Digital Sanskrit Buddhist Canon

पूर्णभद्र इति १

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Pūrṇabhadra iti 1
अवदानशतकम्



प्रथमो वर्गः॥

नमः श्रीसर्वज्ञाय॥

पूर्णभद्र इति १॥



बुद्धो भगवान्सत्कृतो [गुरुकृतो] मानितः पूजितो[राजभी] राजमात्रैर्घनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्पक्षैर्मुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान्ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति वेणुघने कलन्दकनिवाये। तत्र भगवतो ऽचिराभिसंबुद्धबोधेर्यशसा च सर्वलोक आपूर्णः। अथ दक्षिणागिरिषु जनपदे संपूर्णो नाम ब्राह्मणमहाशालः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रज्ञावत्सलस्त्यागरुचिः प्रदानरुचिः प्रदानाभिरतः महति त्यागे वर्तते।



यावदसौ सर्वपाषण्डिकं यज्ञामारब्धो यष्टुं यत्रानेकानि तीर्थिकशतसहस्राणि गुञ्जते स्म। यदा भगवता राजा बिम्बिसारः सपरिवारो विनीतस्तस्य च विनयाब्दहूनि प्राणिशतसहस्राणि विनयमुपगतानि तदा राजगृहात्पूर्णस्य ज्ञातयो ऽभ्यागत्य पूर्णस्य पुरस्ताब्दुद्धस्य वर्णं भाषयितुं प्रवृत्ता धर्मस्य सङ्गस्य च। अथ पूर्णो ब्राह्मणमहाशालो भगवतो गुणसंकीर्तनं प्रतिश्रुत्य महात्तं प्रसादं प्रतिलब्धवान्॥ ततः शरणमभिरुह्य राजगृहाभिमुखः स्थित्वा उभौ जानुमण्डले पृथिव्यां प्रतिष्ठाप्य पुष्पाणि क्षिपन्धूपमुदकञ्च भगवत्तमायाचितुं प्रवृत्तः। आगच्छतु भगवान्यज्ञं मे अनुभवितुं यज्ञावाटमिति। अथ तानि पुष्पाणि बुद्धानां बुद्धानुभावेन देवतानां च देवतानुभावेनोपरि भगवतः पुष्पमण्डपं क्षिप्त्वा तस्थुः। धूपो ऽभ्रकूटवडुदकं वैडूर्यशलाकवत्॥



अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ कुत इदं भदत्त निमन्त्रणमायातमिति। भगवानाह। दक्षिणागिरिष्वानन्द जनपदे संपूर्णो नाम ब्राह्मणमहाशालः प्रतिवसति। तत्रास्माभिर्गत्तव्यं सज्जीभवत्तु भिक्षव इति॥ भगवान्भिक्षुसहस्रपरिवृतो दक्षिणागिरिषु जनपदे चारिकां चरित्वा पूर्णस्य ब्राह्मणमहाशालस्य यज्ञवाटसमीपे स्थित्वा चित्तामापेदे। यन्न्वहं पूर्णब्राह्मणमृद्धिप्रातिहार्येणावर्जयेयमिति॥ अथ भगवांस्तं भिक्षुसहस्रमत्तर्धास्य एकः पात्रकरकव्यग्रहस्तः पूर्णसमीपे स्थितः। अथ पूर्णो ब्राह्मणमहाशालो भगवत्तं ददर्श द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकम्। दष्ट्वा च पुनस्त्वरितत्वरितं भगवतः समीपमुपसंक्रम्य भगवत्तमुवाच स्वागतं भगवन्निषीदतु भगवान्क्रियतां-----ममानुग्रहार्थमिति। भगवानाह। यदि ते परित्यक्तं दीयतामस्मिन्पात्र इति। अथ पूर्णो ब्राह्मणमहाशालः पञ्चमाणवक्रशतपरिवृतो भगवतो विविधभक्ष्यभोज्यखाद्यलेह्यपेय्यचोष्यादिभिराहारैरारब्धः पात्रं परिपूरयितुम्। भगवानपि स्वकात्पात्राद्भिक्षुपात्रेष्वाहारं संक्रमयति। यदा भगवतो विदितं पूर्णानि भिक्षुसहस्रस्य पात्राणीति तदा स्वपात्रं पूर्णमादर्शितम्। ततो भिक्षुसहस्रं पूर्णपात्रमर्धचन्द्राकारेण दर्शितवान्। देवताभिरप्याकाशस्थाभिः शब्दमुदीरितं पूर्णानि भगवतो भिक्षुसहस्रस्य च पात्राणीति॥



ततः प्रातिहार्यदर्शनात्पूर्णः प्रसादजातो मूलनिकृत्त इव द्रुमो हृष्टतुष्टप्रमुदित उदयप्रीतिसौमनस्यजातो भगवतः पादयोर्निपत्य प्रणिधिं कर्तुमारब्धः। अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन चान्धे लोके अनायके अपरिणायके बुद्धो भूयासमतीर्णानां सत्त्वानां तारयिता अमुक्तानां मोचयिता अनाश्वस्तानामाश्वासयिता अपरिनिर्वृतानां परिनिर्वापयितेति॥



अथ भगवान्पूर्णस्य ब्राह्मणमहाशालस्य हेतुपरम्परां कर्मपरम्परां च ज्ञात्वा स्मितं प्राविरकार्षीत्। धर्मता खलु पस्मिन्समये बुद्धा भगवत्तः स्मितं प्राविष्कुर्वति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषोमुखान्निश्चार्य काश्चिदधस्ताग्दच्छत्ति काश्चिदुपरिष्ठाग्दच्छत्ति। या अधस्ताग्दच्छत्ति ताः संजीवं कालसूत्रं संघातं रौरवं [महारौरवं] तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णानरकास्तेषु शीतिभूता निपतत्ति ये शीतनरकास्तेषूंष्णीभूता निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं [विसर्जयति। तेषां निर्मितं] दृष्ट्वैवं भवति। न हेव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वोऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रासाद्य तन्नरकवेदनीयं कर्म क्ष[प]यित्वा देवमनुष्येषु प्रतिसन्धि गृण्हत्ति यत्र सत्यानां भाजनभूता भवति। या उपरिष्ठाग्दच्छत्ति ताश्चातुर्महाराजिकांस्त्रयस्त्रिंशान्यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलानबृहानतपान्सुदृशान्मुदर्शनानकनिष्ठान्देवान्गत्वा ऽनित्यं दुःखं शून्यमनात्मेत्युद्दोषयति गाथाद्वयं च भाषते।



आरभध्वं निष्क्रामतं युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यति। इति॥



अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्द्य भगवत्तमेव पृष्ठतः पृष्ठतः समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतोऽत्तर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तधीर्यत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्या[म]त्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तधीर्यत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो[र]त्तधीर्यत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले ऽत्तधीर्यत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधि व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायामत्तधीर्यत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे ऽत्तधीर्यत्ते॥



अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत उष्णीषे ऽत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।

नानाविधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणां शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥

तत्कालं स्वयमधिगम्य वीर बुद्ध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष वाग्भिरुत्तमभिरु-

त्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्माल्लवणजलाग्दिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥



भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। एष आनन्द पूर्णो ब्राह्मणमहाशालो ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट् पारमिताः परिपूर्य पूर्णभद्रो नाम सम्यक्संबुद्धो भविष्यति दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च। अयमस्य देयधर्मो यो ममात्तिके चित्तप्रसाद इति॥ यदा भगवता पूर्णो ब्राह्मणमहाशालो ऽनुत्तरां[यां] सम्यक्संबोधौ व्याकृतः तदा पूर्णेन भगवान्सश्रावकसङ्घस्त्रैमास्यं यज्ञवाटे भोजितो भूयश्चानेन चित्राणि कुशलमूलानि समवरोपितानि॥



तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project