Digital Sanskrit Buddhist Canon

पञ्चाल इति ८

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Pañcāla iti 8
पञ्चाल इति ८



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति स्म जेतवने ऽनाथपिण्डदस्यारामे॥ तेन खलु समयेनोत्तरपञ्चालराजो दक्षिणपञ्चालराजेन सह प्रतिविरुद्धो बभूव। *******************



अथ राजा प्रसेनजित्कौशल्यो येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकात्ते निषणः। एकात्ते निषणो राजा प्रसेनजित्कौशल्यो भगवत्तमिदमवोचत्। भगवान्नाम भदत्तानुत्तरो धर्मराजो व्यसनगतानां सत्त्वानां परित्राता अन्योन्यवैरिणां वैरप्रशमयिता। अयञ्चोत्तरपञ्चालो राजा दक्षिणपञ्चालराजेन सह प्रतिविरुद्धस्तौ परस्परमेव महाजनविप्रघातं कु<रु>तः। तयोर्भगवान्दीर्घरात्रानुगतस्य वैरस्योपशमं कुर्यादनुकम्पामुपादायेति। अधिवासयति भगवान्नाज्ञः प्रसेनजितः कौशल्यस्य तूष्णीभावेन॥ अथ राजा प्रसेनजित्कौशल्यो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वोत्थायासनात्प्रक्रान्तः॥



अथ भगवांस्तस्या एव रात्रेरत्ययात्पूर्वान्हे निवास्य पात्रचीवरमादाय येन वाराणसी काशीनां नगरं तेन चारिकां प्रक्रान्तः। अनुपूर्वेण चारिकां चरन्वाराणसीमनुप्राप्तो वाराणस्यां विहरति ऋषिपतने मृगदावे॥ यावत्तयोर्विदितं भगवानस्मद्विजितमनुप्राप्त इति॥ यावद्भगवता ऋद्धिबलेन चतुरङ्गबलकायं निर्मायोत्तरपञ्चालराजस्त्रासितः। स भीत एकरथमभिरुह्य भगवत्सकाशमुपसंक्रान्तः॥ तस्य भगवता वैरप्रशमाय धर्मो देशितः। स तं धर्मं श्रुत्वा भगवत्सकाशे प्रव्रजितः। तेन युज्यमानेन घटमानेन व्यायच्छमानेन सर्वल्क्तेशप्रहाणादर्हत्त्वं साक्षात्कृतम्॥



दक्षिणपञ्चालराजेनापि भगवान्सश्रावकसङ्घस्त्रैमास्यं शतरसेनाहारेणोपनिमन्त्रितः शतसाहस्रेण च वस्त्रेणाच्छादितः प्रणिधानं कृतम्। अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन चान्धे लोके अनायके अपरिणायके बुद्धो भूयासमतीर्णानां सत्त्वानां तारयिता अमुक्तानां मोचयिता अनाश्चस्तानामाश्वासयिता अपरिनिर्वृतानां परिनिर्वापयितेति॥



अथ भगवान्दक्षिणपञ्चालराजस्य हेतुपरम्परां कर्मपरम्परां च ज्ञात्वा स्मितं प्राविरकार्षीत्। धर्मता खलु यस्मिन्समये बुद्धा भगवतः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छत्ति काश्चिदुपरिष्ठाद्गच्छत्ति। या अधस्ताद्गच्छत्ति ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णनरकास्तेषु शीतीभूता निपतत्ति ये शीतनरकास्तेषूष्णीभूता निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वा च एवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वो ऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धि गृह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। या उपरिष्ठाद्गच्छत्ति ताश्चातर्मुहाराजिकांस्त्रायस्त्रिशान्यामांस्तुषितान्निर्माणरतीन्यरनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परोत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलानबृहानतपान्सुद्दशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।



आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यति॥



अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवत्तमेव पृष्ठतः पृष्ठतः समनुगच्छति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतो ऽत्तर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तर्धीयते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो<र>त्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करे ऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करे ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे ऽत्तर्धीयत्ते॥



अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत उष्णीषे ऽत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।



नानाविधो रङ्गसहस्रचित्रो वक्त्रात्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयति जिना जितारयः॥

तत्कालं स्वयमधिगम्य वीर बुद्ध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष वाग्भिरुत्तमाभि-

रुत्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्माल्लवणजलाद्रिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥



भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यस्यानन्दानेन दक्षिणपञ्चालराजेन ममैवं<विधं सत्कारं कृतम्॥ एवं> भदत्त। एषानन्द पञ्चालराजो ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट् पारमिताः परिपूर्य विजयो नाम सम्यक्संबुद्धो भविष्यति दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च। अयमस्य देयधर्मो यो ममात्तिके चित्तप्रसादः॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project