Digital Sanskrit Buddhist Canon

दशशिरा इति २४

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
दशशिरा इति २४।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चित्तो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो मगधेषु जनपदचारिकां चरन्गङ्गातीरमनुप्राप्तः सार्धं भिक्षुसङ्घेन। अद्राक्षुस्ते भिक्षवो दूरत एव पुराणस्तूपं वातातपवर्षैरवरुग्णं प्ररुग्णं दृष्ट्वा च पुनर्भगवत्तं पप्रच्छुः कस्यैष भदत्त स्तूप इति॥ भगवानाह। दशशिरसः प्रत्येकबुद्धस्येति॥ भिक्षव ऊचुः। कुतो भदत्त दशशिरसः प्रत्येकबुद्धस्योत्पत्तिर्नामाभिनिर्वृतिश्चेति॥ भगवानाह। इच्छथ यूयं भिक्षवः श्रोतुमिति॥ त ऊचुरेवं भदत्तेति॥ तेन हि भिक्षवः शृणु<त>साधु च सुष्ठु च मनसि कुरुत भाषिष्ये॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगाप<ग>तं शालीक्षुगोमहिषीसंपन्नं धार्मिको धर्मराजो धर्मस्थितो धर्मेण राज्यं कारयति। स च राजा ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मदीनन्यांश्च देवताविशेषानायाचते। तद्यथा आरामदेवता वनदेवताश्चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते॥ स चैवमायाचनपरस्तिष्ठति। तस्य चोद्याने महती पद्मिनी उत्पलकुमुदपद्मपुण्डरीकसंछन्नाहंसचक्रवाककारण्डवादिशकुनोपशोभिता नलिनी। तत्र पद्ममतिप्रमाणमकण्टकं सहसोत्पन्नम्। तद्दिवसे दिवसे वर्धते न तु फुल्लति। तत आरामिकेण राजे निवेदितम्। राजा उक्तः परिरक्ष्यतामेतत्पद्ममिति॥ यावदपरेण समयेन सूर्योदये तत्पद्मं विकसितम्। तस्य पद्म<स्य> कर्णिकायां दारकः पर्यङ्कं बद्ध्‍वावस्थितः अभिनूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाट उच्चघोणः संगतभूस्तुङ्गनामः द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतो ऽशीत्यानुव्यञ्जनैर्विराजितगात्रः। तं दृष्ट्वारामिकेण राजे निवेदितम्॥ श्रुत्वा राजा सामात्यः सात्तःपुरश्च तडुद्यानं गतः। ददर्श राजा पद्मकर्णिकायां तथा विभ्राजमानं दृष्ट्वा च पुनर्हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातः पद्मिनीमवगाह्य तं गृहीत्वा महता सत्कारेण स्वगृहमानीय श्रमणब्राह्मणनैमित्तिकानां निवेद्य त्रीणि सप्तकान्येकविंशति दिवसान्जातस्य जातिमहं कृत्वा दशशिरा इति नामधेयं कृतवान्॥



दशशिरा दारकः अष्टाभ्यो धात्रीभ्यो दत्तो <द्वाभ्या>मंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तैरुपकरणविशेषैराशुवर्धते हृदस्थमिव पङ्कजम्॥ स च कुमारः श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः। स पश्यति पितरं राजधर्मे स्थितं सावद्यमवद्यानि कर्माणि कुर्वाणम्। दृष्ट्वा च कुमारः संविग्नः पितरं विज्ञापयामास अनुजानीहि मां तात प्रव्रजिष्यामि स्वाख्याते धर्मविनय इति। यावत्पित्रानुज्ञातः केशश्मश्रु अवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितः॥ तेन विनोपदेशेन सप्तत्रिंशद्बोधिपक्षान्धर्मानामुखीकृत्य प्रत्येका बोधिः साक्षात्कृता। स गगनतलमुत्पत्य पितुः सकाशे विचित्राणि प्रातिहार्याणि चकार॥ ततो राजा त्रैमास्यं पिण्डकेनोपनिमन्त्रितः॥ स शरीरभारोद्वहनपरिखिन्नो विचित्राणि प्रातिहार्याणिदर्शयित्वा इन्धनक्षयादिवाग्निर्निवृत्तिमुपजगाम॥ तस्यैष स्तूप इति॥



अथ भिक्षवः संशयजातः सर्वसंशयच्छेतारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त दशशिरसा कर्माणि कृतानि येन मातुः कुक्षौ नोपपन्नः पद्म उपपन्न इति॥ भगवानाह॥ दशशिरसैव भिक्षवः कर्माणि कृतान्युपचितानि <लब्धसंभाराणि> परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। दशशिरसा कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।



न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वमतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन्सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुस्याणां बुद्धो भगवान्। स बधुमतों राजधानीमुपनिश्रित्य विहरति॥ अथ विपश्यी सम्यक्संबुद्धः पूर्वाह्ने निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतो बन्धुमतीं राजधानीं पिण्डाय प्राविक्षत् अन्यतरश्च सार्थवाहः पद्ममादाय वीथीं प्रतिपन्नः। अथासौ पश्यति विपश्यिनं सम्यक्संबुद्धं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकम्। सहदर्शनाद्भगवत उपरि तत्पद्मं चिक्षेप। तत्क्षिप्तमात्रं भगवत उपरि शकटचक्रमात्रं भूत्वा भगवत्तं गच्छत्तमनुगच्छत्ति तिष्ठत्तमनुतिष्ठति। यावद्विपश्यिना सम्यक्संबुद्धेन स सार्थवाहः प्रत्येकबोधौ व्याकृतः॥ ततो हृष्टतुष्टप्रमुदितमनाः स्वगृहमागतः प्रजापतो चास्य तेन कालेन प्रजायमाना सस्वरं क्रन्दितवती। तेन परिचारिका पृष्ठा किमिदमिति। तया समाख्यातम्। ततः सार्थवाहः संविग्नः प्रणिधानं कर्तुमारब्धो मा कदाचित्संसारे मातुः कुक्षातुपपद्येयमिति॥



भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन सार्थवाहो बभूवायं स दशशिराः प्रत्येकबुद्धः। तेन कुशलमूलेनैकविंशति कल्यान्न कदाचिन्मातुः कुक्षावुपपन्नः पश्चिमे चास्य भवे इयं विभूतिः। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यद्बुद्धप्रत्येकबुद्धार्यश्रावकेषु कारान्करिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project