Digital Sanskrit Buddhist Canon

कुसीद इति ३

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
कुसीद इति ३॥



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागपक्षगन्धर्वासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्का<रा>णां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमः श्रेष्ठी प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतो न पुत्रो न डुहिता। स करे कपोलं दत्त्वा चित्तापरो व्यवस्थितः। अनेकधनसमुदितं मे गृहं न मे पुत्रो न डुहिता। ममात्ययात्सर्वस्वापतेपमपुत्रकमिति कृत्वा राजविधेयं भविष्यतीति। स श्रमणब्राह्मणनैमित्तिकसुहृत्संबन्धिबान्धवैरुच्यते देवतापाचनं कुरुष्वेति॥ अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायत्ते दुहितरश्चेति। तच्च नैवम्। यद्येवमभविष्यदेकैकस्य पुत्रसहस्रमभविष्यत्तद्यथा राज्ञश्चक्रवर्तिनः। अपि तु त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायत्ते दुहितरश्च। कतमेषां त्रयाणाम्। मातापितरौ रक्तौ भवतः संनिपतितौ माता कल्या भवति ऋतुमती गन्धर्वश्च प्रत्युपस्थितो भवति। एषां त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायत्ते दुहितरश्च। तथा ह्यसौ श्रमणब्राह्मणनैमित्तिकसुहृत्संबन्धिबान्धवविप्रलब्धो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीनन्यांश्च देवताविशेषानायाचते स्म। तद्यथारामदेवता वनदेवताश्चवरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः सहजाः सहधार्मिका नित्यानुबन्धा अपि देवता आयाचते स्म। स चैवमायाचनपरस्तिष्ठत्यन्यतमश्च सत्त्वोऽन्यतमस्मात्सत्त्वनिकायाच्च्युत्वा तस्य प्रजापत्याः कुक्षिमवक्रात्तः॥ पञ्चावेणिका धर्मा एकत्ये पण्डितजातीये मातृग्रामे। कतमे पञ्च। रक्तं पुरुषं जानाति विरक्तं पुरुषं जानाति। कालं जानाति ऋतुं जानाति। गर्भभवक्रात्तं जानाति। यस्य सकाशाद्गर्भोऽवक्रामति तं जानाति। दारकं जानाति दारिकां जानाति। सचेद्दारको भवति दक्षिणं कुक्षिं निश्रित्य तिष्ठति सचेद्दारिका भवति वामं कुक्षिं निश्रित्य तिष्ठति॥ सा आत्तमनात्तमनाः स्वामिन आरोचयति। दिष्ठ्यार्यपुत्र वर्धसे आपन्नसत्त्वास्मि संवृत्ता यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति नियतं दारको भविष्यतीति। सोप्यात्तमनात्तमनाः पूर्वकायमत्युन्नमय्य दक्षिणं बाहुमभिप्रसार्य उदानमुदानपत्यप्येवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयं जातो मे स्यान्नावजातः कृत्यानि मे कुर्वी<त> भृतः प्रतिबिभृपाद्दापाद्यं प्रतिपद्येत कुलवंशो मे चिरस्थितिकः स्यादस्माकं चाप्यतीतकालगतानामल्पं वा प्रभूतं वा दानानि दत्वा कृत्यानि कृत्वा <स्माकं नाम्ना> दक्षिणामादेक्ष्यत इदं तयोर्यत्रतत्रोपपन्नयोर्गच्छतो<र>नुगच्छत्विति॥ आपन्नमत्वां चैनां विदित्वोपरिप्रासादतलगतामयत्नितां धारयति। शीतेशीतोपकरणैरुष्णे उष्णोपकरणैर्वैद्यप्रज्ञप्तैराहारैर्नातितिक्तैर्नात्यम्लैर्नातिलवणैर्नातिमधुरैर्नातिकटुकैर्नातिकषायैस्तिक्ताम्ललवणमधुर-कटुककषायविवर्जितैराहारैर्हारार्धहारविभूषितगात्रीमप्सरसमिव नन्दनवनविचारिणीं मञ्चान्मञ्चं पीठात्पीठमनवतरत्तीमधरिमां भूमिम्। न चास्याः किञ्चिदमनोज्ञशब्दश्रवणं यावदेव गर्भस्यपरिपाकाय॥ साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातः अभिनूपो दर्शनीयः प्रासादिको जन्मनि चास्यतत्कुलं नन्दितम्। तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादस्य जन्मनि सर्वकुलं नन्दितं तस्माद्भवतु दारकस्य नन्द इति नामेति। तस्य नन्द इति नाम व्यवस्थापितम्॥ नन्दो दारकोऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सोऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेन<न्यैश्च>ओत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्॥



यदा महान्संवृत्तः पञ्चवर्षः षड्वर्षो वा तदा कुसीदः संवृत्तः परमकुसीदो नेच्छति शयनासनादप्युत्थातुम्। तेन तीक्ष्णनिशितबुद्धितयात्तर्गृहस्थेनैव शास्त्राण्यधीतानि॥ अथ श्रेष्ठिन एतदभवत्। योऽपि मे कदाचित्कर्हिचेद्देवताराधनया पुत्रो जातः सोऽपि कुसीदः परमकुसीदः शयनासनादपि नोत्तिष्ठते तत्किं ममानेनेदग्जातीयेन पुत्रेण यो नाम स्वस्थशरीरो भूत्वा पशुरिव संतिष्ठतीति॥ स च श्रेष्ठी पूरणा<भि>प्रसन्नः। तेन षट् तीर्थिकाः शास्तारः स्वगृहमाहूता अपि नामायं दारकस्तेषां दर्शनाद्गौरवजातः शयनासनादपि तावदुत्तिष्ठेत्। अथ कुसीदो दारकस्तांश्छास्तॄन्दृष्ट्वा चक्षुःसंप्रेक्षणामपि न कृतवान् कः पुनर्वाद उत्थास्यति वा अभिवादयिष्यति वा आसनेन वा उपनिमन्त्रयिष्यति॥ अथ स गृहपतिस्तामेवावस्थां दृष्ट्वा सुष्ठुतरामुत्कण्ठितः करे कपोलं दत्त्वा चित्तापरो व्यवस्थितः॥



अत्रात्तरे नास्ति किञ्चिद्बुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातम्। धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तकानामेकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुऋद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रात्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाघानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्रीरात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते। को हीयते को वर्धते कः कृच्छ्रप्राप्तः <कः संकटप्राप्तः>कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः कोऽपायनिम्नः कोऽपायप्रवणः कोऽपायप्राग्भारः कमहमपायाडुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं। कस्य कामपङ्कनिमग्रस्य हस्तोद्धारमनुप्रदद्यां कमार्यधनविरहितमार्यधनैश्वयोधिपत्ये प्रतिष्ठापयेयं। कस्याज्ञानतिमिरपटलपर्यवनद्धनेत्रस्य ज्ञानाञ्जनशलाकया चक्षुर्विशोधयामि। कस्यानवरोपितानि कुशलमूलान्यवरोपयेयं कस्यावरोपितानि परिपाचयेयं कस्य परिपक्कानि विमोचयेयम्। आह च।



अप्येवातिक्रमेद्वेलां सागरो मकरालयः।

न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥



पश्यति भगवानयं दारकः कुसीदो मद्दर्शनाद्दीर्यमारप्स्यते यावदनुत्तरायां सम्यक्संबोधौ चित्तं परिणामयिष्यतीति॥ ततो भगवता तीर्थ्यानां मददर्पच्छित्त्यर्थं दारकस्य च कुशलमूलसंजननार्थं सूर्यसहस्रातिरेकप्रभाः कनकवर्णमरीचय उत्सृष्टाः यैस्तद्गृहं समत्तादवभासितं कल्पसहस्रपरिभाविताश्च मैत्र्यंशव उत्सृष्टाः यैरस्य स्पृष्टमात्रं शरीरं प्रह्लादितम्। स इतश्चामुतश्च प्रेक्षितुमारब्धः कस्य प्रभावान्मम शरीरं प्रह्लादितमिति। <ततो> भगवान्भिक्षुगणपरिवृतस्तद्गृहं प्रविवेश। ददर्श कुसीदो बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकम्। दृष्ट्वा च पुनः परं प्रसादमापन्नः सहसा स्वयमेवोत्थाय भगवतोऽर्थे आसनं प्रज्ञपयत्येत्रं चाह। एतु भगवान्स्वागतं भगवतो निषीदतु भगवान्प्रज्ञप्त एवासन इति। अथास्य मातापितरावत्तर्जनश्चादृष्टपूर्वप्रभावं दृष्ट्वा परमं विस्मयमापन्नाः॥



ततः कुसीदो दारको हर्षविकसिताभ्यां नयनाभ्यां भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। तस्मै भगवता अनेकप्रकारं कौसीद्यस्यावर्णो भाषितो वीर्या<र>म्भस्य चानुशंसश्चन्दनमयीं चास्य यष्टिमनुप्रयच्छति इमां दारक यष्टिमाकोटयेति। स तामाकोटयितुमारब्धः॥ अथासौ यष्टिराकोटयमाना मनोज्ञशब्दश्रवणं करोति विविधानि च रत्ननिधानानि पश्यति। तस्यैतदभवत्। महान्बतायं वीर्यारम्भे विशेषो यन्न्वहं भूयस्या मात्रया वीर्यमारभेयेति॥ स श्रावस्त्यां घण्ठावघोषणं सार्थवाहमात्मानमुद्घोष्य षड्वारान्महासमुद्रमवतीर्णः। ततः सिद्धपानपात्रेण महारत्नसंग्रहं कृत्वा भगवानत्तर्निवेशने सश्रावकसङ्घो भोजितोऽनुत्तरायां च सम्यक्संबोधौ प्रणिधानं कृतम्॥



अथ भगवान्कुसीदस्य दारकस्य हेतुपरंपरां कर्मपरंपरां च ज्ञात्वा स्मितं प्राविरकार्षीत्। धर्मता खलु यस्मिन्समये बुद्धा भगवत्तः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छत्ति काश्चिडुपरिष्टाद्गच्छत्ति। या अधस्ताद्गच्छत्ति ताः संजीवं कालसूत्रं संघाते रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं नि<र>र्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णानरकस्तेषु शीतीभूता निपतत्ति ये शीतनरकास्तेषूष्णीभूता निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थ भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वोऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। या उपरिष्ठाद्गच्छत्ति ताश्चातुर्महाराजिकांस्त्रयस्त्रिंशान्यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलानबृहानतपान्सुदशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।



आरभध्वं निष्क्रामत युऽयध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्माविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यतीति॥



अथ ता अर्चिषस्त्रिसाहस्र<महासाहस्रं> लोकधातुमन्वाहिण्ड्य भगवत्तमेव पृष्ठतः पृष्ठतः समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतोऽत्तधीर्यत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तधीर्यत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तर्धीयत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति ज्ञानुनो<र>त्तर्धोयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतलेऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतलेऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्येऽत्तर्धीयत्ते। प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषेऽत्तर्धीयत्ते॥



अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत उष्णीषेऽत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।



नानाविधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥

तत्कालं स्वयमधिगम्य वीर बुध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष वाग्भिरुत्तमाभिरु-

त्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्माल्लवणजलाग्दिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥



भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यस्यानन्दानेन कुसीदेन दारकेण ममैवंविधं सत्कारं कृतम्॥ एवं भदत्त॥ एष आनन्द कुसीदो दारकोऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट् पारमिताः परिपूर्य अतिबलवीर्यपराक्रमो नाम सम्यक्संबुद्धो लोके भविष्यति दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च। अयमस्य देयधर्मो यो ममात्तिके चित्तप्रसाद इति॥



इदमवोचद्भगवानात्तमनसस्ते च भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project