Digital Sanskrit Buddhist Canon

वडिक इति ६

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
वडिक इति ६॥



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमो गृहपतिः श्रेष्ठी प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः गृहपतेः पत्नी आपन्नसत्त्वा संवृत्ता। सा नवानां मासानामत्ययात्प्रसूता। दारको जातो अभिनूपो दर्शनीयः प्रासादिकः॥ तस्य जातौ जातिमहं कृत्वा वडिक इति नामधेयं कृतवान्पिता। वडिको दारको ऽष्टाभ्यो धात्रीभ्यो दत्तः। अंसधात्रीभ्यां क्षीरधात्रीभ्यां मलधात्रीभ्यां क्रीडनिका<भ्यां> धात्रीभ्याम्। सोऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेन<आन्यैश्च>ओत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्। यदा महान्संवृत्तः पञ्चवर्षो षड्वर्षो वा तदा गुरौ भक्तिं कृत्वा सर्वशास्त्राणि अधीतानि। तीक्ष्णबुद्धितया शीघ्रं सर्वशास्त्रस्य पारं गतः॥



तदनत्तरं तस्य वडिकस्य किञ्चित्पूर्वजन्मकृतकर्मविपाकेन शरीरे कायिकं दुःखं पतितम्। इति दुःखी भूतश्चित्तापरः स्थितः। किं पापं कृतं मया<प>दिदं कायिकं दुःखं मम शरीरे जातम्॥ तस्य पितापि पुत्रस्येदं कायिकं दुःखभावं दृष्ट्वा महडुद्विग्नः पुत्रात्ययशङ्कया दीनमानसः शोकाश्रुव्याप्तवदनस्त्वरितं वैद्यमाहूय तस्य पुत्रस्य रोगं दर्शयति। को रोगः केन हेतुना मम पुत्रस्य देहे जात इति। ततः स वैद्यस्तस्य रोगचिह्नं दृष्ट्वा चिकित्सां कर्तुमारब्धः॥ तथापि तस्य रोगशत्तिर्न भवति पुनर्वृद्धिर्भवति॥ पिता पुत्रस्य रोगं बृद्धं जातं दृष्ट्वा अवश्यं पुत्रो मरिष्यति यद्वैद्येनापि चास्य रोगस्य चिकित्सितुं न शक्यत इति मूर्च्छया भूमौ पतितः॥ तं दृष्ट्वा भूयोऽपि पुत्रस्य चित्ता जाता भूयो ऽपि चित्तया मानसी व्यथा जाता॥ स दारको रोगो भूतो ऽशक्यो ऽपि वदितुं कथञ्चित्पितरं वभाषे। मा तात साहसं। धैर्यमवलम्ब्योत्तिष्ठ ममात्यपाशङ्कया मा भूस्त्वमपि मादृशः। मम नाम्ना देवानां पूजां कुरु दानं देहि ततो मम स्वस्था भविष्यति॥ स गृहपतिरिति पुत्रस्य वच आकर्ण्य सर्वदेवेभ्यः पूजां कृतवान्सर्वब्राह्मणतीर्थिकपरिव्राजकेभ्यो दानं दत्तवान्। तथापि तस्य रोगशत्तिर्न भवति॥ तदा तस्य महान्मानसो दुःखोऽभूत्। सर्वदेवेषु पूजा कृता दानो ऽपि दत्तः पित्रा मम तथापि स्वस्था न भवति॥ ततस्तथागतगुणा<न>नुस्मृत्य बुद्धं नमस्कारं कर्तुमारब्धः॥



अत्रात्तरे नास्ति किञ्चिद्बुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातम्। धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्य<ना>विहारिणां त्रिदमथवस्तुकुशलानां चतुरोधोत्तीर्णानां चतुरृद्धिपादचरणतलमुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रात्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुमुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां <दशबलबलिनां> दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते। को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कमहमपायाडुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं कस्य कामपङ्कनिमग्रस्य हस्तोद्धारमनुप्रदद्यां कमार्यधनविरहितमार्यधनैश्चर्याधिपत्ये प्रतिष्ठापयेयं कस्यानवरोपितानि कुशलमूलान्यवरोपयेयं कस्यावरोपितानि परिपाचयेयं कस्य परिपक्कानि विमोचयेयम्। आह च।



अप्येवातिक्रमेद्वेलां सागरो मकरालयः।

न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥



ततो भगवता वडिकस्य गृहपतेः पुत्रस्य तामवस्थां दृष्ट्वा सूर्यसहस्रातिरेकप्रभाः कनकवर्णा मरोचयः सृष्टाः यैस्तद्गृहं समत्तादवभासितं कल्पसहस्रपरिभाविताश्च मैत्र्यंशव उत्सृष्टाः यैरस्य स्पृष्टमात्रं शरीरं प्रह्लादितम्। ततो भगवांस्तस्य द्वारकोष्ठकमनुप्राप्तः। दौवारिकपुरुषेणास्य निवेदितं भगवान्द्वारे तिष्ठतीति॥ अय वडिकः श्रेष्ठिपुत्रो लब्धप्रसादो ऽधिगतसमाश्वास आह। प्रविशतु भगवान् स्वागतं भगवते आकाङ्क्षामि भगवतो दर्शनमिति॥ अथ भगवान्प्रविश्य प्रज्ञप्त एवासने निषणः। निषद्य भगवान्वडिकमुवाच। किं ते वडिक वाधत इति॥ वडिक उवाच॥ कायिकञ्च मे दुःखं चेतसिकं चेति॥ ततो ऽस्य भगवता सर्वसत्त्वेषु मैत्र्युपदिष्टा अयं ते चेतसिकस्य प्रतिपक्ष इति। लौकिकं च चित्तमुत्पादयामास। अहो बत शक्रो देवेन्द्रो गन्धमादनात्पर्वतात्क्षीरिकामोषधीमानयेदिति॥ सहचित्तोत्पादाद्भगवतः शक्रो देवेन्द्रो गन्धमादनात्पर्वतात्क्षीरिकामोषधीमानीय भगवते दत्तवान्भगवता च स्वपाणिना गृहीत्वा वडिकाय दत्ता इयत्ते कायिकस्य दुःखस्य परिदाहशमनीति॥



स कायिकं प्रस्रब्धिसुखं लब्धा भगवतो ऽत्तिके चित्तं प्रसादयामास प्रसन्नचित्तश्च राज्ञः प्रसेनजितो निवेद्य भगवत्तं सश्रावकसङ्घं भोजयित्वा शतसहस्रेण वस्त्रेणाच्छाद्य सर्वपुष्पमाल्यैरभ्यर्चितवान्॥ ततश्चेतनां पुष्णाति स्म प्रणिधिं <च> चकार। अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन यथैवाहं भगवता अनुत्तरेण वैद्यराजेन चिकित्सित एवमहमप्यनागते ऽध्वनि अन्धे लोके अनायके अपरिणायके बुद्धो भूयासमतीर्णानां सत्त्वानां तारयिता अमुक्तानां मोचयिता अनाश्वस्तानामाश्वासयिता अपरिनिर्वृतानां परिनिर्वापयितेति॥



अथ भगवान्वडिकस्य धातुपरम्परां कर्मपरम्परां च ज्ञात्वा स्मितं प्राविरकार्षीत्॥ धर्मता खलु यस्मिन्समये बुद्धा भगवत्तः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषोमुखान्निश्चार्य काश्चिदधस्ताद्गच्छत्ति काश्चिदुपरिष्ठाद्गच्छत्ति। या अधस्ताद्गच्छति ताः संजीवं कालसूत्रं <संघातं> रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णनरकास्तेषु शीतीभूता निपतत्ति ये शीतनरकास्तेषूष्णीभूता निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वो ऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। ते निर्मित्ते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। या उपरिष्ठाद्गच्छति ताश्चातुर्महाराजिकांस्रयस्त्रिंशान्यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलानवृहानतपान्सुदृशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।



आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यत्ति॥



अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवत्तमंव पृष्ठतः पृष्ठतः समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतो ऽत्तर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तर्धीयत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो<र>त्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले ऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे ऽत्तर्धीयत्ते॥



अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत उष्णीषे ऽत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।



नानाविधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥

तत्कालं स्वयमधिगम्य धीर बुद्ध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष वाग्भिरुत्तमाभि-

रुत्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्मालावणजलाद्रिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥



भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यस्यानेन वडिकेन गृहपतिपुत्रेण ममैवंविधं सत्कारं कृतम्॥ एवं भदत्त॥ एष आनन्द वडिको गृहपतिपुत्रो ऽनेन कुशलमूलेन चित्तोत्पोदन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट् पारमिताः परिपूर्य शाक्यमुनिर्नाम सम्यक्संबुद्धो भविष्यति दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च। अयमस्यदेयधर्मो यो ममात्तिके चित्तप्रसाद इति॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project