Digital Sanskrit Buddhist Canon

४१.कपिलावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 41 kapilāvadānam
४१. कपिलावदानम्।

यद्भूपालविशालदानबिभवप्रोद्भूतपुण्याधिकं
दानस्यातिकृशस्य सत्फलभरमप्नोत्यलं दुर्गतः।
शुद्धस्यैव विवृद्धधर्मधवलश्रद्धासमृध्यान्वितं
निःसंसारविजृम्भितं तदुचितं चित्तस्य वित्तस्य च॥ १॥

जिने जेतवनारामविहारिणि महाधनह्।
धीराभिधानः श्रावस्त्यामभूद् गृहपतिः पुराः॥ २॥

तस्य पण्डितनामभूत् पुत्रः सुकृतपण्डितः।
अखण्डितयशःपुण्यदानालंकारमण्डितः॥३॥

स बाल एव भिक्षूणाम् राजार्हैर्वस्त्रभोजनैः।
शारिपुत्रप्रधानानां चकारातिथिसत्क्रियाम्॥४॥

ततः कदाचिदक्षीणादुर्भिक्षक्षयिते जने।
याच्ययाचकतुल्यत्वे पिण्डिच्छेदोऽथिनामभूत्॥ ५॥

भिक्षूणां संकटे तस्मिन् काले परमदारुणे।
पण्डितः सुगताहूतः प्रतस्थे जेतकाननम्॥ ६॥

तं व्रजन्तं तुरङ्गेण काञ्चनादामशोभिनम्।
ऊचुर्विटाः समभ्येत्य गुणोत्साहासहिष्णवः॥ ७॥

अर्थिसार्थार्थनाकल्पवृक्षस्त्वं दिक्षु विश्रुतः।
शतानि पञ्च संप्राप्तास्त्वामुद्दिश्याशया वयम्॥ ८॥

अलंकारांशुकयुगं प्रत्येकं नः समीहितम्।
अधुनैवाविलम्बेन दीयताम् यदि शक्यते॥ ९॥

इत्युक्तस्तैः सदाचारः सोऽवतीर्य तुरङ्गमात्।
साधु पूजां विधायैषां धीमान् क्षणमचिन्तयत्॥ १०॥

भगवन्तमदृष्ट्वैव गच्छामि स्वगृहं यदि।
आसन्नामृतपानस्य तं विघ्नं कथमुतशे॥ ११॥

अदत्वा प्रियमर्थिभ्यो व्रजामि यदि निस्त्रपह्।
कथं करोमि दानस्य तां स्वयं व्रतखण्डनाम्॥ १२॥

इति चिन्तयतस्तस्य भित्त्वा भूमिं समुद्गतः।
नागराजः स्वयं शेषः प्रादादर्थिसमीहितम्॥ १३॥

दत्तानि नागराजेन वस्त्राण्याभरणानि च।
स तेभ्यः प्रतिपाद्याशु ययौ निःशल्यतामिव॥१४॥

तेऽपि दृष्ट्वा तदाश्चर्यं पुण्यां सुगतभावनाम्।
सर्वार्थसंपत्सिद्धीनां जननीमेव मेनिरे॥ १५॥

जातचित्तप्रसादास्ते तेनैव सहितास्ततः।
भगवन्तं ययुर्द्रष्टुं विनष्टद्वेषकल्मषाः॥ १६॥

भगवन्तमथालोक्य कुमारः प्रणताननः।
तत्पादपद्मरजसा धन्यश्चक्रे ललाटिकाम्॥ १७॥

हारं पुनश्चरणयोः शास्तुः शशिकरोज्ज्वलम्।
विन्यस्य प्रणतानग्रे स तानस्मै न्यवेदयत्॥१८॥

धर्मदेशनया तेषां भगवान् ज्ञानवज्रभृत्।
भित्त्वा सत्कायदृष्ट्यद्रिं स्रोतःप्राप्तिफलं व्यधात्॥१९॥

दृष्टसत्येषु यातेषु ततस्तेषु प्रणम्य तम्।
कुमारंपण्डितं प्रीत्या भगवान् स्वयमभ्यधात्॥२०॥

वत्स पुण्यैरवाप्तोऽसि पर्याप्तिं सुकृतश्रियाम्।
दुर्भिक्षेस्वपि भिक्षूणां कुरु भोज्याधिवासनाम्॥ २१॥

परिग्रहो मे भिक्षूणां शतान्यर्हत्रयोदश।
अन्ये चान्विष्य कृच्छ्रार्ताः संविभज्यास्त्वया पुरे॥ २२॥

इति श्रुत्वा भगवतः पण्डितः प्रमदाकुलः।
भक्त्या संघस्य विदधे यावज्जीवं निमन्त्रणम्॥२३॥

ततः स्वगृहमभ्येत्य राजार्हैभिक्षुसंमतैः।
संबुद्धप्रमुखं संघं सदा भोज्यैरपूजयत्॥२४॥

दरिद्रानदरिद्रांश्च याच्यानपि च याचकान्।
अनुकम्प्यान् स विदधे दानेनान्यानुकम्पिनह्॥ २५॥

शेषान् कृपणसंघातान् सोऽन्विष्य करुणाम्बुधिः।
रत्नराशिं ददौ तेभ्यो दौर्गत्यतिमिरापहम्॥२६॥

स रत्ननिकरस्तेषां जगामाङ्गारराशिताम्।
नृणां भाग्यानि रत्नानि मणयः प्रस्थजातयः॥ २७॥

ते तमूचुः समभ्येत्य स्वप्नदृष्टधना इव।
रत्ननाम्ना त्वयास्माकं स दत्तोऽङ्गारसंचयः॥ २८॥

धनलाभेन महता सद्यः प्राप्तोन्नतिर्जनह्।
तत्संक्षयात् क्षणेनैव परिभ्रष्टो न जीवति॥ २९॥

इति तेषां वचः श्रुत्वा पण्डितः करुणानिधिः।
तानूचे पुण्यदीनानां रत्नान्यायान्त्यरत्नताम्॥ ३०॥

युष्माभिर्न कृतः पूर्वं मोहात् सुकृतसंचयः।
तेनायं रत्नराशिर्वः प्रयातोऽङ्गारसारताम्॥३१॥

रत्नानि यत्ननिहितान्यपि यान्ति दूरं
पुण्यक्षयादुपनयन्ति च भाग्ययोगात्।
वित्तार्जनं पतितशोकनिमित्तमेव
वित्तं हि चित्तमुचितं सुकृतप्रवृत्तम्॥ ३२॥

तस्माद् भवद्भिर्भोज्याय भिक्षुसंघोऽधिवास्यताम्।
भोगसंभारसंपत्तिमहं संपादयामि वः॥ ३३॥

इत्युक्तास्तेन तद्दत्तवित्तभोजनसंपदा।
ते बुद्धप्रमुखं संघं दिनमेकमपूजयन्॥ ३४॥

संघं यथावदभ्यर्च्य प्रणीधानमकारि तैः।
म् आकदाचन दारिद्य्रं स्यादस्माकमिति क्षणम्॥३५॥

ततस्ते पण्डितगिरा गत्वा ददॄशुरग्रतः।
तमेवाङ्गारनिकरं प्रयातं रत्नराशिताम्॥ ३६॥

भवने पण्डितस्याथ कुमारस्य प्रभवतः।
विवृतानां निधानानां निर्विघ्नं शतमुद्ययौ॥ ३७॥

स प्रसेनजिते राग़्ये धर्मज्ञः स्थितिरक्षणात्।
ददौ निधानषड्भागं स चास्याङ्गारतामगात्॥३८॥

कुमारस्यैव सुकृतैर्भोग्योऽयं निधिसंचयः।
इत्यन्तरीक्षाद्वचनं ततः शुश्राव भूपतिः॥ ३९॥

कुमारस्यैव वचसा तान्निधीन्निर्धितां पुनः।
प्राप्तां विलोक्य साश्चर्यः प्रहिणोत्तद्गृहं नृपः॥४०॥

ततस्तदखिलं वित्तं वितीर्य विपुलाशयः।
कुमारः संपदां चक्रे स्थितिं दुर्गतवेश्मसु॥४१॥

अथ निःसारसंसारविचारविरतस्पृहः।
अनित्यतां स संचिन्त्यः दीरः पितरब्रवीत्॥४२॥

अनुजानीहि मां तावत् गन्तुं तात पतोवनम्।
इमा जन्मशतोच्छिष्टाः क्लिष्टा मम विभूतयः॥४३॥

त्रैलोक्यसंपत्संप्राप्तिर्यस्मिन् व्रजति भोग्यताम्।
तदिदं सर्वभूतानामायुर्भाजनमल्पकम्॥४४॥

शीते यस्य करोमि संततमृदुस्पर्शांशुकौर्गूहनं
संतापे रचयामि यस्य शिशिरश्रीखण्डचर्चार्चनम्।
यस्यार्थे विषशस्त्रवह्निभुजगव्रातात्परं मे भयं
प्राप्तः सोऽप्यमपायतः परिहृतेऽप्यायाति कायः क्षयम्॥४५॥

भोगाद्विरक्तः प्रव्रज्यामादाय दयितां वने।
विहरामि हरन् चिन्तां चिन्तातप्तस्य चेतसः॥४६॥

इत्युक्त्वा स परित्यज्य विषयस्नेहबन्धनम्।
कृताभ्युपगमः पित्रा शारिपुत्राशमं ययौ॥४७॥

तत्र प्रव्रजितस्तेन पात्रपाणिः सचीवरः।
तस्यैवानुचरो भूत्वा विचचार यतव्फ़तः॥ ४८॥

स दृष्ट्वा कर्षकैर्धारां क्षेत्रात् क्षेत्रप्रवर्तिताम्।
निर्दिष्टेन पथा यान्तीं विस्मयादित्यचिन्तयत्॥४९॥

अहो विहितमार्गेण गच्छतामप्यचेतसाम्।
जलानां कर्मसंसिद्धर्दृश्यते नतु देहिनाम्॥५०॥

संचिन्त्येति व्रजन्नग्रे दृष्ट्वा यष्टीकृतं शरम्।
प्रतप्तमिषुकारेण प्रदध्यौ धीमतां वरः॥५१॥

तापात् प्रगुणतामेते यान्ति निश्चेतनाः शराः।
न तु संसारसंतप्ता अपि वक्राः शरीरिणः॥५२॥

इति ध्यायन् विलोक्याग्रे तक्ष्णा शकटचक्रताम्।
नीतानि दृढरूपाणि पुनश्चिन्तां समाययौ॥५३॥

अहो नु घटनायोगाद् यान्ति कर्मण्यतां क्षणात्।
निश्चेतनानिद् आरूणि न चित्तानि शरीरिणाम्॥५४॥

इत् चंचिन्त्य संयातः सुधर्मनियमादरः।
वत्सलं पितरं पुत्र इवाचार्यमुवाच सः॥ ५५॥

आर्य एव प्रयात्वद्य पिण्डपाताय मत्कृते।
अहं तु भवतादिष्टं चिन्तयामि निजव्रतम्॥५६॥

इत्युपाध्यायमभ्यर्थ्य भक्तकृत्याय पण्डितः।
तस्मिन् याते तदादिष्टं विहारागारमाविशत्॥५७॥

तत्र यष्टीकृततनुः कृत्वा प्रतिमुखीं स्मृतिम्।
स प्रदध्यौ निजं धर्मं बद्धपर्यङ्कनिश्चलः॥५८॥

तस्मिन् समाधिसंनद्धे वसुधा सधराधरा।
विचचालाखिलाम्भोधिजललोलदुकूलिनी॥५९॥

शक्रस्तं ध्याननिरतं ज्ञात्वा निर्विघ्नसिद्धये।
दिदेश दिक्षु रक्षायै दिक्पालान् सेन्दुभास्करान्॥६०॥

भगवानथ सर्वज्ञस्तस्य सिद्धिमुपस्थिताम्।
पाकात् कुशलमूलानां ज्ञात्वा क्षणमचिन्तयत्॥६१॥

आसन्नार्हत्पदस्यास्य शारिपुत्रः समेत्य चेत्।
द्वारमुद्धाटयेन्मध्ये विघ्न एष न संशयः॥ ६२॥

तस्मादागच्छतस्तस्य गत्वा स्वयमहं पुरः।
करोमि कालहाराय नानाप्रश्नाश्रयाः कथाः॥६३॥

इति संचिन्त्य भगवान् स्वयं तद्दिशमागतः।
भिक्षोरागच्छतस्यस्य व्ज्लम्बं कथयाकरोत्॥६४॥

सुरप्रभावान्निःशब्दे नभोगतविहंगमे।
लोके निर्वातदीपस्य तुल्यतां प्राप पण्डितः॥६५॥

स्रोतः प्राप्तिफलादूर्ध्वं सकृदागाम्यवाप्य सः।
अनागामिफलं प्राप्य ततोऽर्हत्फलमाप्तवान्॥६६॥

ततः कथान्ते सुगते प्रयाते निजमाश्रमम्।
शारिपुत्रः प्रविश्यर्कमिव शिष्यं व्यलोकयत्॥६७॥

तं दृष्ट्वा सहसोत्तीर्णं विशीर्णभवबन्धनम्।
सिद्धिं युगशतप्राप्यां तस्य ताम् प्रशशंस सः॥६८॥

तां तस्यार्हत्पदप्राप्तिं श्रुत्वा जगति विश्रुताम्।
भिक्षुभिर्भगवाण् पृष्टस्तत्कथामब्रवीज्जिनह्॥६९॥

भगवान् काश्यपः पूर्वं वाराणस्यां तथागतः।
सह भिक्षूसहस्राणां विंशत्या पुरवासिभिः॥७०॥

श्रद्धाप्रणीतैः शुचिभिः सर्वभोग्यैर्मनोनुगैः।
उवास पूजितह् कंचित् कालं सत्त्वहितोद्यतः॥७१॥

भिक्षुपूजापरे तत्र वर्तमाने गृहे गृहे।
अचिन्त्ययद्विनिःश्वस्य दुर्गतो नाम दुर्गतः॥७२॥

धिङ् मामतीव दारिद्य्रात् नीचं निष्कुशलक्रियम्।
नैकोऽपि मन्दभाग्येन येन भिक्षुर्निमन्त्रितः॥७३॥

त्याज्या जनस्य सकलव्यवहारबाह्याः
वाक्यप्रमाणपदसंधिषु नैव योग्याः।
नष्टक्रिया विगतकारकतर्कहीनाः
शब्दा इवार्थरहिताः पुरुषा भवन्ति॥ ७४॥

इति चिन्तानलाक्रान्तं निन्दितं धनहीनतः।
तं समाहूय कोऽप्येत्य सुकृतप्रेरकोऽभ्यधात्॥७५॥

क्षीणार्थेनापि भवता जन्मान्तरशुभाप्तये।
यथाकथंचिदेकोऽपि भिक्षुः किं न निमन्त्रितः॥७६॥

इत्युक्तस्तेन संसक्तशल्यः पुनरिवाहतः।
भिक्षुभोजनवैकल्यात् स भृधं व्यथितोऽभवत्॥७७॥

कथंचित्क्ष्ःउत्परिक्षामः स गत्वा श्रेष्ठिमन्दिरम्।
यत्नेन प्राप मूल्यांशं दारुपाटनकर्मणा॥७८॥

कृत्वा तत्रैव तद्भार्या शुद्धतण्डुलखण्डनम्।
तदंशभृतिमूल्याप्तं भक्त्या भर्त्रे न्यवेदयत्॥ ७९॥

समुद्यतस्य तस्याथ भिक्षुभोजनसिद्धये।
शुद्धये शुद्धसत्त्वस्य शक्रोऽभूदनुसाधकह्॥८०॥

दिव्यवर्णरसामोदे भोज्ये शक्रेण साधिते।
प्रीत्या प्रच्छन्नरूपेण भिक्षुं लेखे न दुर्गतः॥८१॥

विभूतिमोहितैर्गूढैः पूर्वं पुरनिवासिभिः।
संघे निमन्त्रिते दुःखात् दुर्गतो मर्तुमुद्ययौ॥८२॥

कृपया तस्य भगवान् स्वयमभ्येत्य काश्यपः।
शुद्धिसिद्धिं परिज्ञाय चक्रे भोज्यप्रतिग्रहम्॥८३॥

अहोऽहं भवतो भोज्यं प्रयच्छामीति भूभुजा।
प्रयत्नात् प्रार्तितोऽप्यर्थं नैवामन्यत दुर्गतः॥८४॥

गुणद्रविणसंपूर्णः स्यां दरिद्रप्रसादनः।
भगवन्तमथाभ्यर्च्य प्रणीधानं चकार सः॥८५॥

स्वाश्रमं काश्यपे याते सुरेन्द्रे च दिवं गते।
दुर्गतस्य गृहं सर्वं दिव्यरत्नैपूरयत्॥८६॥

विश्वकर्मा ततस्तस्य विदधे शक्रशासनात्।
भवनं रुचिरोद्यानं रत्नस्तम्भविभूषितम्॥८७॥

संप्राप्तविमलैश्वर्यः सहितं सर्वभिक्षुभिः।
सप्ताहं विभवैर्भोगैः स काश्यपमपूजयत्॥८८॥

क्षुत्क्षामाङ्गनमर्थिभिः परिहृतद्वारं रुदद्दारकं
गेहं निश्चलकज्जलान्यपि स्थलीकोणस्वनन्मक्षिकम् (?)।
चुल्लीसुप्तबिडालबालमपरं यस्याभवद्रौरवं
श्रीस्तस्यैव नृपस्पृहास्पदतयाश्चर्यं न कस्य स्वयम्॥८९॥

तेन दानप्रभावेण सुधाशुद्धेन दुर्गतः।
जन्मान्तरे पण्डिततामवाप्यार्हत्त्वमागतः॥९०॥

इति पण्डितपूर्वजन्मवृत्तं
कथितं सर्वविदा गुणादरेण।
अवधार्य विशुद्धदानपुण्यं
कुशलार्हं प्रशशंस भिक्षुसंघः॥९१॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां
कपिलावदानं नामैकचत्वारिंशः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project