Digital Sanskrit Buddhist Canon

यशोमतीति २

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Yaśomatīti 2
यशोमतीति २॥



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो वैशालीमुपनिश्रित्य विहरति मर्कटह्रदतीरे कूटागारशालायाम्। अथ पूर्वाह्ने निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतो वैशालीं पिण्डाय प्राविक्षत्। सावदानीं वैशालीं पिण्डाय चरित्वा येन सिंहस्य सेनापतेर्निवेशनं तेनोपसंक्रात्त उपसंक्रम्य प्रज्ञप्त एवासने निषणः॥ अथ सिंहस्य सेनापतेः स्नुषा यशोमती नाम अभिनूपा दर्शनीया प्रासादिका। सा भगवतो विचित्रलक्षणोज्ज्वलकायं दृष्ट्वात्यर्थ प्रसादं लब्धवती। सा श्व<शु>रं पप्रच्छास्ति कश्चिदुपायो येनाहमप्येवंगुणयुक्ता स्यामिति। अथ सिंहस्य सेनापतेरेतदभवत्। उदाराधिमुक्ता बतेयं दारिका यदि पुनरियं प्रत्ययमासादयेत्कुर्पादनुत्तरायां सम्यक्संबोधौ प्रणिधानमिति विदित्वोक्तवान्। दारिके यति हेतुं समादाय वर्तिष्यसि त्वमप्येवंविधा भविष्यसि यादृशो भगवानिति॥



ततः सिंहेन सेनापतिना यशोमत्याः प्रसादाभिवृड्यर्थ प्रभूतं हिरण्यसुवर्ण रत्नानि च दत्तानि। ततो यशोमत्या दारिकया भगवान्सश्रावकसङ्घः श्वोऽत्तर्गृहे भक्तेनोपनिमन्त्रित्तोऽधिवासितं च भगवता तस्या अनुग्रहार्थम्॥ अथ यशोमती दारिका सुवर्णमयानि पुष्पाणि कारयित्वा नूप्यमयाणि रत्नमयानि प्रभूतगन्धमाल्यविलेपनसंग्रहं कृत्वा शतरसमाहारं सज्जीकृत्य भगवतो दूतेन कालमारोचयति। समयो भदत्त सज्जं भक्तं यस्येदानीं भगवान्कालं मन्यत इति॥ अथ भगवान्भिक्षुगणपरिवृत्तो भिक्षुसङ्घपुरस्कृतो येन सिंहस्य सेनापतेर्निवेशनं तेनोपसंक्रात्त उपसंक्रम्य पुरस्तादिक्षुसङ्घस्य प्रज्ञप्त एवासने निषणः। अथ यशोमती दारिका सुखोपनिषणं बुद्धप्रमुखं भिक्षुसङ्घं विदित्वा शतरसेनाहारेण स्वहस्तं संतर्प्य पुष्पाणि भगवति क्षेप्तुमारब्धा। अथ तानि पुष्पाणि उपरि भ<ग>वतो रत्नकूटागारो रत्नच्छत्रं रत्नमण्डप इवावस्थितं यन्न शक्यं सुशिक्षितेन कर्मकारे<ण कर्मा> त्तेवासिना वा कर्तुं यथापि तद्बुद्धानां बुद्धानुभावेन देवतानां च देवतानुभावेन॥ अथ यशोमती दारिका तदत्यद्भुतं देवमनुऽयावर्जनकरं प्रातिहार्य दृष्ट्वा मूलनिकृत्त इव द्रुमः सर्वशरीरेण भगवतः पादयोर्निपत्य प्रणिधानं कर्तुमारब्धा। अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन चान्धे लोके अनायके अपरिणायके बुद्धो भूयासमतीर्णानां सत्त्वानां तारपिता अमुक्तानां मोचयिता अनाश्वस्तानामाश्वासयिता अपरिनिर्वृतानां परिनिर्वापयितेति॥



अथ भगवान्यशोमत्या दारिकाया हेतुपरम्परां कर्मपरम्परां च ज्ञात्वा स्मितं प्राविष्कार्षीत्। धर्मता खंलु यस्मिन्समये बुद्धा भगवतः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छत्ति काश्चिडुपरिष्टाद्गच्छत्ति। या अधस्ताद्गच्छत्ति ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्म महापद्मं नरकान्गत्वा ये उष्णनरकास्तेषु शीतीभूता निपतत्ति ये शीतनरकास्तेषूष्णीभूता निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थ भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वोऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। या उपरिष्टाद्गच्छत्ति ताश्चातुर्महाराजिकांस्त्रयस्त्रिंशान्यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलानवृहानतपान्सुदृशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।



आरभध्वं निष्क्रामत पुज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाप जातिसंसारं दुःखस्यात्तं करिष्यति। इति॥



अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्डा भगवत्तमेव पृष्ठतः पृष्ठत समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतोऽत्तधीर्यत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तधीर्यत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतलेऽत्तधीर्यते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तधीर्यत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठेऽत्तधीर्यत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनोरत्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतलेऽत्तधीर्यत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतलेऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्येऽत्तर्धीयत्ते। प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायामत्तधीर्यत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषेऽत्तधीर्यत्ते॥



अथ ता अर्चोषो भगवतं त्रिः प्रदक्षिणीकृत्य भगवत उष्णीषेऽत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवतं पप्रच्छ।



नानाविधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥

तत्कालं स्वयमधिगम्य वीर बुध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष वाग्भिरुत्तमाभि-

रुत्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्माल्लवणजलाद्रिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥



भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हतः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यस्यानन्दानया यशोमत्या दारिकया ममैवंविधं सत्कारं कृतम्॥ एवं भदत्त॥ एषानन्द यशोमती दारिका अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट् पारमिताः परिपूर्य रत्नमतिर्नाम सम्यक्संबुद्धो भविष्यति दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च। अयमस्या देयधर्मो यो ममात्तिके चित्तस्याभिप्रसाद इति॥ इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project