Digital Sanskrit Buddhist Canon

पद्मक इति ३१

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
चतुर्थो वर्गः।



पद्मक इति ३१।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ शरत्कालसमये भिक्षवो रोगेण बाध्यत्ते पीतपाण्डुकाः कृशशरीरा डुर्बलाङ्गा भगवांसत्वल्पाबाधो ऽल्पातङ्को ऽरोगो बलवान्। तद्दर्शनाद्भिक्षवो भगवत्तं पप्रच्छुः। पश्य भदत्त एते भिक्षवः शारदिकेन रोगेण बाध्यत्ते पीतपाण्डुकाः कृशशरीरा डुर्बलाङ्गा भगवांस्त्वल्पाबाधो ऽल्पातङ्को बलवानरोगजातीयः समपाकया च ग्रहण्या समन्वागत इति॥



भगवानाह। तथागतेनैवैतानि भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। मयैतानि कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यते शुभान्यशुभानि च।



न प्रणश्यत्ति कर्माणि अपि कल्पशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्या पद्मको नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नमखिलमकण्ठकमेकपुत्रमिव राज्यं कारयति। स च राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महति त्यागे वर्तते॥ तस्मिंश्च समये वाराणस्यां कालवैषम्याद्दातुवैषम्याद्वा व्याधिरुत्पन्नः। प्रायः सत्त्वानां पाण्डुरोगः संवृत्तः॥ ततो राज्ञा तान्दृष्ट्वा कारुण्यमुत्पादितं मया ह्येषां परित्राणं करणीयं चिकित्सा चेति॥ ततः स राजा सर्वविषयनिवासिनो वैद्यान्संनिपात्य तेषां सत्त्वानां निदानमाशयानुशयं चोपलक्ष्य स्वयमारब्धश्चिकित्सां सर्वौषधसमुदानयञ्च कर्तुम्॥ ततश्चिकित्स्यमानानां तेषां सत्त्वानां बहवः काला अतिक्रात्ता न च शक्यत्ते वैद्यद्रव्यौषधपरिचारकसंपन्ना अपि चिकित्सितुम्। ततो राजा सर्ववैद्यानाहूयादरजातेन पुनः पृष्टाः को ऽत्र हेतुर्येन मे दुश्चिकित्स्या इति॥ वैद्या विचार्य गुणदोषानेकमतेनाहुः। देव कालवैषम्याद्वातुवैषम्याच्च लक्ष्यामहे अपि तु देवात्स्येकभैषज्यं रोहितो नाम मत्स्यो यदि तस्य प्राप्तिः स्याच्छक्यत्ते चिकित्सितुमिति॥ ततो राजा रोहितं मत्स्यं समन्वेषितुमारब्धः। स बहुभिरपि चारपुरुषैर्मृग्यमाणो न लभ्यते। ततस्ते राज्ञेनिवेदितवत्तः॥



अथ राजापरेण समयेन बहिर्याणाय निर्गच्छति ते च व्याधिन एकसमूहेन स्थित्वा राजानमूचुः। परित्रायस्व महाराज अस्मा<नस्मा>द्याधेः प्रयच्छ जीवितमिति॥ ततो राजा करुणदीनविलम्बितैरक्षरैरुच्यमानस्तदातुरवचनं श्रुत्वा कारुण्यादाकम्पितहृदयः साश्रुडुर्दिनवदनं चित्तयामास। किं ममानेनैवंविधेन जीवितेन राज्यैश्वर्याधिपत्येन वा ईदृशेन यो ऽहं परेषां दुःखार्तानां न शक्तो ऽस्मि शात्तिं कर्तुमिति॥ एवं विचित्त्य राजा महात्तमर्थोत्सर्गं कृत्वा ज्येष्ठं कुमारं राज्यैश्वर्याधिपत्येषु प्रतिष्ठाप्य बन्धुजनं क्षमयित्वा पौरामात्यांश्च क्षमयित्वा दीनान्समाश्वास्या ऽष्टाङ्गसमन्वागतं व्रतं समादायोपरिप्रासादतलमभिरुह्य धूपपुष्पगन्धमाल्यविलेपनञ्च क्षिप्त्वा प्राङ्मुखः प्रणिधिं कर्तुं प्रारब्धः। येन सत्येन सत्यवचनेन महाव्यसनगतान्सत्त्वान्व्याधिपरिपीडितान्दृष्ट्वा स्वजीवितमिष्टं परित्यजाम्यनेन सत्येन सत्यवाक्येनास्यां वालुकायां नद्यां महान्‍रोहितमत्स्यः प्रादुर्भवेयम्। इत्युक्त्वा प्रासादतलादात्मानं मुमोच॥



स पतितमात्रः कालगतो नद्यां वालुकायां महान्‍रोहितमत्स्यः प्रादुर्भूतः। इति देवताभिः सर्वविजिते शब्द उत्सृष्टः। एष दीर्घकालमहाव्याध्युत्पीडितानाममृतकल्पो नद्यां वालुकायां महान्‍रोहितमत्स्यः प्रादुर्भूत इति। यतः सहस्रवणन्महाजनकायः शस्त्रव्यग्रकरः पिटकानादाय निर्गत्य विविधैस्तीक्ष्णैः शस्त्रैर्जीवत एव मांसान्युत्कर्तितुमारब्धः। स च बोधिसत्त्वो विकर्त्यमानशरीरस्तान्सर्वान्मैत्र्या स्फुरन्सबाष्पाश्रुवदनश्चित्तयामास। लाभा मे सुलब्धा यन्नाम इमे सत्त्वा मदीयेन मांसरुधिरेण सुखिनो भविष्यत्तीति॥ तदनेनोपक्रमेण सत्त्वान्द्वादश वर्षाणि स्वकेन मांसरुधिरेण संतर्पयामास न चानुत्तरायाः सम्यक्संबोधेश्चित्तं निवर्तितवान्॥



यदा तेषां सत्त्वानां स व्याधिरुपशात्तस्तदा तेन रोहितमत्स्येन शब्द उदीरितः। शृण्वत्तु भवत्तः सत्त्वा अहं स राजा पद्मको मया युष्माकमर्थे स्वजीवितपरित्यागेनायमेवंविध आत्मभाव उपात्तो ममात्तिके चित्तं प्रसादयध्वं। यदाहमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये ऽहं तदा युष्मानत्यत्तव्याधेः परिमोच्यात्यत्तनिष्ठे निर्वाणे प्रतिष्ठापयिष्यामीति। तच्छ्रवणात्स जनकायो लब्धप्रसादो राजामात्यपौराश्च पुष्पधूपमाल्यविलेपनैरभ्यर्च्य प्रणिधानं कर्तुमारब्धाः। अतिडुष्करकारक यदा त्वमनुत्तरां सम्यकसंबोधिमभिसंबुध्येथाः तदा ते वयं श्रावकाः स्यामेति॥



भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन पद्मको नाम राजा बभूवाहं सः। यदेवंविधाः परित्यागाः कृतास्तेन मे संसारे ऽनत्तसुखमनुभूतमिदानीमप्यनुत्तरां सम्यकसंबोधिमभिसंबुद्धः समपाकया च ग्रहण्या समन्वागतो येन मे अशितपीतखादितास्वादितं सम्यक्सुखेन परिणमति अल्पाबाधो रोगतातीतश्चास्मि। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यत्सर्वसत्त्वेषु दयां भावयिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project