Digital Sanskrit Buddhist Canon

सूक्ष्मत्वगिति २५

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Sūkṣmatvagiti 25
सूक्ष्मत्वगिति २५।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ तेन खलु पुनः समयेन श्रावस्त्यामन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगः प्रभूतवित्तोपकरणः प्रभूतसत्त्वस्वापतेयः प्रभूतमित्रामात्यज्ञातिसालोहितः। स च गृहपतिः श्राद्धो भद्रः कल्याणाशय आत्महित<परहित>प्रतिपन्नः कारुणि<को> महात्मा धर्मकामः॥ तस्यैतदभवत्। इमे भोगा जलचन्द्रस्वभावा मरीचिसदृशा अनित्या अध्रुवा अनाश्वासिका विपरिणामधर्माणः पञ्चभिरुग्रदण्डैः साधारणाः। यन्न्वहमसारेभ्यो भोगेभ्यः सारमादद्यामिति॥ तेन भगवान्सश्रावकसङ्घो भक्तेनोपनिमन्त्रितः। गृहं चापगतपाषाणशर्करकठल्यं व्यवस्थापितं चन्दनवारिपरिषिक्तं विचित्रगन्धघटिकासुरभिधूपधूपितं नानापुष्पाभिकीर्णं पुष्पासनानि प्रज्ञप्तानि। ततः सुस्वादशीतरसपानानि भक्ष्यभोज्यानि च सज्जीकृत्य भगवतो दूतेन कालमारोचयति। समयो भदत्त सज्जं भक्तं यस्येदानीं भगवान्कालं मन्यत इति॥ ततो भगवान्पूर्वाह्ने निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतो येन तस्य गृहपते<र्निवेशनं> तेनोपसंक्रात्तः। उपसंक्रम्य पुरस्ताद्भिक्षुसङ्घस्य प्रज्ञप्त एवासने निषणः। अथ स गृहपतिः सुखोपविष्टं बुद्धप्रमुखं भिक्षुसङ्घं विदित्वा शुचिना प्रणीतेनाहारेण स्वहस्तं संतर्पयति संप्रवारयति।<स्वहस्तं> संतर्प्य संप्रवार्य भगवत्तं <भुक्तवत्तं> विदित्वा धौतहस्तमपनीतपात्रं नीचतरासनं गृहीत्वा भगवतः पुरस्तान्निषणो धर्मश्रवणाय। अथ भगवांस्तं गृहपतिं धर्म्यया कथया संदर्शयति समादापयति <समुत्तेजयति>। अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य तूष्णींभूतः। अथ स गृहपतिर्लब्धप्रसादः पादयोर्निपत्य चेतनां पुष्णाति॥



ततो भगवान्स्मितं विदर्शित<वा>न्। धर्मता खलु यस्मिन्समये बुद्धा भगवत्तः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छत्ति काश्चिडुपरिष्ठाद्गच्छत्ति। या अधस्ताद्गच्छत्ति ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णनरकास्तेषु शीतीभूता निपतत्ति ये शीतनरकास्तेषूष्णीभूता निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां सत्त्वानां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। तेषां निर्मित्तं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वो ऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। या उपरिष्ठाद्गच्छत्ति ताश्चातुर्महाराजिकांस्त्रयस्त्रिंशान्यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलानबृहानतपान्सुदृशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं <शून्य>मनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।

आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यति॥



अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवत्तमेव पृष्ठतः पृष्ठतः समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतो ऽत्तर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तर्धीयत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो<र>त्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले ऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकां बोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे ऽत्तर्धीयत्ते॥



अथ ता अर्चिषो भगवतं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायामत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।



नानाबिधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्धवा दैन्यमदप्रहीणा बुद्ध जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥

तत्कालं स्वयमधिगम्य वीर बुद्ध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष वाग्भिरुत्तमाभि-

रुत्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्माल्लवणजलाद्रिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥



भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यस्यानन्दानेन श्रेष्ठिना ममैवंविधं सत्कारं कृतम्॥ एवं भदत्त॥ एषानन्द श्रेष्ठी अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च सूक्ष्मत्वगिति नाम प्रत्येकबुद्धो भविष्यति। अयमस्य देयधर्मो यो ममात्तिके चित्तप्रसाद इति। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यद्बद्बुप्रत्येकबुद्धार्यश्रावकेषु कारान्करिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो <भगवत्तो> भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project