Digital Sanskrit Buddhist Canon

४८.हस्तकावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
४८ हस्तकावदानम्।

मत्तेभकुम्भोच्चकुचाभिरामाः
कर्पूरहारांशुविलासहासाः।
प्रीतिप्रदाः पुण्यवतां भवन्ति
प्रौढा युवत्यश्च विभूतयश्च॥१॥

तथागते भगवति श्रावस्त्यां वनचारिणि।
अभवत्सुप्रबुद्धाख्यः श्रीमान् गृहपतिः पुरा॥२॥

बभूव हस्तको नाम तस्यातिदयितः सुतः।
पूर्वार्जितानां पुण्यानां साकार इव संचयः॥३॥

तस्य जन्मदिने जातश्चामीकरमयो महान्।
एकीभूत इवाश्चर्यव्रजः प्रवरकुञ्चरः॥४॥

स गजेन्द्रः कुमारश्च तत्पितुश्च मनोरथः।
लोककौतुककोशाश्च पूर्णतां त्युल्यमाययुः॥५॥

स शशीव शिशुः काले कलानिलयतां गतः।
रुरुचे रुचिमान् सर्वलोकलोचनबान्धवः॥६॥

स शनैः पूरिताभोगभुजस्तम्भविभूषणम्।
लेभे मनोभवारम्भभवनं नवयौवनम्॥७॥

कदाचिदथ भूभर्तुः स प्रसेनजितः सुताम्।
तनुचीवरचिह्नेन सहजेन विराजिताम्॥८॥

कन्यां चीवरकन्याख्यां लावण्यललिताननाम्।
उद्यानदर्शनायातां ददर्शायतलोचनाम्॥९॥

अक्लिष्टरूपामालोक्य तामपर्युषितद्युतिम्।
विस्मयस्मरयोस्तुल्यमाययौ सहसा वशम्॥१०॥

सोऽचिन्तयदहो कान्तमिदमत्यद्भुतं वपुः।
यस्मिन् भाति मुखव्याजाददोषविशदः शशी॥११॥

लावण्यमप्रतिममेव बिभति तन्वी
बन्धूकबन्धुरधरो मधुरस्वभावः।
द्रोहोद्यतः सरसविद्रुमपल्लवानां
बिम्बप्रभाप्रसभभ्रमवन्ध्यकारः॥१२॥

वक्र्क्रं न क्षमते मदं शशमृतः क्लेश्नाति कान्तिः सुधा-
मुत्फुल्लोत्पलकाननस्य कुरुते दृष्टिः प्रभाभ्र्त्सनम्।
मन्ये मन्मथसंगमोचिततनोः साप्त्न्यभीतिप्रदा
लीलायास्याः सहसा विलासलहरीशोषं विधत्ते रतेः॥१३॥

उद्वृत्ते कठिने परोधरयुगे नश्यद्विवेके चिरं
यस्या दोषमयेऽप्यहो गुणवता हारेण बद्धा स्थितिः।
यच्चास्मिन्नवलम्बतेऽम्बुजधिया रोलम्बरेखा मुखे
लोलाक्ष्याः किमपि प्रशान्तनयने लीनं मुनीनां मनः॥१४॥

इति चिन्तयतस्तस्य वपुः पुष्पशरोपमम्।
विलोक्य भूपतिसुता बभूवाश्चर्यनिश्चला॥१५॥

हृते लज्जांशुके तस्याः स्मरेण स्मितकारिणा।
प्रत्यग्रपुलकाकीर्णं वपुः स्पष्टमदृश्यत॥१६॥

रुद्धा नवाभिलाषेण वैलक्ष्येण निवर्तिता।
मनस्तत्रैव निक्षिप्य सा शून्येव शनैर्ययौ॥१७॥

राजधानीं समासाद्य लज्जाविस्मयमन्मथैः।
मीलितेव निलीनेव प्रोषितेव बभूव सा॥१८॥

कुमारोऽपि स्वभवने समुद्भूतमनोभाव्ः।
तामेवेन्दुमुखीमग्रे संकल्पैरलिखन्मुहुः॥१९॥

स तां मानससर्वस्वं स्मरविद्यामिव स्मरन्।
प्रदध्यौ कुर्लभाम् मत्वा तनयाम् चक्रवर्तिनः॥२०॥

जन्मान्तरे तनुर्यस्य तपःपरिचिता चिरम्।
धन्यः स तामवाप्नोति लतां सुकृतशाखिनः॥२१॥

रम्यप्रदानपुण्येन तद्दर्शनमवाप्यते।
न जाने तानि पुण्यानि येषां तत्संगमः फलम्॥२२॥

तद्वक्र्क्रशीतकिरणस्मरणोत्सवेन
तस्याश्च दुर्लभतया विरहोष्मणा मे।
नो वेद्मि किं धृतिरियं किमयं विमोहः
किं जीवितं किमसुभिः सहः विप्रयोगः॥ २३॥

तद्वक्र्क्रब्जजितः प्रसह्र भजते क्षैण्यं क्षपावल्लभः
तद्भूविभ्रमलज्जितं च विनतिं धते धनुर्मान्मथम्।
तस्याह् पल्लवपेशलद्युतिमुषा शोषाधरेणार्दितं
नूनं प्राप्य पराजयं वनमहीं बिम्ब समालम्बते॥२४॥

इति पूर्णेन्दुवदनावदनध्याननिश्चलह्।
निशां निनाय संत्यक्तः सेर्ष्ययेव सनिद्रया॥२५॥

कन्यादर्शनवृत्तान्तं ततस्तेन निवेदितम्।
श्रुत्वा पितास्य संक्रन्तचिन्तापरिचितोऽभवत्॥२६॥

स तमूचे वयं पुत्र राज्ञोऽस्य पुरवासिनह्।
स कथं ते दुहितरं चक्रवर्ती प्रदास्यति॥२७॥

अशक्यं नैव कुर्वन्ति समीहन्ते न दुर्लभम्।
असंभाव्यं न भाषन्ते मानकामा मनीषिणः॥२८॥

चूतचम्पकवल्लीषु स्वाधीनासु निरादरः।
चिन्तयन् पारिजातस्य लताम् शुष्यति षट्पदः॥२९॥

तव तस्याश्च संबन्धः प्राज्गन्मविहितो यदि।
तदवश्यं भवत्येव निष्प्रयत्नफलोदयह्॥३०॥

आशापाशैरनाकृष्टं विचारैरकदर्थितम्।
प्रयत्नभारैरश्रान्तं विधत्ते भवितव्यता॥३१॥

इत्याकर्ण्य पितुर्वाक्यं तत्तथेति विचिन्तयन्।
न चेतः कन्यकानीतं समानेतुं शशाक सः॥३२॥

स गत्वा दन्तयुगलं ययाचे हेमकुञ्चरम्।
नवसंदर्शने राग़्यः प्रीतियोग्यमुपायनम्॥३३॥

पुण्यबन्धेन करिणा दत्तं दन्तयुगं ततः।
स हेममयमादाय द्रष्टुं भूमिपतिं ययौ॥३४॥

स रत्नरुचिरं प्राप्य भवनं पृथिवीपतेः।
प्रविश्यः प्रणतः प्रीत्यै हेमदन्तद्वयं ददौ॥३५॥

भूभुजा विश्रुतगुणः प्रसादेनाभिनन्दितः।
वरं गृहाणेत्युक्तश्च स न जग्राह किंचन॥३६॥

तस्यादीनद्युतेश्चक्रे मानमभ्यधिकं नृपः।
औचित्यचारुचरितः प्रियः कस्य न निःस्पृहः॥३७॥

स सदा दर्शने राग़्यः काञ्चनाङ्गानि दन्तिनः।
पुनर्जातनवाङ्गेन दत्ताणि प्रीयते ददौ॥३८॥

तमुवाच महीपालः सेवाप्रणययन्त्रितः।
दूतीं मनःप्रसादय वदनद्युतिमुद्वहन्॥३९॥

प्रभूतहेमसंभारां गुर्वीं सोवामिमामहम्।
न सहे प्रौरवार्गो हि भवणीयो महीभृताम्॥४०॥

संविभज्य जनानीतैः का प्रीतिर्मम काञ्चनैः।
तवानर्घगुणा मूर्तिरियमेव मम प्रिया॥४१॥

लोभः पुरुषरत्नेषु भूषणार्हेषु शोभते।
राज्ञां कोशेषु सीदन्ति हेमरत्नाश्मसंचयाः॥४२॥

समीहिततमं तुभ्यं किं प्रयच्छामि कथ्यताम्।
निःशेषकोशदानेन न नामानुशयोऽस्तु मे॥४३॥

राज्ञ्ं दृक्पातपात्रेण प्राप्यन्ते यदि न श्रियः।
तदनर्थं गतार्थिन्या कोऽथः पार्थिवसेवया॥४४॥

इत्युक्तः क्षितिपालेन कुमारः कलिताञ्जलिः।
तमभाषत भूपाल दातुमर्हति कोऽपरः॥४५॥

अनर्थितेन रत्नानि विबुधेभ्यः प्रयच्छता।
तदुन्निद्रं समुद्रस्य मुद्रितं भवता यशः॥४६॥

महतापि प्रयत्नेन पूर्यते न महाशयः।
अल्पकानां तदैर्श्वर्यं दारिद्यं तन्महीयसाम्॥ ४७॥

किं तु त्वद्भुजगुप्तानां धर्ममार्गेण जीवतां।
जनानां नास्ति दारिद्यं द्रविणं येन मृग्यते॥४८॥

धनार्थिनो न तु वयं न च सेवाधिकारिणः।
धनं धनं धनधियां मान एव मनस्विनाम्॥४९॥

मीलद्गुणेन परमेश्वरसेवनेन
नुर्मूलताम् सुमनसां सहसा गतानाम्।
दैन्यात्पुनः कृपणपण्यपथे च्युतानां
न स्पर्शमात्रमपि साधुजनः करोति॥५०॥

अर्थित्वान्मरणम् वरं तनुभृताम् दैन्यावसन्नात्मनाम्
अर्थी सर्वजनावमानवसतिः सत्कारयोग्यः शवः।
कुम्भस्तावदधह् प्रयाति गुणवान् कूपावतारे परं
यावन्मोहतमःप्रवेशविवशः प्राप्तोऽर्थिता लम्बते॥५१॥

सामान्या धनसंपदः क्रयकृषिप्राप्या सदा धीमतां
संतोषो यदि नास्ति तत्किमपरा भूमिर्निधानावृता।
सन्त्येवातिशयप्रसादनिरतास्ता हेमरत्नक्रियाः
कस्येष्टः प्रियसंगमाय वपुषां सेवामयो विक्रयः॥५२॥

इत्यपारधियस्तस्य वचः श्रुत्वा महीपतिः।
गॄह्यतामपरं किंचिदित्यभाषत सादरः॥५३॥

औचित्यचतुरालापः कर्कशोऽपि नृपां प्रियः।
कृपणश्चाटुकारोऽपि कर्णशूलाय केवलः॥५४॥

और्दार्यपरितुष्टेन स राज्ञभ्यर्थितः परम्।
तमूचे यदु तुष्टोऽसि सुता मह्यं प्रदीयताम्॥५५॥

इत्युक्ते तेन नृपतिः संदेहान्दोलिताशयः।
प्रातर्वक्ताहमित्युक्त्वा क्षणं क्ष्मातलमैक्षत॥५६॥

स कुमारं विसृज्याथ प्रधानामात्यमब्रवीत्।
प्रसादरभसेनैव कृतं वाक्चापलं मया॥५७॥

चक्रवर्तिकुलोत्पन्ना कन्या पुण्यपणोचिता।
कथं सामान्यपौराय गुणमात्रेण दीयते॥५८॥

ददामीति प्रतिश्रुत्य पश्चादनुशयाकुलः।
कथं सराधनो भूत्वा भविष्याम्यर्थिनिष्फलः॥ ५९॥

कथं प्राप्तस्य तस्याहं प्रातर्द्रष्ट् मुखं पुरः।
प्रियोऽप्यप्रियतां यातः स मे दुर्लभयेच्छया॥६०॥

नूनं गुणोपपन्नोऽपि प्रकृत्यैव शरीरिणाम्।
वक्ति यावन्न देहीति तावद्गवति वल्लभह्॥६१॥

इति भूमिपतेः श्रुत्वाः वचो दोलावलम्बिनः।
तमुवाच महामात्यः संचिन्त्यावसरोचितम्॥६२॥

अनालोचितपर्यन्ताः प्रत्यग्रसरसादराः।
स्वभावरभसा एव भवन्ति प्रभुबुद्धयः॥६३॥

अशक्यार्थनया तेन लुब्धेनेव गुणोदयः।
राजसेवाप्रवृत्तेन हेमहस्ती विनाशितः॥६४॥

वाच्योऽसौ भवता स्वैरं कन्यार्थी पुनरागतः।
हेमहस्तिनमारुह्य प्राप्तः प्राप्स्यसि मे सुताम्॥६५॥

तेनोत्कृत्तः स्वहस्तेन कुतस्तस्य स कुञ्जरः।
न चासौ तद्विरहितः पुनरायाति लज्जया॥६६॥

इत्यमात्यस्य वचसा नृपतिर्युक्तिमाश्रितः।
प्राप्तं कुमारमन्येद्युस्तदेवाभिमुखोऽवदत्॥६७॥

कुमारोऽपि गॄहं गत्वा विवाहोचितमङ्गलैः।
हौमद्विरदमारुह्य स्वजनेन सजाययौ॥६८॥

स्वर्णवारणसंरूढं तमायान्तं महीपतिः।
विलोक्याश्चर्यविभवं मेने पुण्यवतां वरम्॥ ६९॥

कौतुकादथ भूपालस्तं गजं हेमविग्रहम्।
आरुरोह महोत्साहः सुमेरुमिव वज्रभृत्॥७०॥

आरूढे पृथिवीपाले न चचाल स कुञ्जरः।
प्रसर्सर्प कुमारेण पुनश्चालंकृतासनः॥७१॥

तं ज्ञात्वा नृपतिर्देवं तत्प्रभावेण विस्मितः।
धन्योऽस्मीति वदन् कन्यां ददौ तस्मै स्मरश्रियम्॥७२॥

अभ्यर्च्य कन्यारत्नेन नृपतिः पुरुषोत्तमम्।
हर्षोत्सवसमुद्धूतः सुधासिन्धुरिवाबभौ॥७३॥

ततः कुमारे दयितामादाय स्वगृहं गते।
सफलोऽभूदनङ्गस्य कार्मुकाकर्षणश्रमः॥७अ४॥

नवे वयसि भोगार्हे नवकान्तासमागमे।
तस्याभूद्विभवोदारः सदा नवनवोत्सवः॥७५॥

ततः कदाचिद्भूपालः कृतकृत्यः प्रसेनजित्।
पुण्यप्रभावं जामातुः कलयन् समचिन्तयत्॥७६॥

अहो दिव्यः प्रभावोऽसौ कुमारस्य प्रदृश्यते।
न हि सामान्यपुण्यानां पाको भवति तद्विधः॥७७॥

कुलं लक्ष्मीहर्म्यं हृतशशिमदा रूपलहरी
वयः संभोगार्हं गुणपरिचयो भूषणचयः।
यशः पुण्योद्यानप्रसृतकुसुमोल्लासरुचिरं
न विद्मः कस्यायं कुशलपरिणामस्य विभवः॥७८॥

इति संचिन्त्य सुचिरं स संजातकुतूहलः।
सर्वज्ञदर्शनावद्धमारुरोह मनोरथम्॥ ७९॥

स जातातरमाहूय सुतां च सचिवैः सह।
भगवन्तं ययौ द्रष्टुं मनसा प्रथमं गतः॥८०॥

याते दृष्टिपथं जेतवने संत्यज्य वाहनम्।
उपसृत्यः नृपः पद्भ्यां भगवन्तं व्यलोकयत्॥८१॥

स तं प्रणम्य तत्पादपद्मभूतिशिखामणिः।
सुतां जामातरं चास्मै नम्रो नाम्ना न्यवेदयत्॥८२॥

उपविष्टेषु सर्वेषु प्रणामानतमौलिषु।
पप्रच्छ राजा सर्वज्ञं भगवन्तं कृताञ्जलिः॥८३॥

अयं गुणगओपेतः कुमारः श्रीमतां वरः।
हैमेव दन्तिनायातो भगवन् केन कर्मणा॥८४॥

इयं चीवरकन्या च मत्सुतास्य नवा वधूः।
केन पुण्यप्रभावेण जीवितादधिवल्लभा॥८५॥

इति पृष्टः क्षितीशेन सर्वविद्भगवान् जिनः।
तमूचे भूपते पुंसां पुण्योद्भूता विभूतयः॥८६॥

यदुदारो यदुचितो यद् भ्राजिंष्णु यदद्भुतम्।
स्पृहणीयं च यल्लोके तत्तत्पुण्यसमुद्बह्वम्॥८७॥

विपश्वी भगवान् पूर्वं सुगतः सह भिक्षुभिः।
चचार लोककृपया राज्ञो बन्धुमतः पुरे॥८८॥

तस्मिन्नवसरे तत्र कुमार्या सह दारकः।
विक्रीडावर्त्मनि पुरः कृत्वा दारुमयं गजम्॥८९॥

तौ विलोक्य समायान्तं ध्मातजम्बूनदद्युतिम्।
फुल्लपद्मदलाकारकरुणास्निग्धलोचनम्॥९०॥

भगवन्तं समुद्भूततद्भक्तिसरसोन्मुखौ।
क्रीडागजं निवेद्यास्मै प्रणतौ तस्थतुः पुरः॥९१॥

भगवानपि सर्वज्ञस्तयोर्ज्ञात्वा मनोरथम्।
दयया चरणस्पर्शं विदधे दारुदन्तिनः॥९२॥

सम्यक् चित्तप्रसादेन दृष्टौ भगवताथ तौ।
प्रणीधानं विवाहाय चक्रतुर्दारकौ मिथः॥९३॥

कुलप्रभावविभवैर्भूयाज्जन्म ममोचितम्।
वाहनं हेमदन्ती च कुमारस्येत्यभून्मतिः॥९४॥

दृष्ट्वा भगवतः कन्या संसक्त्रे चारुचीवरे।
जन्मचीवरयुक्तां स्यामहमेतचिन्तयत्॥९५॥

स एष प्रणिधानेन जातस्तेनेह हस्तकः।
इयं चीवरकन्या च तनुचीवरलक्षण॥९६॥

इति क्ष्रुत्वा क्षितिपतिस्तद्वृत्तं सुगतोऽदितम्।
मुकुटस्पृष्टतत्पादपद्मः स्वभवनं ययौ॥९७॥

याते सविस्मयं राज्ञि कुमारः सह जायया।
कथ्यमानं भगवता धर्मं शुश्राव शुद्धधीः॥९८॥

ततस्तौ जातवैराग्यौ क्षीणसंसारवासनौ।
प्रव्रज्यया जितक्लेशौ शुद्धां बोधिमवापतुः॥ ९९॥

विततसुकृतपुण्याभ्यासयोगेन पुंसां
भवति कुशलभाजां धर्मकामार्थसंपत्।
अभिमतमथ भुक्त्वा तत्फलं सदारास्ते
विघनगगनकान्तिं शान्तिमन्ते भजन्ते॥१००॥

इति क्षेमन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां
हस्तकावदानमष्टचत्वारिंशः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project