Digital Sanskrit Buddhist Canon

धूप इति ९

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
धूप इति ९



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ तेन खलु समयेन श्रावस्त्यां द्वौ श्रेष्ठिनौ। तावन्योन्यं प्रतिविरुद्धौ बभूवतुः ताभ्यामेकः पूरणे ऽभिप्रसन्नो द्वितीयो बुद्धे भगवति॥ ततस्तयोः परस्परं कथाः संकथ्य विनिश्चये वर्तमाने पूरणोपासक आह। बुद्धात्पूरणो विशिष्टतर इति॥ बुद्धोपासक आह। भगवान्सम्यक्संबुद्धो विशिष्टतर इति॥ ततस्ताभ्यां सर्वस्वापहरणे बन्धनिक्षेप<ः कृ>तः॥



यावद्राज्ञः प्रसेनजितः श्रुतम्। तेनामात्यानामाज्ञा दत्ता। तयोर्मोमांसा कर्तव्येति॥ ततस्तैरमात्यैस्सर्वविजिते घण्ठावघोषणं कारितं सप्तमे दिवसे बुद्धतीर्थिकोपासकयोर्मीमांसा भविष्यति ये चाद्भुतानि द्रष्टुकामास्ते आगच्छत्त्विति॥ ततः सप्तमे दिवसे विस्तीर्णावकाशे पृथिवीप्रदेशे ऽनेकेषु प्राणिशतसहस्रेषु संनिपतितेषु गगणतले चानेकेषु देवतासहस्रेषु संनिपतितेषु गोमयमण्डलके क्लृप्ते सर्वगन्धमाल्येषूपहृतेषु पूर्वतरं तीर्थिकोपासकेन सत्योपपाचनं कृतम्। येन सत्येन पूरणप्रभृतयः षट् शास्तारो लोके श्रेष्ठा अनेन सत्येनेमानि पुष्पाण्यपं च धूप इदं च पानीयं तानुपगच्छत्विति॥ एवं प्रव्याहृतमात्रे तानि पुष्पाणि भूमौ पतितान्यग्निर्निर्वृत्तः पानीयं पृथिव्यामस्तं परिक्षयं पर्यादानं गतम्॥ ततो महाजनकायेन किलकिलाप्रक्ष्वेडोच्चैर्नादो मुक्तः। यमभिवीक्ष्य तीर्थ्योपासकस्तूष्णीभूतो मग्दुभूतः स्रस्तस्कन्धो ऽधोमुखो निष्प्रतिभानः प्रध्यानपरमः करे कपोलं दत्त्वा चित्तापरो व्यवस्थितः॥



ततो भगवच्छ्रावकेण हर्षोत्कण्ठजातेन प्रसादविकसिताभ्यां नयनाभ्यामेकांसमुत्तरासङ्गं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्य सत्योपयाचनं कृतम्। येन सत्येन भगवान्सर्वसत्त्वानामय्यो ऽनेन सत्येनेमानि पुष्पाणि धूप उदकं भगवतमुपगच्छत्विति। एवं प्रव्याहृतमात्रे तानि पुष्पाणि हंसपङ्क्तिरिवाकाशे जेतवनाभिमुखं संप्रस्थितानि धूपो ऽभ्रकूटवडुदकं वैडूर्यशलाकवत्॥ अथ स महाजनकायस्तत्प्रातिहार्यं दृष्ट्वा किलकिलाप्रक्ष्वेडोच्चैःशब्दं कुर्वंस्तेषां संप्रस्थितानां पृष्ठतः पृष्ठतः समनुबद्धः॥



ततस्तानि पुष्पाणि भगवत उपरि स्थितानि धूप उदकं चाग्रतः॥ ततः स महाजनकायो लब्धप्रसादो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। तेषां भगवानिदं सूत्रं भाषते स्म॥



तिस्र इमा ब्राह्मणगृहपतयो ऽग्रप्रज्ञप्तयः। कतमास्तिस्रः। बुद्धे अयप्रज्ञप्तिर्धर्मे सङ्घे अग्रप्रज्ञप्तिः॥ <बुद्धे अयप्रज्ञप्तिः> कतमा। ये केचिद्ब्राह्मणगृहपतयः सत्त्वा अपदा वा द्विपदा वा बहुपदा वा नूपिणो वा ऽनूपिणो वा संज्ञिनो वा ऽसंज्ञिनो वा नै<व>संज्ञिनो नासंज्ञिनस्तथागतो ऽर्हन्सम्यक्संबुद्धस्तेषामग्र आख्यातः। ये केचिब्दुद्धे ऽभिप्रसन्ना अग्रे ते ऽभिप्रसन्नाः। तेषामग्रे ऽभिप्रसन्नानामग्र एव विपाकः प्रतिकाङ्क्षितव्यो देवेषु वा देवभूतानां मनुष्येषु वा मनुष्यभूतानाम्। इयमुच्यते ब्राह्मणगृहपतयो बुद्धे अग्रप्रज्ञप्तिः॥ धर्मे अग्रप्रज्ञप्तिः कतमा। ये केचिद्धर्माः संस्कृता वा असंस्कृता वा विरागो धर्मस्तेषामग्र आख्यातः। ये केचिद्धर्मे ऽभिप्रसन्ना अग्रे ते ऽभिप्रसन्नाः। तेषामग्रे ऽभिप्रसन्नानामग्र एव विपाकः प्रतिकाङ्क्षितव्यो देवेषु वा देवभूतानां मनुष्येषु वा मनुष्यभूतानाम्। इयमुच्यते ब्राह्मणगृहपतयो धर्मे अयप्रज्ञप्तिः॥ सङ्घेषु अग्रप्रज्ञप्तिः कतमा। ये केचित्सङ्घा वा गणा वा पूगा वा परिषदो वा तथागतश्रावकसङ्घस्तेषामग्र आख्यातः। ये केचित्सङ्घे ऽभिप्रसन्ना अग्रे ते ऽभिप्रसन्नाः। तेषामग्रे ऽभिप्रसन्नानामग्र एव विपाकः प्रतिकाङ्क्षितव्यो देवेषु देवभूतानां <मनुष्येषु मनुष्यभूतानाम्>। इयमुच्यते ब्राह्मणगृहपतयः सङ्घे अग्रप्रज्ञप्तिः॥



अस्मिन्खलु धर्मपर्याये भाष्यमाणे तेषां ब्राह्मणगृहपतीनां कैश्चिद्बुद्धधर्मसङ्घेषु प्रसादः प्रतिलब्धः कैश्चिच्छरणगमनशिक्षापदानि गृहीतानि कैश्चित्प्रव्रज्य <इद>मेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहन्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतं तेन च तीर्थ्योपासकेन तथागतात्तिके प्रसादः प्रतिलब्धः। ततो मूलनिकृत्त इव द्रुमः पादयोर्निपत्य प्रणिधानं कर्तुमारब्धः। अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन चान्धे लोके अनायके अपरिणायके बुद्धो भूयासमतीर्णानां सत्त्वानां तारयिता अमुक्तानां मोचयिता अनाश्वस्तानामाश्वासयिता अपरिनिर्वृतानां परिनिर्वापयितेति॥



अथ भगवांस्तस्य तीर्थिकोपासकस्य हेतुपरम्परां कर्मपरम्परां च ज्ञात्वा स्मितं प्राविरकार्षीत्। धर्मता खलु यस्मिन्समये बुद्धा भगवत्तः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छत्ति काश्चिडुपरिष्ठाद्गच्छत्ति। या अधस्ताद्गच्छत्ति ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णनरकास्तेषु शीतीभूता निपतत्ति ये शीतनरकास्तेषूष्णीभूता निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वो ऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णत्ति यत्र सत्यानां भाजनभूता भवति। या उपरिष्ठाद्गच्छत्ति ताश्चातुर्महाराजिकांस्रयस्त्रिंशान्यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलानबृहानतपान्सुदृशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।



आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यति इति॥



अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवत्तमेव पृष्ठतः पृष्ठतः समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतो ऽत्तर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽतर्धीयत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनोरत्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले ऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे ऽत्तर्धीयत्ते॥



अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत उष्णीषे ऽत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।



नानाविधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥

तत्कालं स्वयमधिगम्य वीर बुद्ध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष बाग्भिरुत्तमाभि-

रुत्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्माल्लवणजलाग्दिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥



भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यसि त्वमानन्दानेन तीर्थिकोपासकेन ममैवंविधं सत्कारं कृतम्॥ एवं भदत्त॥ एष आनन्द तीर्थोपासको ऽनेन कुशलमूलेन चित्तोत्पादेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट् पारमिताः परिपूर्य अचलो नाम सम्यक्संबुद्धो भविष्यति दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च। अयमस्य देयधर्मो यो ममात्तिके चित्तप्रसाद इति॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project