Digital Sanskrit Buddhist Canon

ईतिरिति १४

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ītiriti 14
ईतिरिति १४



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे॥ तस्मिंश्च समये नाडकन्थायां महाजनमरको बभूव। ततो जनकायो रोगैः पीडितस्तानि तानि देवतासहस्राण्यायाचते शिववरुणकुबेरवासवादीनि न चास्य सा ईतिरुपशमं गच्छति॥ अथान्यतम उपासको नाडकन्थायां प्रतिवसति। स नाडकन्थेयान्ब्राह्मणगृहपतीनिदमवोचत्। एत यूयं बुद्धं शरणं गच्छत तञ्च भगवत्तमायाचध्वमिहागमनायाप्येव भगवता स्वल्पकृच्छ्रेणास्या ईतेर्व्युपशमः स्यादिति॥ अथ नाडकन्थेया ब्राह्मणगृहपतयो भगवत्तमायाचितुं प्रवृत्ताः। आगच्छतु भगवानस्माद्यसनसंकटान्मोच<ना>येति॥



अत्रात्तरे नास्ति किञ्चिब्दुद्धानां भगवतामज्ञातमदृष्टमविदितविज्ञातम्। धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रात्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिवि<शि>ष्टानां त्री रात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते। को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः <कः> कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कमहमपायाडुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं कस्य कामपङ्कनिमग्नस्य हस्तोद्धारमनुप्रदद्यां कमार्यधनविरहितमार्यधनैश्चर्याधिपत्ये प्रतिष्ठापयेयं कस्यानवरोपितानि कुशलमूलान्यवरोपयेयं कस्यावरोपितानि परिपाचयेयं कस्य परिपक्कानि विमोचयेयम्। आह च।



अप्येवातिक्रमेद्वेलां सागरो मकरालयः।

न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥



अथ भगवान्पूर्वाह्ने निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतो नाडकन्थामनुप्राप्तः। ततो भगवता तन्नगरं सर्वे हृदिमैत्र्या स्फुटं यतो मरकाः प्रक्रात्ताः ईति<श्च> व्युपशात्ता। ततस्तेषां ब्राह्मणगृहपतीनां बुद्धदर्शनान्महाप्रसाद उत्पन्नः प्रसादजातैश्च भगवान्सश्राव<क>सङ्घः चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः संप्रवारितः। ततस्तेभ्यो भगवता तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वानेकैर्ब्राह्मणगृहपतिभिः स्त्रोतआपत्तिफलमनुप्राप्तमपरैः सकृदागामिफलमपरैरनागामिफलमपरैः प्रव्रज्य सर्वक्लेशप्रहाणदर्हत्त्वं साक्षात्कृतं सर्वं च तन्नगरं बुद्धनिम्नं धर्मप्रवणं सङ्घप्राग्भारं संवृत्तम्॥



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवतं पप्रच्छुः। आश्चर्यं भदत्त यावदिमे सत्त्वा भगवतः प्रसादाद्यसनगताः सत्तो व्यसनात्परिमुक्ता इति॥ भगवानाह। तथागतेनैवैतानि भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। मयैव तानि कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।



न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि चन्द्रो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन्सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। अथ चन्द्रः सम्यक्संबुद्धो जनपदचारिकां चरन्नन्यतमां राजधानीमनुप्राप्तः॥ अश्रौषीद्राजा क्षत्रियो मूर्ध्राभिषिक्तश्चन्द्रः सम्यक्संबुद्धो ऽस्माकं विजितमनुप्राप्त इति श्रुत्वा च पुनर्महत्या राजर्द्या महता राजानुभावेन समन्वागतो येन चन्द्रः सम्यक्संबुद्धस्तेनोपसंक्रात्तः। उपसंक्रम्य चन्द्रस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकात्ते न्यषीदत्। एकात्तनिषणं राजानं क्षत्रियं मूर्ध्राभिषिक्तं चन्द्रस्सम्यक्संबुद्धो बोधिकरकैर्धर्मैः समादापयति॥ अथ राजा क्षत्रियो मूर्ध्राभिषिक्तो लब्धप्रसाद उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन चन्द्रः सम्यक्संबुद्धस्तेनाञ्जलिं प्रणम्य चन्द्रं सम्यक्संबुद्धमिदमवोचत्। अधिवासयतु मे भगवानिह वासं त्रैमास्यं सार्धं भिक्षुसङ्घेन। अहं भगवत्तमुपस्थास्यामि चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरिति। अधिवासयति चन्द्रः सम्यक्संबुद्धो राज्ञस्तूष्णीभावेन॥ तस्य च राज्ञो नगरे तेन समयेन महाजनमरको बभूव ईतिश्च येन स महाजनकायो ऽतीव संतप्यते॥ ततो राज्ञा व्याधिप्रशमनार्थं चन्द्रः सम्यक्संबुद्धो ऽधीष्टः। साधु भगवन्क्रियतामस्या ईतेरुपशमोपाय इति॥ ततो भगवांश्चन्द्रः सम्यक्संबुद्धो राजानमुवाच। गच्छमहाराजेमां संघाटीं ध्वजाग्रे बद्ध्वा महता सत्कारेण स्वे विजिते पर्याटयास्याश्च महात्तमुत्सवं कुरु सर्वञ्च महाजनकायं बुद्धानुस्मृतौ समादापयेति ते स्वस्तिर्भविष्यतीति॥ ततो राज्ञा यथानुशिष्टं सर्वं तथैव च कृतं तद्धेतु तत्प्रत्ययञ्च सर्वा ईतयः प्रशात्ताः। ततः स जनकायो लब्धप्रसादो राजामात्यपौराश्च बुद्धं शरणं गता धर्म सङ्घं<च> शरणं गताः॥



भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूवाहं सः। मयासौ चन्द्रस्य सम्यक्संबुद्धस्य महती पूजा कृता। तस्य मे कर्मणो विपाकेन देवमनुष्यसंप्रापकं संसारे महत्सुखमनुभूतमिदानीमपि तद्धैतुक्येव विभूतिर्येन यच्चित्तयामि यत्प्रार्थये तत्तथैव सर्वं समृध्यति। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project