। सुखितस्य बत महाराज धर्मा अभिलसत्ति बुभुक्षितो ऽस्मि भोजनं तावन्मे प्रयच्छेति॥ तच्छ्रुत्वा राजा पौरुषेयानामन्त्रयामास। आनीयत्तामस्य भक्ष्यभोज्यप्रकारा इति॥ यक्ष आह। सद्योहतरुधिरमांसभक्ष्यो ऽहमेतं मे सुन्दरमेकपुत्रकं प्रयच्छेति। श्रुत्वा राजा परं विषादमापन्नः कदाचित्कर्हिचिन्मे ऽद्य धर्मशब्द आसादितः सो ऽप्यनर्धेण मूल्येनेति॥ ततः सुन्दरः कुमारस्तदुपश्रुत्य पितुः पादयोर्निपत्य राजानं विज्ञापयामास। मर्षय देव पूर्यतां देवस्याभिप्रायं प्रयच्छ मां गुह्यकायाहारार्थमिति॥ ततो राजा तमेकपुत्रकमिष्टं कात्तं प्रियं मनापं क्षात्तमप्रतिकूलं धर्मस्यार्थे यक्षाय दत्तवान्॥



ततो यक्षेणर्द्धिबलाधानाद्राज्ञः पर्षदश्च तथा दर्शितो यथाङ्गप्रत्यङ्गानि पृथग्विकृत्य विकृत्य भक्षितानि रुधिरं च पीयमानं* * *दृष्ट्वा राजा धर्माभिलाषी न विषादमापन्नः॥ स गुह्यको राजानमुवाच। अतृप्तो ऽस्मि भोः पार्थिव भूयो मे प्रयच्छेति॥ ततो राजा तस्मै दयितां भार्यां दत्तवान्। सापि तेनैवाकारेण दर्शिता॥ ततो भूयो राजानमुवाच। भोः पार्थिवाद्यापि तृप्तिर्न लभ्यत इति॥ ततो राजा यक्षमुवाच। वत्स दत्तो मे एकपुत्रको भार्या च दयिता किं भूयः प्रार्थयस इति॥ गुह्यक उवाच। स्वशरीरं मे प्रयच्छानेन तृप्तिमुपयास्यामीति॥ राजोवाच। यदि स्वशरीरं ते प्रदास्यामि कथं पुनर्धर्मं श्रोष्यामि किं नु पूर्वं मे धर्मं वद पश्चाद्गृहीतधर्मा शरीरं परित्यक्ष्यामीति॥ ततो गुह्यकेन राजानं प्रतिज्ञायां प्रतिष्ठाप्यानेकशतायाः परिषदः पुरस्ताद्धर्मो देशितः।



प्रियेभ्यो जायते शोकः प्रियेभ्यो जायते भयम्।

प्रियेभ्यो विप्रमुक्तानां नास्ति शोकः कुतो भयमिति॥



ततो राजा अस्या गाथायाः सहश्रवणात्प्रह्लादितमनाः प्रीतिसौमनस्येन्द्रियजातो यक्षमुवाच। इदं गुह्यक शरीरं यथेष्टं क्रियतामिति॥



ततः शक्रो देवेन्द्रो राजानं मेरुवदकम्प्यमनुत्तरायां सम्यक्संबोधौ विदित्वा यक्षनूपमत्तर्धाप्य स्वनूपेण स्थित्वा प्रसादविकसिताभ्यां नयनाभ्यामेकेन पाणिना पुत्रं गृहीत्वा द्वितीयेन च भार्यां राजानमभ्युत्साहयन्नुवाच। साधु साधु सत्पुरुष दृढसंनाहस्त्वं नचिरादनेन व्यवसायेन अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे अयं च ते इष्टजनसमागम इति॥ ततो राजा शक्रं देवेन्द्रमिदमवोचत्। साधु साधु कौशिक कृतो ऽस्माकं धर्माभिप्रायः पूरितश्चेति॥



भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन सुनूपो नाम राजा बभूवाहं सः। सुन्दरः कुमार आनन्दः। मुन्दरिका एषा एव यशोधरा। तदापि मे भिक्षवो धर्महेतोरिष्ठबन्धुपरित्यागः स्वजीवितपरित्यागश्च कृतः प्रागेवेदानीम्। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यद्धर्मं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामो धर्मं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project