Digital Sanskrit Buddhist Canon

४२.कनकवर्णावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 42 kanakavarṇāvadānam
४२ कनकवर्णावदानम्।

सत्त्वेन सूर्यरुचयस्तमसि स्फुरन्ति
धर्मेण रत्ननिचया नभसः तपन्ति।
धैर्येण सर्वविपदः प्रशमं व्रजन्ति
दानेन भोगसुभगाः ककुभो भवन्ति॥१॥

भगवान् सुगतः पूर्वं श्रावस्त्यां जेतकानने।
कुशलानां प्रपान्नानां विदधे धर्मदेशनाम्॥२॥

पूर्वकल्पान्तरजने वत्सराष्टायुतायुषि।
श्रीमान् कनकवर्णाख्यो बभूव पृथिवीपतिः॥३॥

कनकाख्या पुरी तस्य शक्रस्येवामरावती।
सर्वलोकेश्वरस्यापि वसतिर्वल्लभाभवत्॥४॥

नायकार्हं यशःशुभ्रं चारुवृत्तगुणोचितम्।
हॄदये यः प्रजाकार्यं मुक्ताहारमिवावहत्॥५॥

प्रजाकर्मविपाकेन पुरे परमदारुणा।
अवृष्टिरभवत् तत्र सर्वभूतभयप्रदा॥ ६॥

सा धैर्यहारिणी सर्वलोकसंतापकारिणी।
अवृष्टिः प्रययौ भूभृन्मानसायासहेतुताम्॥७॥

कुण्ठसर्वप्रतीकारः स चिन्तास्तिमितं पुरः।
उवाच सुचिरं ध्यात्वा प्रधानामात्यमण्डलम्॥८॥

अवर्षोपनिपातोऽयं प्रजानां निष्प्रतिक्रियः।
करोति मे यत्नकृतं निष्फलं परिपालनम्॥९॥

निवृत्तवर्षाः ककुभो भवन्त्यभ्राश्च स्वच्छकाः।
प्रवृत्तबाष्पवर्षाश्च प्रजाः पापेन भूभुजाम्॥१०॥

त्राणं महाभयाद्राजा प्रजानां न करोति यः।
तस्य स्पष्टं नटस्येव किरीटमुकुटग्रहः॥११॥

तदा कॄतयुगं लोके यदा राजा प्रजाहितः॥१२॥

दुर्भिक्षक्षयिताः पृथुतरक्लेशावलीविह्वलाः।
हाहाकारविशृङ्खलाः खलतरैरत्यर्दिता वल्लभैः
शोचन्त्यः प्रलयं प्रयान्तशरणाः पापैर्नृपाणां प्रजाः॥१३॥

तस्मात्समस्तकोषेण रक्षणीया मया प्रजाः।
राज्ञां प्रजापरित्राणपुण्यं रत्नमयो निधिः॥१४॥

इत्युक्त्वा सर्वलोकस्य संचिन्त्य कोष्ठकोषयोः।
स निनाय निजं सर्वं सदा भोग्योपभोग्यताम्॥१५॥

ततः कालेन तस्योग्रदुर्भिक्षेणान्नसंचयः।
ययौ महाव्ययादेकपुरुषाशनशेषताम्॥१६॥

तस्मिन्नवसरे व्योम्ना समभ्येत्य रविप्रभः।
प्रत्येकबुद्धस्तस्याथ विदधे भोजनार्थनाम्॥१७॥

नियमे संशये तस्मिन्नात्मनः प्राणधारणे।
निर्विकल्प्य स ततस्र्वं ददौ तस्मै प्रसन्नधीः॥१८॥

स्वप्राणवृत्तिं तेनासौ कृत्वातिथ्यप्रसादिना।
प्रययौ नबह्सा तस्य प्रसंशन् सत्त्वशील्ताम्॥१९॥

अथोद्ययौ व्यममहाद्विपस्य
नीलालिमालेव सदम्बुलेखा।
मेघावली पश्चिमदिक्प्रलम्बा
कपोलकालागुरुमञ्जरीव॥ २०॥

ततः समस्तं गगनान्तराल-
मुत्फुल्लनीलोत्पलकाननाभम्।
आच्छाद्यमानं सरसैर्बभासे
भृङ्गप्रवन्धौरिव मेघसंघैः॥२१॥

ततः पपाताखिलभोज्यवृष्टि-
रिष्टा प्रजानां भुवि सप्त रात्रीः।
धान्यादिवृष्टिस्तदनन्तरं च
रत्नदिवृष्टिश्च ततः क्रमेण॥२२॥

इति स कनकवर्णः क्ष्मापतिर्भूपतीनां
मुकुटमणिरिवोच्चैर्भ्राजमानः प्रजानाम्।
अकृत सुक्ऱ्इतसंपत्प्रीणितह् प्राणरक्षां
प्रभवति हि परार्थे सज्जनानां प्रभावः॥२३॥

भूपतिः कनकवर्ण एष यः
सोऽहमेव वपुषात्मनाधुना।
इत्युदीर्य भगवान् जिनः सतां
धीमतां व्यधित धर्मदेशनाम्॥२४॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां
कनकवर्णावदानं नाम द्विचत्वारिंशः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project