Digital Sanskrit Buddhist Canon

प्रातिहार्यमिति १५

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
प्रातिहार्यमिति १५



बुद्ध भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति स्म वेणुवने कलन्दकनिवापे॥ यदा राज्ञा अजातशत्रुणा देवदत्तविग्राहितेन पिता धार्मिको धर्मराजो जीविताद्यपरोपितः स्वयमेव च राज्ये प्रतिष्ठितः तदा ये अश्राद्धास्ते बलवतो जाताः श्राद्धास्तु दुर्बलाः संवृत्ताः॥ यावदन्यतमो वृद्धामात्यो ऽश्राद्धो भगवच्छासनविद्वेषी। स ब्राह्मणेभ्यो यज्ञमा<र>ब्धो यष्टुम्। तत्रानेकानि ब्राह्मणशतसहस्राणि संनिपतितानि। तैः क्रियाकारः कृतः न केनचिच्छ्रमणगौतमं दर्शनायोयसंक्रमितव्यम्॥ अथ ते ब्राह्मणाः कृतावयः समग्राः संमोदमाना वीथीमध्ये वेदोक्तेन विधिना शक्रमायाचितुं प्रवृत्ता एह्येह्यहल्याजार॥



अत्रात्तरे नास्ति किञ्चिब्दुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातम्। धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तु<षु> दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रात्तानां षड्ङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्ति<प्रति>विशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते। को हीयते को वर्धते कः कृच्छ्रप्राप्तः <कः संकटप्राप्तः> कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कमहमपापाडुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं कस्य कामपङ्कनिमग्नस्य हस्तोद्धारमनुप्रदद्यां कमार्यधनविरहितमार्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयं कस्यानवरोपितानि कुशलमूलान्यवरोपयेयं कस्यावरोपितानि परिपाचयेयं कस्य परिपक्कानि विमोचयेयम्। आह च।



अप्येवातिक्रमेद्वेलां सागरो मकरालयः।

न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥



पश्यति भगवान्। इमे ब्राह्मणाः पूर्वावरोपितकुशलमूलागृहीतमोक्षमार्गाः स्वहितैषिणो ऽभिमुखा निर्वाणे बहिर्मुखाः संसारादकल्याणमित्रसंसर्गादिदानीं मच्छासनं विद्विषत्ति यन्न्वहमेषां विनयहेतोरौत्सुक्यमापद्येयेति॥ अथ भगवाञ्छक्रवेषमभिनिर्माय तं यज्ञवाटं दिव्येनावभासेनावभास्यावतरितुमारब्धः। ततस्ते ब्राह्मणा हृष्टतुष्टप्रमुदिता उदयप्रीतिसौमनस्यजाता एकसमूहेनोक्त<वत्त>ः। एह्येहि भगवन्स्वागतं भगवत इति। ततो भगवाञ्छक्रवेषधारी प्रज्ञप्त एवासने निषणः॥ एष शब्दो राजगृहे नगरे समत्ततो विसृतः यज्ञे शक्रो देवेन्द्रो ऽवतीर्ण इति यं श्रुत्वानेकानि प्राणिशतसहस्राणि संनिपतितानि॥ ततो भगवानावर्जिता ब्राह्मणा <इति> विदित्वा शक्रवेषमत्तर्धाप्य बुद्धवेषेणैव स्थित्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्यां श्रुत्वा षष्ट्या ब्राह्मणसहस्त्रैर्विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोत‍आपत्तिफलं साक्षात्कृतमनेकैश्च प्राणिशतसहस्रैर्भगवति श्रद्धा प्रतिलब्धा॥



ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। आश्चर्यं भदत्त यावदेभिर्ब्राह्मणैर्भगवत्तमा<ग>म्य सत्यदर्शनं कृतमनेकैश्च प्राणिशतसहस्रैर्महान्प्रसादो ऽधिगत इति॥ भगवानाह। तथागतेनैतानि भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य्घवत्प्रत्युपस्थितान्यवश्यंभावीनि। मयैतानि कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।



न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि इन्द्रदमनो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन्सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। <स>जनपदचारिकां चरन्नन्यतमां राजधानीमनुप्राप्तः। सा राजधानी तीर्थिकावष्टब्धा॥ अश्रौषीदन्यतमो राजा क्षत्रियो मूर्ध्राभिषिक्त इन्द्रदमनः सम्यक्संबुद्धो ऽस्माकं विजितमनुप्राप्त इति श्रुत्वा च पुनर्महत्या राजर्द्या महता राजानुभावेन समन्वागतो येनेन्द्रमनस्सम्यक्संबुद्धस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवत इन्द्रदमनस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकात्ते निषणः। एकात्ते निषणं राजानं क्षत्रियं मूर्ध्राभिषिक्तमिन्द्रदमनः सम्यक्संबुद्धो बोधिसत्त्वकरकैर्धर्मैः समादापयति। अथ स राजा लब्धप्रसाद उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येनेन्द्रदमनस्सम्यकसंबुद्धस्तेनाञ्जलिं प्रणम्य इन्द्रदमनं सम्यक्संबुद्धमिदमवोचत्। अधिवासयतु मे भगवांस्त्रैमास्यवासाय। अहं भगवतमुपस्थास्यामि चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरिति॥ भगवानाह। अस्ति ते महाराज विजिते कश्चिद्विहारो यत्रागत्तुका गमिकाश्च भिक्षवो वासं कल्पयिष्यत्तीति॥ राजोवाच। नास्ति भगवन्किं तर्हि तिष्ठतु भगवानाहं विहारं कारयिष्यामि यत्रागत्तुका गमिकाश्च भिक्षवो वासं कल्पयिष्यत्तीति॥ ततो राजा तथागतस्यार्थे विहारः कारित आविद्वप्राकारतोरणो गवाक्षनिर्यूहजालार्धचन्द्रवेदिकाप्रतिमण्डित आस्तरणोपेतो जलाधारसंपूर्णस्तरुगणपरिवृतो नानापुष्पफलोपेतः कृत्वा च भगवतः सश्रावकसङ्घस्य निर्यातितो ऽधीष्टश्च भगवान्महाप्रातिहार्यं प्रति॥ ततो भगवता इन्द्रदमनेन सम्यक्संबुद्धेन राज्ञो ऽध्येषया महाप्रातिहार्यं विदर्शितं बुद्धावतंसकविक्रीडितं यद्दर्शनाद्राजा सामात्यनैगमजानपदः सर्वे च नागराः सुप्रसन्नाः शासने संरक्ततराः संवृत्ताः॥



किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालने तेन समयेन राजा बभूवाहं सः। मया सा इन्द्रदमनस्य सम्यक्संबुद्धस्यैवंविधा पूजा कृता। तस्य मे कर्मणो विपाकेन संसारे ऽनत्तं सुखमनुभूतमिदानीं मे तथागतस्य सत इयं शासनशोभा। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project