Digital Sanskrit Buddhist Canon

४६.शालिस्तम्बावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
४६. शालिस्तम्बावदानम्।

दानैकतानमनसां पृथुसत्त्वभाजा-
मुत्साहमानगुणभोगविभूटिपूतः।
प्राक्उण्यसंचयमयः कुशलभिधानः
काले फलत्यविकलः किल कल्पवृक्षः॥१॥

कोसलेन्द्रस्य भूभर्तुः श्रावस्त्याम् भगवान् पुरा।
विजहार व रोद्याने सह भिक्षगणैर्जिनः॥२॥

आदिमध्याण्तकल्याणं बह्वाभिभवसाधकम्।
संदिदेश स सद्धर्मं त्रैलोक्यकुशलोद्यतः॥३॥

अत्राण्तरे नागराजपुत्राः सागरवासिनह्।
चत्वारः सुगतोदीर्णं सद्धर्मं परमामृतम्॥ ४॥

अभिरत्याख्यया स्वस्रा प्रेरिताः श्रोतुमागताः।
ते बलातिबल-श्वास-महाश्वासाभिधाः समम्॥५॥

क्रकुच्छन्दस्य सुधियः काले भगवतः पुर।
कनकाख्यस्य च मुनेः काश्यपस्य च यत्नतः॥६॥

आजग्मुः श्रीसुखासक्ताः श्रोतुमप्रार्थिता अपि।
तत्पुण्यपरिणामेन प्राप्ताः शाक्यमुनेः पुरा॥ ७॥

तेषु प्रणम्य शास्तारं चरणालीनमौलिषु।
विधाय मानुषं रूपमुपविष्टेषु पर्षदि॥८॥

सद्धर्ममाययौ श्रोतुं कोसलेन्द्रः प्रसेनजित्।
लक्ष्मीमन्दस्मितच्छायं निवार्य च्छत्रचामरम्॥९॥

शास्तुः पादप्रणामाय विशतस्तस्य संसदि।
अवकाशं नताश्चक्रुः सर्वे नृपतिगौरवात्॥१०॥

तस्याभिनन्द्यमानस्य वर्षाश्रमगुरोर्नृभिः।
नागराजसुताश्चक्रुर्नावकाशं न सत्कृतम्॥११॥

तस्याभिनन्द्यमानस्य वर्णाश्रमगुरोर्नृभिः।
नागराजसुताश्चक्रुर्नावकाशं न सत्कृतम्॥१२॥

स संज्ञया समादिश्य निजं परिजनं पुरः।
गमने निग्रहम् तेषां निर्विकार इवाभवत्॥ १३।

भगवानपि सर्वज्ञस्तस्य ज्ञात्वा च निश्चयम्।
धर्मोपदेशपर्यन्ते प्रोवाच रचितस्मितः॥१४॥

न विद्वेषरजःपूर्णमनोमलिनदर्पणे।
भाति धर्मोपदेशस्य प्रतिबिम्बप्रतिग्रहः॥१५॥

अविहितसमतानां कोपमोहाहतानां
कृशमपि कुशलांशं नोपदेशः करोति।
न हि वहुतरदोषे शुद्धिहीने शरीरे
व्रजति हतमतीनाम् भेषजं भेषजत्वम॥१६॥

इति युक्तं भगवता हितमुक्तं महीपतिः।
श्रुत्वापि न च तत्याज नागेषु विमनस्कताम्॥१७॥

भगवन्तं प्रणम्याथ प्रयाते स्वपदं नृपे।
नागास्तत्सैनिकाबद्धमार्गे व्योमपथा ययुः॥१८॥

ते विचिन्त्य स्वभवने क्ष्मासंक्षयकृतक्षणाः।
घोरनिर्घातमेघौघग्रस्तलोकाः समाययुः॥१९॥

तेषां व्यवसितं ज्ञात्वा सर्वग़्यः पक्षपातिनाम्।
रक्ष्ःआक्षमं क्षितिपतेर्मौद्गल्यायनमादिशत्॥२०॥

अथ नागगणोत्सृष्टा वज्रवृष्टिर्महीपतौ।
भूभर्तुस्तत्प्रभावेण प्रययौ पुष्पवृष्टिताम्॥२१॥

शस्त्रास्त्रवृष्टिर्निबिडक्षिप्ता तैरथ दुःसहा।
मौद्गल्यायनसंकल्पाद्ययौ राजार्हभोज्यताम्॥२२॥

तत्प्रभावात्प्रयातेषु भोग्नोत्साहेषु भोगिषु।
गत्वा ववन्दे सुगतं नृपतिर्वीतविप्लवः॥२३॥

स मौद्गल्यायनस्यार्घ्यमुचितं भोगसंपदा।
भक्तिसंस्कारसुभगं विदधे जिन्शासनात्॥२४॥

ततः स्वर्गोचिताम् भिक्षुर्विभूतिं वीक्ष्य भूपतेः।
पप्रच्छ कौतुकवशात् सर्वग़्यं चरिताञ्जलिः॥२५॥

भगवन् कस्य पुण्यस्य प्रभावेण प्रसेनजित्।
सर्वैर्विराजितं भोगैः प्राज्यं राज्यमवाप्तवान्॥२६॥

इक्षुस्तम्बवदेतस्य शालिस्तम्बश्च जायते।
दिव्यपानान्नसंपत्तिः फलं तत्कस्य कर्मणः॥ २७॥

इति पृष्टः प्रणयिना भिक्षुणा भगवान् जिनः।
उवाच श्रूयतां राज्ञः कारणं भोगसंपदाम्॥२८॥

कोसलेऽस्मिन् जनपदे खण्डाख्यगुडकर्षकः।
ददौ प्रत्येकबुद्धाय पूर्वमिक्षुरसौदनम्॥२९॥

भुक्तेनेक्षुरसान्नेन तेन वातगदार्दितः।
प्रत्येकबुद्धस्तत्पुण्यैः प्रसन्नः सुस्थतां ययौ॥३०॥

राजा प्रसेनजित् सोऽयं पुण्यवान् गुडकर्षकह्।
तेन पुण्यप्रभावेण भोगभागी विराजते॥३१॥

उपकारः कृतज्ञानां निकारः क्रूरचेतसाम्।
सुकृतांशश्च शाधूनामप्लोऽप्यायात्यनल्पताम्॥ ३२॥

सर्वज्ञेनेति कथिते पूर्वपुण्ये महीपतेः।
बभूव सुकृतोत्कर्षे भिक्षुराश्चर्यनिश्चलह्॥३३॥

अथ भक्त्या भगवतः कृत्वा राजाधिवासनाम्।
उपनिन्ये स्वयं तां तां सुरार्हां भोगसंपदम्॥३४॥

परोपचारै रुचिरैरर्चिते काञ्चनासने।
सुखोपविष्टं प्रोवाच नरनाथस्तथागतम्॥३५॥

भगवन् मे भवद्भक्तिविभक्तसुकृतश्रियः।
चयह् कुशलमूलानामनिर्मुक्त्यै भविष्यति॥३६॥

विनयात्पार्थिवेनेति पूर्णपुण्याभिमानिना।
पृष्टः स्मितसितालोकं जगाद सुगतः सृजन्॥३७॥

राजन् संसारमार्गोऽयमनादिनिधनोद्भवः।
हेलालङ्घ्यः कथं पुंसामप्राप्य क्लेशसंक्षयम्॥३८॥

चिरपरिचितैश्चक्रावर्तैरसक्तगतागतिः
प्रकृतिगहनः संसारोऽयं सुखेन न लङ्घ्यते।
असति हि विना योगाभ्यासं क्षये किल कर्मणां
स्फुटफलततिर्धर्मोऽप्यस्मिन्निबन्धनताम् गतः॥३९॥

सर्वतो विनिवृत्तस्य दानाभ्यासेन भूयसा।
ममापि धर्मसंसारो बभूव भूरिजन्मकृत्॥ ४०॥

धनिको नाम धनवान् वाराणस्यामभूत्पुरा।
तापापहः फलस्फीटश्छायावृक्ष इवार्थिनाम्॥४१॥

दुर्भिक्षक्षपिते लोके विषमक्लेशविह्वले।
भोज्यं प्रत्येकबुद्धानां सोऽर्थितः पञ्चभिः शतैः॥४२॥

स तेषां परभोगार्हं दुर्भिक्षावधि भोजनम्।
अकल्पयदनल्पश्रीः कोष्ठागारी गतस्मयः॥४३॥

शतपञ्चकसंघातैर्भोक्तुं तस्य गृहं ततः।
क्रमात्प्रत्येकबुद्धानाम् सहस्रद्वयमाययौ॥४४।

तस्य तत्पुण्यवासेन जातो लब्धफलश्रिया।
दुर्भिक्षदानजनितो रत्नकोशस्तदाक्षयः॥४५॥

सुखं सनातनं पुण्यभोग्यत्वं प्रणिधानतः।
शास्तुस्ततः परेणायं सम्यक्संबोधिमापितः॥४६॥

पुण्येन पापेन च वेष्टितेयं
संसारिणां कर्मफलप्रवृत्तिः।
सितासिता बन्धनरज्जुरेषा
तत्संक्षये मोक्षपथं वदन्ति॥४७॥

इति क्षितीशः कथितं जिनेन
मोहव्यपायेन निशम्य मोक्षम्।
क्लेशक्षयार्हं शममेव मत्वा
पुण्याभिमानं शिथिलीवकार॥४८॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां
शालिस्तम्बावदानं नाम षट्चत्वारिंशः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project