Digital Sanskrit Buddhist Canon

४५.कृतज्ञावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
४५. कृतज्ञावदानम्।

अन्धीकृतोऽपि स्वदृशा तमसा खलेन
लक्ष्मीविहारविरहे विनिपातितोऽपि।
कष्टां दशामिव निशामतिवाह्य पद्मः
स्वामेव संपदमुपैति पुनर्गुणाढ्यः॥१॥

श्रावस्त्यां सुगते जेतवनोद्यानविहारिणि।
देवदत्तः परिद्वेषव्याधिव्याप्तो व्यचिन्तयत्॥२॥

तुल्यः समानो मे भ्राता मनुष्यः शाक्यवंशजः।
प्राप्तः पुण्यप्रभावेण त्रिजगत्पूज्यतां जिनः॥३॥

जीवितोद्वृत्तये तस्मात् तय्स्य यत्नं करोम्यहम्।
न ह्यनस्तंगते भानौ परतेजः प्रकाशते॥४॥

विज्ञानेनानुभावेन विद्यया तपसा श्रिया।
परप्रकर्षं सहते न हि मानोन्नतं मनह्॥५॥

विषं निजनखाग्रेषु धृत्वा तस्य प्रणामकृत्।
संचारयामि वपुषि नेदिष्ठः पादपीडणैः॥६॥

इति संचिन्त्य कलुषं विद्वेषविवशः खलह्।
स तिष्यप्रमुखानेत्य बान्धवानिदमभ्यधात्॥७॥

क्रूरः कृतापकारोऽहं सुगतस्याद्य पादयोः।
सरलस्य प्रसादाय प्तामि गुरुपातकह्॥८॥

इति ब्रुवाणस्तैः सर्वैः सुदत्तानुमतैः सह।
जिनं जेतवनासीनं द्रष्टुं दुष्टमतिर्ययौ॥९॥

भगवन्तं विलोक्याभूत्तत्र यावत्स सर्वशः।
तावद्दग्धोऽहमित्युच्चैरुत्क्षिप्तचरणोऽवदत्॥१०॥

हुंसासंकल्पपापेन व्रज्रेणेव समाहतः।
सशरीरं क्षणे तस्मिन् नरकाग्नौ पपात सः॥११॥

सर्वज्ञः सहसा दृष्ट्वा तं घोरनरके च्युतम्।
उवाच श्रुततद्वृत्तविस्मितां भिक्षुसंसदम्॥१२॥

एष किल्बिषदोषेण पतितः क्लेशसंकटे।
तीव्रम् हि तिमिर सूते सर्वथा मलिनं मनः॥१३॥

नगर्यामतिघोषायां रतिसोमस्य भूपतेः।
कृतज्ञश्चाकृतज्ञश्च पुरा पुत्रौ बभूवतुः॥ १४॥

कृतज्ञः कृपयार्थिभ्यः कल्पवृक्षः इवानिशम्।
निजं विमुच्य प्रददौ रत्नाभरणसंचयम्॥।१५॥

अविभक्तं पितुर्द्रव्यं सर्वं साधारणं तयोः।
वदन्नित्यकृतज्ञ्पोऽपि तेन् अदत्तः जहत् तत्॥१६॥

ततः श्लाध्याय वचसा मतिघोषाभोधो नृपः।
जनकल्यानिकां नाम कृतज्ञाय सुतां ददौ॥१७॥

स्वयमेवार्जितं वित्तं दातुं जातमनोरथः।
आरुरोहम् प्रवहणं कृतज्ञोऽथ महोदधौ॥१८॥

रत्नार्जनोद्यतं यान्तं तं द्वेषस्पर्धितादरः।
तमेवानुययौ लोभादकृतज्ञोऽपि दुर्जनः॥१९॥

संपूर्णं वणिजां सार्थैः ततः प्रवहणं शनैः।
आनुकूल्येन मतुतामवाप द्वीपमीप्सितम्॥२०॥

तस्मिन् प्रतिनिव्ऱ्इत्तेऽथ स्वदेशं गन्तुमुद्यते।
रत्नराशिभिरापूर्णसंक्लपे स्वदेशं गन्तुमुद्यते॥२१॥

कृतज्ञः पृथिवीमूल्यं रत्नानां शतपःञ्चकम्।
आदाय ग्रन्थिपट्टेन बबन्धांशुकपल्लवे॥२२॥

रत्नभारपरिश्रान्तं ततः प्रवहणं महत्।
अभज्यत महावातैरैश्वर्यमिव दुर्नयैः॥ २३॥

ततः फलकवाहस्तं कृतज्ञः प्राप्तजीवितः।
अकृतज्ञं निमज्जन्तं पृष्ठेन समतारयत्॥२४॥

तारितः कृपया भ्रात्रा स घोरमकराकरात्।
अपश्यदञ्चले तस्य रुचिरं रत्नसंचयम्॥२५॥

स तस्य रत्नलोभेन द्वेषेन च वशीकृतः।
समुद्रतीरे श्रान्तस्य भ्रातुर्द्रोहमचिन्तयत्॥२६॥

तस्य निद्रानिलीनस्य शस्त्रेणोत्पाट्य लोचनम्।
गृहीत्वा रत्ननिचयं कृतघ्नः स ययौ जवात्॥२७॥

क्रूऱ्एणाङ्गीकृतस्तेन राहुणेव दिवाकर।
लोकोपकारविहतो दुःखितः सोऽप्यचिन्तयत्॥२८॥

अधुनार्थिप्रदानेऽर्थे व्यर्थीभूते मनोरथे।
किं ममान्धस्य वन्ध्येन जीवितेन प्रयोजनम्॥२९॥

अप्राप्तविषयाः प्राणा न प्रयान्ति यदि क्षयम्।
तदसंगतयो योगाः क्लेशय्न्ति क्ष्यक्षमाः॥३०॥

क्षणे धने जने द्वेषमानवैकल्यविह्वले।
पूज्ये पुंसां समेनैव शेषस्य च यशोव्ययः।३१॥

इति संचिन्त्य स शनैर्व्रजन्सार्थेन तारितः।
अवाप नगरोपान्तं मतिघोषस्य भूपतेः॥३२॥

गोपालभवने तत्र स कंचित्कालमास्थितः।
उद्यानयात्रागतया राजपुत्र्या विलोकितह्॥३३॥

तं दृष्ट्वान्धमपि व्यक्तराजलक्शणलक्षितम्।
प्राग्जन्मप्रेमबन्धेन साभिलाषा बभूव सा॥३४॥

ततः स्वयंवरविधिं सा कृत्वा शासनात्पितुः।
राज्ञां मध्ये च मान्यानां वव्रे विगतलोचनम्॥३५॥

भूमिपालान् परित्यज्य वृतोऽन्धः पापया त्वया।
उक्त्वेति पित्रा कोपेन निरस्ता शुशुभे न सा॥३६॥

उद्याने सा निधायान्धं यत्नेनाहृत्य भोजनम्।
सदा तस्मै ददौ प्रेमप्रणयोपचितादरा॥३७॥

कदाचित्तां चिरायातामाहारावसरे गते।
उवाच राजतनयः परं म्लानाननः क्षुधा॥३८॥

असमीक्षितकारिण्आ त्वया केवलचापलात्।
वृतोऽहमन्धः संत्यज्य नृपान् विपुललोचनान्॥३९॥

पश्चात्तापेन नूनं त्वं मयि पर्युषितादरा।
अधुना ताण्डवं प्रेम्णह् प्रदर्शयितुमुद्यता॥४०॥

अन्धसंदर्शनोद्विग्ना सुरूपालोकनोन्मुखी।
आहारकालेऽतिक्रान्ते चिरेणेह त्वमागता॥४१॥

इत्युक्त्वा परुषं तेन कम्पमाना लतेव सा।
उवाच गुञ्जन्मधुपश्रेणीमधुरवादिनी॥४२॥

नाथ मिथ्यैव मे शन्कां न कोपात्कर्तुमर्हसि।
वाग्बाणपातं सहते न चेतः प्रीतिपेशलं॥४३॥

त्वामेच देवतां जाने यद्यहं शुद्धमानस् आ।
तेन सत्येन सालोकमेकं नयनमस्तु ते॥४४॥

इत्युक्ते सत्त्वशालिन्या तया तस्याशु लोचनम्।
उत्फुल्लकमलाकारमेकं विमलताम् ययौ॥४५॥

तस्याह् सत्यप्रभावेण संजातपृथुविस्मयह्।
सत्यप्रत्ययसोत्साहं कृतज्ञस्तामभाषत॥४६॥

भ्रात्रा तेनाकृतज्ञ्न पाटिते लोचनद्वये।
तस्मिन् विकारो वैरं वा न निकारोऽप्यभून्मम॥४७॥

स्वच्छं तेनास्तु सत्येन द्वितीयमपि लोचनम्।
इत्युक्ते तक्षणेनास्य स्पष्टं चक्षुरलक्ष्यत॥४८॥

अतः कथितवृत्तान्तं कृतज्ञमुचितं पतिम्।
प्रहृष्टा जनकल्याणी गत्वा पित्रे न्यवेदयत्॥४९॥

पूजितः श्वशुरेणाथ स रत्नगजवाजिभिः।
श्रियेव कान्तया सार्धं जगाम नगरं पितुः॥५०॥

स तत्र पित्रा हृष्टेन चरणालीनशेखरः।
जनानुरागसुभगे यैवराज्ये पदे धृतः॥५१॥

अकृतज्ञोऽपि निर्लज्जस्तं प्रसादयितुं शठः।
विचिन्त्य पादपतने तस्य द्रोहं समाययौ॥ ५२॥

उन्मना हन्तुमायातः स तं कुटुलचेष्टितः।
हाहा दग्धोऽस्मि दग्धोऽस्मीत्युक्त्वैव नरकेऽपतत्॥५३॥

स एव देवदत्तोऽसौ कृतज्ञोऽप्यहमेव च।
जन्मान्तरानुबन्धेन द्वेषोऽस्य न निवर्तते॥५४॥

सर्वज्ञभाषितमिति प्रचुरोपकारं
तद्देवदत्तचरितं परितापकारि।
जन्मान्तरोपचितपातकसंनिबद्धं
श्रुत्वा बभूव विमना इव भिक्षुसंघः॥५५॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां
कृतज्ञावदानं पञ्चचत्वारिंशः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project