Digital Sanskrit Buddhist Canon

४४.अजातशत्रुपितृद्रोहावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
४४. अजातशत्रुपितृद्रोहावदानम्।

दुर्जनदुःसहविषधरभीषणतरतिमिरपतितानाम्।
आलम्बनजननं भवभयहरणं जिनस्मरणम्॥१॥

पुरे राजगृहाभिख्ये भगवान् भूभृतः पुरा।
कटके गृध्रकूटस्य विजहार तथागतः॥२॥

तस्मिन्नवसरे राजा बिम्बिसारः सुतप्रियः।
अजातशत्रुणा तत्र पुत्रेण क्रूरकारिणा॥३॥

सुहृदः पावकस्येव देवदत्तस्य संमतम्।
घोरान्धबन्धनागारं निःसंचारं प्रवेशितः॥४॥

पत्न्या प्रवेशितं तस्य बन्धने गूढभोजनम्।
ज्ञात्वा स तत्क्षयाकाङ्क्षी क्षुत्क्षामस्य न्यवारयत्॥५॥

रूक्षः कृशोऽतिमलिनः सोऽभवत् पृथिवीपतिः।
अकालकालमेघार्तः कृष्णपक्ष इवोडुपः॥६॥

संकीर्णवाससंतापात्प्रायः पेशलचेतसाम्।
करोत्यालिङ्गनं प्रौढा गाढप्रणयिनी विपत्।७॥

स समुद्धिश्य शोकार्तः सुगताध्युषितां दिशम्।
कृताञ्जलिर्नतशिराः क्षामस्वरमभाषत॥ ८॥

नामस्तुभ्यं भगवते महार्हाय महार्हते।
दीनोद्धरणसंनद्धसम्यक्संबोधिबोधिचेतसे॥९॥

नमस्ते घोरसंसारमकराकरसेतवे।
जिनाय जनताजन्मक्लेशप्रशमहेतवे॥१०॥

नमो नित्यप्रबुद्धाय सर्वसत्त्वैकबन्धवे।
विशुद्धधान्मे बुद्धाय करुणामृतसिन्धवे॥११॥

इति भक्तिसुधां शिक्त्वा सुगतश्रवणोचिताम्।
पुण्यपुष्पप्रसविनीं स चक्रे स्तुतिमञ्जरीम्॥१२॥

सर्वज्ञस्तस्य विज्ञाय कायक्लेशशमयीं दशाम्।
बन्धनागारविवरालोकैराप्यायनम् व्यधात्॥१३॥

अजातशत्रुस्तद्वृत्तं ज्ञात्वा शङ्काकुलः पितुः।
न्यवारयद्बन्धगृहे सुसूक्ष्मविवराण्यपि॥१४॥

ततस्तस्य तदादेशात् चक्रुर्बन्धनरक्षिणः।
क्षुरेण गाढबद्धस्य पादयोस्तद्विकर्तनम्॥१५॥

स तीव्रवैशसक्लेशव्यथितह् पार्थिवः परम्।
नमो बुद्धाय बुद्धायेत्यार्तसंक्रन्दनं व्यधात्॥१६॥

भगवानथ सर्वज्ञः पुरः प्रत्यक्षतां गतः।
शक्रदत्तासनासीनः कारुण्यात्तमभाषतः॥१७॥

राजन् किं क्रियते क्रूरकर्मणां गतिरीदृशी।
शुभाशुभसमुद्भूतं न भुक्तं क्षियते फलम्॥१८॥

रागद्वेषविषासक्ते नानाव्यसनदुःसहे।
एवंविधैव निःसारे संसारे दुःखसारता॥१९॥

संख़्लेशकलिले काले विपत्संपद्विसंकटे।
धैर्यमेव परित्राणं वैराग्यं च निराकुलम्॥२०॥

संसारघोरगहनान्तरवर्धमानैः
दुःखानलव्यतिकरप्रसृतैरसिक्ताः।
धूमोद्गमैरिव पुनः सुकृतोचितानां
बाष्पाम्बुबिन्दुकलिला न दृशो भवन्ति॥२१॥

भजस्व धैर्यं दुःखेऽस्मिन् भोगाशां त्यज भूपते।
परिणामविरोधिन्यः सर्वाः संसारवृत्तयः॥२२॥

अधुनैव तवासन्ना देहात्ते कुशलस्थितिः।
इत्युक्त्वा तं समाश्वस्य भगवान् स्वपदं ययौ॥२३॥

बिम्बिसारोऽपि देहान्ते तस्मिन्नेव क्षणे दिवि।
अभूज्जिनर्षभो नाम श्रीमान् वैश्रवणात्मजः॥२४॥

अजातशत्रुर्जनकं ज्ञात्वा विगतजीवितम्।
शरीरमस्य सत्कृत्य निनिन्द निजदुष्कृतम्॥२५॥

तस्यातितीव्रपापार्तं चित्तं दुर्वृत्तदूषितम्।
पश्चात्तापाग्निपतनं प्रायश्चित्तमिवाकरोत्॥२६॥

सोऽवदद्बत संमोहादैश्वर्यमदलुब्धधीः।
दुर्वृत्तपातकश्वभ्रे पतितोऽहमधोमुखः॥२७॥

श्रुतप्रज्ञादरिद्राणां निजनिद्रासुखापहा।
चिन्ता दहति गात्राणि खलमन्त्रानुवर्तिनाम्॥२८॥

पतितस्यावसन्नस्य पापपङ्के प्रमादिनह्।
अनालम्बस्य संत्राणं जिनसंस्मरणं मम॥२९॥

इति संचिन्त्य सुचिरं स गत्वा सुगतान्तिकम्।
जुगुप्समानः कुकृतात्परं संकोचमाययौ॥३०॥

तत्रापवित्रमात्मानं मन्यमानः सपत्रपः।
प्रणनाम जिनं दूरात् पापस्पर्शभयादिव॥३१॥

साश्रुनेत्रः परित्राणं स सर्वज्ञं व्यजिज्ञपत्।
सकम्पः कायसंसक्तं विधुन्वन्निव दुष्कृतम्॥३२॥

भगवन् कृतपायोऽहमासन्ननरकानलः।
उत्तप्तः करुणासिन्धुं त्वामेव शरणं गतः॥३३॥

मामियं शोणपर्यन्ता दृष्टिस्ते पुष्करप्रभा॥३४॥

खलमन्त्रप्रवृत्तेन दुर्वृत्तेन प्रमादिना।
मया विभवलुब्धेन पापेन निहतः पिता॥३५॥

इति प्रलापिनस्तस्य वचः श्रुत्वा तथागतः।
ससर्ह तत्पापरजःशुद्ध्यै पुण्यसरस्वतीम्॥ ३६॥

राजन्न चिन्तितः पापः खलेनेव स्वकर्मणा।
प्रेरितस्त्वं पितृवधे पतितः पापसंकटे॥३७॥

दुःखं तत्तेन भोक्तव्यं प्राप्तव्यं किल्बिषं त्वया।
तव तस्य च भूपाल तुल्यैषा भवितव्यता॥३८॥

निजकण्ठसमुत्कीर्णां ललाटपटवर्तिनी।
शिलाशकललेखेव निश्चला नियतिर्नृणाम्॥३९॥

कुर्वता कलुषं कर्म खलप्रेरणया त्वया।
प्रत्यासन्नामृतश्रेयः स्वहस्तेन तिरस्कृतम्॥४०॥

अद्यापि यदि ते पापं हन्तुं प्राप्तुं च संपदम्।
वाञ्छास्ति तत्कुरु मतिं पुण्ये पापशमात्मनि॥४१॥

दीपवृत्त्या सुखं सूते जीवयत्युज्ज्वलं यशह्।
अमृतस्य प्रकारोऽयं सुवृत्तः सत्समागमः॥४२॥

पश्चात्तापाग्नुपातेन साधुना संगमेन च।
संकीर्तनेन दानेन पापं नश्यति देहिनाम्॥४३॥

पात्रं पवित्रयति नैव गुणान् क्षिणोति
स्नेहं न संहरति नैव मलं प्रसूते।
दोषावसानरुचिरश्चलतां न धत्ते
सत्संगमः सुकृतसद्मनि कोऽपि दीपः॥४४॥

गुणिगणविपद्दीक्षादक्षः क्षपाक्षणसंनिभह्
सकलनयनव्यापाराणां जनेषु निरोधकः।
असमविषमायासावासः प्रकाशपरिक्षयात्
सृजति हि महामोहाग्दाढं तमः खलसंगमः॥४५॥

प्रत्येकबुद्धस्त्वं राजन् कालेन क्षीणकिल्बिषः।
भविष्यसि विवेकेन कृतालेकः शनैः शनैः॥ ४६॥

इति तस्य दयाश्वासं चकार बह्गवान् जिनह्।
पतितेष्वधिकं सन्तः करुणास्निग्धलोचनाः॥४७॥

ततः प्रणम्य सुगतं प्रयातः स्वपदं नृपः।
महतः पापभारस्य विवेद लघुतामिव॥४८॥

तस्मिन् प्रयाते सर्वज्ञः पृष्टस्तत्कर्म कौतुकात्।
भिक्षुभिः क्षितिपालस्य पूर्ववृत्तमभाषत॥४९॥

वाराणस्यां निरायासविलासव्यवसायिनः।
चत्वारः श्रेष्ठितनया बभूवुः श्रीविशृङ्खलाः॥५०॥

ते कदाचित् सुखक्षीबा मिथः कलिकथास्थिताः।
प्रत्येकबुद्धमायान्तं ददृशुर्यौवनोद्धताः॥५१॥

तं दृष्ट्वा जातविद्वेषाः शमसंयमनिन्दकाः।
ज्येष्ठः सुन्दरको नाम भ्रातॄन् प्रोवाच सस्मितः॥५२॥

अयं चीवरपात्राङ्कः पानेन गतजीवितः।
क्षिबो विधीयते भिक्षुरित्ययं मे मनोरथः॥५३॥

इत्युक्ते चापलात् तेन द्वितीयः कुन्दराभिधः।
उवाच भिक्षुं क्षिप्त्वेमं हन्तुमिच्छाम्यहं जले॥५४॥

ततस्तृतीयोऽप्यवदत् पापः सुन्दरकाभिधः (?)।
एष भिक्षुर्वरं तस्यां वीथ्यां निक्षिप्यते जवात्॥५५॥

चतुर्थोऽप्यवदत् क्रूरमतिः कन्दरकाभिधः।
भिक्षोः क्षुरेण क्रियते निश्चर्म चरणद्वयम्॥५६॥

इति तेषां ब्रुवाणानां कलुषोऽभून्मनोरथः।
येन जन्मान्तरे प्रापुस्ते स्वेच्छासदृशं फलम्॥५७॥

धनं पश्यति लोभान्धः क्रिधान्धः शत्रुमेव च।
क्ख़ामान्धह् कामिनीमेव दर्पान्धस्तु न किंचन॥५८॥

धनिद्भूतविकाराणां प्रयात्यनियतात्मनाम्।
मदमन्दविचाराणामानन्दः क्लेशबन्धताम्॥ ५९॥

क्रुध्यन्त्यकारणमकारणमुत्पतन्ति
स्निह्यन्त्यकारणमकारणमामनन्ति।
मोहाहताः खलु हिताहितनिर्विचाराः
तृप्ताः परं नृपशवः समदा भवन्ति॥६०॥

ज्येष्ठः श्रेष्ठिसुतः पापात्स एवापरजन्मनि।
शारिर्यानाभिधः शाक्यः पीत्वा मद्यं व्यपद्यत॥६१॥

द्वितीयोऽपि महान्नाम शाक्यस्तोये क्षयं गतः।
तृतीयश्च स्वपुत्रेण व्यस्तो राजा प्रसेनजित्॥६२॥

बिम्बिसारश्चतुर्थोऽसौ धृतः पुत्रेण बन्धने।
प्रयुक्तं धनवत्कर्म भुज्यते हि सवृद्धिकम्॥६३॥

मोहाहतैरिह हि सद्भिरसद्भिरेषां
निःशर्म कर्म सहसैव विडम्ब्यते यत्।
बाष्पाम्बुपूर्णनयनैरनयोपनीतः-
मस्तोकशोकविवशैरनुभूयतेऽत्र॥६४॥

सुगतकथितमेतत् पूर्वजन्मप्रवृत्तं
विषविषमविपाकं बिम्बिसारस्य वृत्तम्।
विबुधसदसि भिक्षुः स्पष्टमाकर्ण्य मेने
व्यसनशतनिमित्तं दूषितं चित्तमेव॥६५॥

इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलताया-
मजातशत्रुपितृद्रोदावदानं नाम चतुश्चत्वारिंशः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project