Digital Sanskrit Buddhist Canon

४०.उद्रायणावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
४०. उद्रायणावदानम्।

तुल्यमेव पुरुषेण भुज्यते
कायभाजनगतं शुभाशुभम्।
देहिनां विविधकर्मजं फलं
न ह्यभुक्तमुपयाति संक्षयम्॥१॥

भगवान् सुगतः पूर्वं पुरे राजगृहाभिधे।
कलन्दकनिवासाख्ये विजहार वनान्तरे॥ २॥

बिम्बिसारः क्षितिपतिस्तत्राभूद्विश्रुतः श्रिया।
आकरः सरव्रत्नानां रत्नाकरम् इवापरः॥ ३॥

बभूव समये तस्मिन् रौरुकाख्ये पुरे नृपः।
श्रीमानुद्रायणो नाम यशश्चन्द्रमहोदधिः॥ ४॥

तस्य चन्द्रप्रभा नाम पत्नी चन्द्राननाभवत्।
शिखण्डी युवराजश्च सूनुर्विक्रमकर्कशः॥ ५॥

हिरुको भिरुकश्चेति तस्यामात्यौ बभूवतुः।
गणनीयौ न विनये ययुः शुक्रबृहस्पती॥ ६॥

जाता भूमिभुजः प्रीतिर्लेखखत्विषस्तयोः।
रवेर्दूरस्थितस्यापि कमलाकरयोरिव॥ ७॥

अपूर्वरत्ननिचयप्रेषणैर्बहुशस्तयोः।
परिपूर्णं परं प्राप सख्यं प्रेम विधानतः॥ ८॥

दूरस्थापि परं प्रीतिः सतां कीर्तिरिवाक्षया।
संसक्तापि खलप्रीतिस्तृणज्वालेव न स्थिरा॥ ९॥

कदाचिद्दिव्यरत्नाङ्कं कवचं काञ्चनोज्ज्वलम्।
प्राहिणोद् बिम्बिसाराय सारमुद्रायणो नृपः॥ १०॥

विषह्सस्त्राग्निरक्षार्हं विचित्ररत्नकं च तत्।
सुहृत्प्रेषितमादाय प्रोवाच सचिवान् नृपः॥ ११॥

इदं मे प्रहितं तेन सौजन्यमिव भूभुजा।
सर्व रक्षाक्षमं वर्म गाढप्रेमनिवेदकम्॥ १२॥

न पश्याम्यस्य सदृशं प्रतिदेयं तथाधिकम्।
अल्पप्रतिक्रिया शल्यमुपकारापकारयोः॥१३॥

उचितं चिन्त्यतां किंचित् प्रेषणीयमतोऽधिकम्।
सर्वैर्भद्भिरित्युक्त्वा नॄपश्चिन्ताकुलोऽभवत्॥ १४॥

अथ धीमान् महामात्यश्चिरं ध्यात्वा तमब्रवीत्।
वर्षकाराभिधो विप्रः सर्वविद्यासु पारगः॥ १५॥

अतो बहुगुणं रागन्नेकमेवास्त्युपायनम्।
तस्य संप्रेषने यत्नः क्रियतां यदि शक्यते॥ १६॥

य एष भगवान् बुद्धः स्थितस्त्वद्विषयान्तिके।
देवानामादरस्थानं पटस्तत्प्रतिमान्वितः॥ १७॥

अशेषलोककल्याणकलिकाकल्पपादपः।
चित्रे स्वप्नेऽथ संकल्पे पृथुपुण्यैः स दृश्यते॥ १८॥

इति मन्त्रिवचः श्रुत्वा तथेत्युक्त्वा महीपतिः।
गत्वा भगवते नम्रस्तमेवार्थं न्यवेदयत्॥ १९॥

अनुज्ञातस्ततस्तेन नृपश्चित्रकरान् वरान्।
आदिदेशाशु भगवत्प्रतिमोल्लेखकर्मणि॥ २०॥

जिनस्यालोकयन्तस्ते मूर्ति रूपव्शीकृताः।
ययुः प्रमाणग्रहणे प्रगल्भा अप्यशक्तताम्॥ २१॥

संक्रान्तां निमलपटे छायां भगवतस्ततः।
सुवर्णभावनाभिख्यां ते शनैः समपूरयन्॥ २२॥

प्राःइणोदथ भूपालस्तं बुद्धप्रतिमापटम्।
जगन्नयनपुण्यानां मूर्तानामिव संचयम्॥ २३॥

बिम्बिसारस्य हस्ताङ्कलेखामुद्रायणो नृपः।
पटस्य पुरतः प्राप्ताम् हृष्टः स्वयमवाचयत्॥ २४॥

सुगतचरणपद्मन्यासपुण्योपकण्ठात्
त्रिदशपुरविशेषान्मागधोदाररदेशात्।
कुशलकलितमूर्तिर्भूपतिर्बिम्बिसारः
क्षितितलतिलकं त्वां धर्मबन्धुर्ब्रवीति॥ २५॥

एतत्ते प्रहितं हितं भवमहामोहामये भेषजं
राजद्वेषविषापहं भगवतो बिम्बं शशाङ्कत्विषः।
तृष्णापच्छमनं प्रसन्नमधुरं त्वन्नेत्रपात्रार्पितं
धन्यः पुण्यरसायनं पिब हठादाकण्ठमुत्कण्ठितः॥ २६॥

सन्मार्गे विनियोजनं स्गुणगणाधाने सदाध्यापनं
दुर्व्यापारनिवारणम् थिरसुखप्राप्तौ परिप्रेरणम्।
निर्व्याजोपकृतौ निरन्तरतया सर्वात्मना वर्तनं
कर्तव्यं किमतः परं प्रियहितं कल्याणमित्रैः सताम्॥ २७

इति लेखार्थमास्वाद्य सुऱ्त्प्रेमामृतोचितम्।
राजा गजाधिरूढस्य पटस्य प्रययौ पुरः॥ २८॥

अभिनन्द्य तमानन्दात् सामात्यः सपुरोहितः।
हेमसिंहासनोत्सङ्गे स प्रसार्य न्यवेशयत्॥ २९॥

लावण्यपुण्यनिलयं दृष्ट्वा तत्सौगतं वपुः।
नमो नमह् प्रबुद्धायेत्यवदजगतीजनः॥ ३०॥

बुद्धाभिधानं श्रुत्वैव पुलकालंकृताकृतिः।
पुष्पवर्षे सुरैर्मुक्ते विस्मितोऽभून्महीपति॥ ३१॥

पुण्यं भगवतः श्रुत्वा स तत्र चरितामृतम्।
पयोदानादसोत्कण्ठनीलकण्ठतुलां ययौ॥ ३२॥

द्वादशाङ्गं पटस्याध सानुलोमविपर्ययम्।
प्रतीत्यसमुत्पादं च दृष्ट्वा मोहं मुमोच सः॥ ३३॥

स्रोतःप्राप्तिफलेनैवं दृष्टसत्योऽथ भूपतिः।
दिदेश प्रतिसंदेशं सख्युर्भिक्षुर्विसर्जनैः॥ ३४॥

बिम्बिसारस्ततस्तस्मै कृत्वा भगवतोऽर्थनाम्।
कात्यायनं च व्यसृजत् शैलाख्याम् चापि भिक्षुणीम्॥ ३५॥

उद्रायणस्य नॄपतेरार्यः कात्यायनोऽथ सः।
पूजाविधायिनस्तत्र विदधे धर्मदेशनाम्॥ ३६॥

धर्मदेशनया तस्य संगतः सुमहान् जनः।
स्रोतःसकृदनागामिफलार्हत्पदमाप्तवान्॥ ३७॥

तस्मिन् गृहपती ख्यातौ तिष्यपुष्याभिधौ पुरे।
शान्त्यै प्रव्रज्य तस्याग्रे परिनिर्वृतिमापतुः॥ ३८॥

कालेन विहितै स्तूपौ देहान्ते ज्ञातिभिस्तयोः।
तन्नामचिह्नावद्यापि वन्दन्ते चैत्यवन्दकाः॥ ३९॥

देव्याश्चन्द्रप्रभायाश्च शलाख्या सापि भिक्षुणी।
क्रमेणान्तःपुरे चक्रे सततं धर्मदेशनाम्॥ ४०॥

कदाचिदथ भूपालह् क्रीडगारगतां प्रियाम्।
तामज्ञासीन्निमित्तज्ञः सप्ताहावधिजीविताम्॥ ४१।

ज्ञातसंसारचरितस्ततस्तां वशुधाधिपः।
अनुजज्ञे शुभपदं प्रातुं प्रव्रज्यया पुरः। ४२॥

स्वाख्याते धर्मविन्मये भिक्षुक्या नृपतेर्गिरा।
देवी प्रव्रजिता देहं दिने तत्याज सप्तमे॥ ४३॥

चातुर्महाराजिकेषु देवेषु सहसैव सा।
प्रयाता देवकन्यात्वं जगाम जिनकाननम्॥ ४४॥

तत्र पूर्णेन्दुवदना दिव्याभरणभूषिता।
दृष्ट्वा शाक्यमुनिं हृष्टा सा पपातास्य पादयोः॥ ४५॥

प्रकीर्णदिव्यपुष्पायास्तस्याश्चक्रे तथागतः।
धर्मोपपादनं येन दृष्टसत्या जगाम सा॥ ४६॥

सा गत्वा नगरं पत्युर्व्योम्ना मूर्तिरिवैन्दवी।
विबोध्य निशि सुप्तस्य चक्रे बोधिप्रकाशनम्॥ ४७॥

यातायां स्वपदं तस्यां प्रभाते वसुधाधिपः।
प्रव्रज्याभिमुखः पुत्रमभिषिच्य शिखण्डिनम्॥ ४८॥

प्रजात्राणाय निक्षिप्य तं महामात्ययोस्ततः।
नृपतेर्बिम्बिसारस्य सुहृदः स ययौ पुरम्॥ ४९॥

बिम्बिसारस्तमायातं विगतच्छत्रचामरम्।
नृपोपचारैः प्रणतः प्रीतिपूतैरपूजयत्॥ ५०॥

विश्रान्तमासनासीनं स तमूचे सविस्मयः।
हृष्ठः संदर्शनेनास्य श्रीवियोगेन दुःखितः॥ ५१॥

राजन्ननन्तसामन्तमौलिविश्रान्तशासनः।
पाकशासनतुल्यस्त्वं कथमेवमुपागतः॥ ५२॥

अभिन्नवक्र्क्रप्रकृतेर्गुप्तमन्त्रस्य धीमतः।
परेण राज्यहरणं वीर संभाव्यते न ते॥ ५३॥

इति पृष्टः स सुहृदा सस्मितस्तमभाषत।
राजन् वृद्धिविभूतिर्मे न प्रिया सर्वगामिनी॥ ५४॥

विषयास्वादवैमुख्याद् वितृष्णेन मया स्वयम्।
उत्सृष्टमिव संत्यक्तमैश्वर्यं भोगभाजनम्॥५५॥

त्वया कल्याणमित्रेण सुगतप्रतिमापटः।
योऽसौ हिताय प्रहितः स् अवैराग्यगुरुर्ममः॥ ५६॥

अधुना त्वत्प्रसादेन गत्वा भगवतोऽन्तिके।
इच्छाम्यवाप्तुं प्रव्रज्यामगारादनगारिकः॥ ५७॥

इति सख्युर्वचः श्रुत्वा तत्तथेति विचिन्त्य च।
सादरस्तद्विवेकेन बिम्बिसारस्तमब्रवीत्॥ ५८॥

धन्यो बहुमतश्चासि सतां त्वं पृथिवीपते।
कथं संसारविमुखी जाता ते मतिरीदृशी॥ ५९॥

संतोषविभवो भोगसुभगः शोभसे परम्।
लक्षणं शुद्धसत्त्वानां वैराज्याभरणं मनह्॥ ६०॥

किं साम्राज्यमहौजसा सरजसा दुःसाधनैः साधनैः
किं भोगैः क्षणभोजनैः कुलषदैः किं सत्त्वदुःखैः सुखैः।
संसारोपरमाय चेतसि सतां जन्मान्तरोपार्जितं
वैराग्यं कुरुते पदं यदि महामोहप्ररोहापहम्॥ ६१॥

येन प्राणमनःप्रिया वसुमती संत्यज्यते लीलया।
त्रैलोक्याभिमतेऽपि यः स्मरसुखे वैमुख्यदीक्षागुरुः।
संमोहव्य्सनातुरं जगदिदं येनानुकम्पास्पदं
पुण्यैः कोऽपि स जायते मतिमतां संसारवामः शमह्॥ ६२॥

इत्युक्त्वा बिम्बिसारस्तं नीत्वा वेणुवनाश्रमम्।
सप्रणामं भगवते तद्वृत्तान्तं न्यवेदयत्॥ ६३॥

उद्रायणोऽपि सुगताकारं सुचिरचिन्तितम्।
विलोक्य हर्षादात्मानं कृतकृत्यममन्यत॥ ६४॥

पर्णामव्यग्रशिरसा संसारच्छेदिनि तनौ।
पपात भगवद्दृष्टिस्तस्य प्रव्रज्यया सह॥ ६५॥

भिक्षुभावमथासाद्य पात्रपाणिः स चीवरी।
नगरे पिण्डपातार्थी चकार जनविस्मयम्॥ ६६॥

प्रजाः शिखण्डी धर्मेण पालयित्वा प्रसन्नधीः।
यातः कालेन कालुष्यमधर्माभिरतोऽबह्वत्॥ ६७॥

कलुषं काञ्चनरुचिव्यक्तविद्युद्विलासिनी।
न कस्य कुरुते लक्ष्मीर्मेघमालेव मानसम्॥ ६८॥

अनायत्तं महामात्यौ हिरुको भिरुकश्च तम्।
अधर्मकर्मनिरतं क्रुद्धौ तत्यजतुः प्रभुम्॥ ६९॥

तत्पदे विहितौ राज्ञा सचिवौ दण्डमुग्दरौ।
चित्तानुवृत्तिकुशलौ स्वैरं सक्तं तमूचतुः॥ ७०॥

प्रजारञ्जनसंसक्ता राजदौर्जन्यवादिनः।
स्वयशःख्यापनायैव जायन्ते धूर्तमन्त्रिणः॥ ७१॥

न धर्मं न सुखं नार्थं न कीर्ति न च जीवितम्।
गणयन्ति प्रभोरर्थे ते भृत्या भव्यभक्तयः॥ ७२॥

नाखण्डिता नाक्षयिता नातप्ता नाप्यपीडिताः।
कुर्वन्त्यर्थक्रिया राज्ञस्तिलतुल्याः किल प्रजाः॥ ७३॥

इति ब्रुवाणौ तौ राज्ञा नियुक्तौ राज्यचिन्तने।
लोभात् प्रवृत्तौ दुर्नीतौ हन्तुं निःशरणाः प्रजाः॥ ७४॥

निर्विचारे दुराचारे कुमतौ पृथिवीपतौ।
लुप्तसत्ये महामात्ये प्रजानां जीवितं कुतः॥ ७५॥

उद्रायणोऽथाचिरेण कदाचिद् वणिजंपथि।
निजदेशागतं वार्तां पप्रच्छ नृपराष्ट्रयोः॥ ७६॥

सोऽवदद्देव कुशली सुतस्तव महीपतिः।
किं तु सन्मन्त्रिरहितः कुमन्त्रिवशमागतः॥ ७७॥

तत्र प्रजानां विततोपतापः
कोऽपि प्रवृत्तः प्रभुशासनेन।
येनाद्य तत्कुत्सितदेशजन्म
दिवानिशं शोचति पौरलोकः॥ ७८॥

यत्र ध्वान्तं सृजति तरणिर्यत्र चन्द्रोऽग्निवर्षी
यत्रोदेति प्रकटममृतादुत्कटः कालकूटः।
यत्र त्राता हरति नृपतिर्जीववृत्तिं प्रजानां
तत्राक्रन्दं प्रसॄतविपुलोपप्लवं कः शृणोति॥ ७९॥

इत्यासक्तनृपायासखिन्नस्यार्तिमयं वचः।
दुःसहं वणिजः श्रुत्वा स तमूचे कृपानिधिः॥ ८०॥

दद्गिरा त्वमितो गत्वा तूर्णमाश्वासय प्रजाः।
स्थापयिष्याम्यहं धर्मे स्वयमेत्य शिखण्डिनम्॥८१॥

इत्युक्तस्तेन सानन्दः स्वदेशं शनकैर्वणिक्।
गत्वा प्रजानां विदधे स्वैरमाश्वासनं पुरः॥ ८२॥

प्रवादे प्रसृते तस्मिन्नमात्यौ दण्डमुद्गरौ।
अतीतभूपागमनत्रस्तौ भूपतिमूचतुः॥ ८३॥

सर्वत्र श्रूयते देव प्रवादः साधुनिन्दितः।
वृद्धः प्रव्रजितो राजा राज्यार्थी यत्नवानिति॥ ८४॥

तीव्रव्रतपरिक्लिष्टः संभोगाभिमुखादरः।
लज्जां प्रव्रज्यया सार्धं त्यक्त्वा स पुनरेष्यति॥ ८५॥

राजन्नपक्कवैराग्यास्त्यजन्ति सहसैव यत्।
तत् पूर्वाभ्यधिकं तेषां प्रयाति प्रियतां पुनः॥ ८६॥

लोकस्थितिविरुद्धेषु विषयेषु विशेषतः।
स्पृहा संजायते जन्तोरपथ्येष्विव रोगिणः॥ ८७॥

सुखोत्सेकात्परित्यक्तं प्रहस्तमुपागतम्।
प्रायः सर्वं भवत्येव जडस्याम्रमिव प्रियम्॥ ८८॥

तस्माद्भवन्तमुत्सार्य प्रतापनिधिमासनात्।
क्षीणः शशीव स्थविरः स राज्यं भोक्तुमिच्छति॥ ८९॥

चीवरोद्विग्नगात्रस्य वरवस्त्राभिलाषिणः।
जातास्य मुण्डिते मूर्ध्नि रत्नाङ्कमुकुटस्पृहा॥ ९०॥

रत्नहर्म्येषु नवतासंभोगविभवोद्भवम्।
त्यक्त्वा विलासमायासं वनवासं सहेत कः॥ ९१॥

मृदुशयनसुखार्हा ये कथं शेरते ते
हरिणखरखुरोद्यत्कत्कण्टकासु स्थलीषु।
मधु विधुकरशीतं यैर्निपीतं कथं ते
वनजगजमदोष्णं तिक्तमम्भः पिबन्ति॥ ९२॥

अधुनैव तवासन्नप्रवेशविषमस्थितेः।
आद्यंमतं न्यायविदां राजपुत्र निपातनम्॥ ९३॥

तस्मादनागतो राजा पूर्वं वध्यस्तव प्रभो।
दीपं हन्ति पतङ्गो हि न दग्धश्चेत्समापतन्॥ ९४॥

तयोरिति गिरा क्षिप्रमभूद् भूपतिराकूलः।
खलमेघैः कलुषतां नीतं कस्य न मानसम्॥ ९५॥

स तौ बभाषे साशङ्कः क्रकचक्रूरतां गतः।
बाधः साधारणश्चायं युवयोर्मम चाग्रतः॥ ९६॥

भवद्भ्यामेव विनयोपायविश्रान्तया धिया।
विचार्य कार्यतात्पर्यं यद् युक्तं तद्विधीयताम्॥ ९७॥

इति राज्ञा कृतोत्साहौ तौ विसृज्याशु घातकान्।
उद्रायणस्याग्रपथं वधायैव बबन्धतुः॥ ९८॥

सोऽपिप्रज्ञापरित्राणे नियोक्तुं पुत्रमुद्यतः।
भगवन्तं समभ्येत्य व्रजामीति व्यजिज्ञपत्॥ ९९॥

सर्वज्ञेनाभ्यनुज्ञातः स्वकृतं भुज्यतामिति।
कर्मपाशसमाकृष्टः स ययौ रोरुकं पुरम्॥ १००॥

तस्माद्व्रजन्तं निर्व्याजमाचारमिव दुर्जनाः।
दुष्टामात्यप्रयुक्तास्ते जग्नुर्वर्त्मनि घातकाः॥ १०१॥

तस्य चावरपात्रादीन् गृहीत्वा निहतस्य ते।
व्यदेवयन् कृतं प्रीत्यौ राजाकार्यममात्ययोः॥ १०२॥

ततः पापप्रहृष्टाभ्यां नृपस्ताभ्यां प्रदर्शितम्।
दृष्ट्वा मुमोह सहसा रक्ताक्तं चीवरं पितुः॥ १०३॥

स लब्धसंज्ञः शनकैः शुशोच न तथा गुरुम्।
यथा पतितमात्मानं घोरे नरकगह्वरे॥ १०४॥

सोऽवदद्वत्स संप्राप्तं फलं खलजनान्मया।
ऐश्वर्यमधुलुब्धेन पापपातमपश्यता॥ १०५॥

अहो बत निरालम्बे घोरे नरकसंकटे।
उन्नतारोहिणां सद्यः पातकं खलसंगतम्॥ १०६॥

कृतमेतन्महत्पापं दुष्टामात्यधिया मया।
पतितस्य ममेदानीं पावकोऽपि न पावकह्॥ १०७॥

तुल्यं पितुश्चार्हतस्य वधे का मम निष्कृतिः।
पीतं यत्र मयैकस्मिन् पात्रे सदहनंविषम्॥ १०८॥

वृद्धे पितरि निःसङ्के शमं प्रव्रज्ययाश्रिते।
स्वचित्त निशितं शस्त्रं लोभाद्व्यापारितं मया॥ १०९॥

यत्संचिन्तितमेव कम्पजनकं श्रोतुं नयत् शक्यते
दृष्टं यच्च करोति शोककलनां निश्चेतनानामपि।
यत्र क्रैर्यमपि प्रयाति मृदुतां तीव्रानुतापाग्निना
तत्रापि प्रसरन्ति निर्घृणधियाम् निस्त्रिंशतीक्ष्णाः क्रियाः॥ ११०॥

इत्युक्त्वा दुःकह्संतप्तः प्रलापमुखराननः।
न्यवारयत्तयोः कोपात्प्रवेशं दुष्टमन्त्रिणोः॥ १११॥

गुणान्तरं परिज्ञाय भिरुकं हिरुकं च सः।
आनिनाय प्रसाद्याशु पुराणौ सचिवौ पितुः॥ ११२॥

ततश्चिन्ताकृशे राज्ञि शोकात् पाण्डुरताम् गते।
स्वैरं तज्जननीमेत्य दुष्टामात्याववोचताम्॥ ११३॥

देवि त्वतनयः श्रीमान् स्वभावसरलाशयः।
राज्यरक्षां न जानाति स्वजनोच्छेदकर्कशाम्॥ ११४॥

पिता प्रव्रजितोऽप्यस्य राज्यं हर्तुमुपागतः।
आवाभ्यां प्रशमं नीतस्तत्र का नाम वाच्यता॥ ११५॥

नीचतन्त्रोपपन्नश्चेत् क्रमोऽयमशुभक्रमः।
राज्याभिलाषिणो भिक्षोस्तस्यापि स कथं क्रमः॥ ११६॥

आवां पितृवधक्रिधाद् वारितौ भूभुजा पदात्।
स्वयमद्यापि शोकेन किं मिथ्या परिशुष्यते॥ ११७॥

सुकृतं कृतमावाभ्याम् प्रभोर्दुःखकृशाङ्गता।
भवन्ति सर्वभावेषु भृज्या एवापराधिनः॥ ११८॥

गतं शोचति किं राजा यत्कृतं कृतमेव तत्।
उपेक्ष्यते त्वया देवि कस्माच्चिन्ताकृशः सुतः॥ ११९॥

ताभ्यामित्युदितं श्रुत्वा सा राजजननी शनैः।
ऊचे तरलिका नाम तद्वाक्यविहितादरा॥१२०॥

आनन्तर्यमिदं कर्म द्वयोर्नरकपातकम्।
युष्मन्मतादुपनतं राज्ञः पूर्वकृतेन वा॥१२१॥

अहं तु वारयाम्यस्य शोकं पितृवधोद्भवम्।
अर्हद्वधोद्भवं दुःखं भवद्भ्यामपि वार्यतां॥ १२२॥

इति तौ स्वैरमादिश्य सा गत्वा पार्थिवान्तिकम्।
तमुवाच शुचाक्रान्तं परिक्षीणमिवोडुपम्॥१२३॥

धर्माधर्ममयं पुत्र राज्यं राज्ञां बहुच्छलम्।
पापानां शङ्कया तस्मिन् किं शुचा परिशुष्यसि॥१२४॥

पितुर्वधात् प्रतप्तोऽसि यदि नाम गुरुप्रियः।
तत्रोच्यते समुत्सृज्य लज्जां त्वद्दुःखसंकटे॥१२५॥

स्वैरं जातस्त्वमन्येन न स तद्धर्मतः पिता।
स्वेच्छाहारसुखाः पुत्र स्त्रियो हि निरपत्र्पाः॥ १२६॥

इत्यप्रियमपि श्रुत्वा राजा तद्वचनं रहः।
पितृवैशसपापोग्रदुःखसंतापमत्यजत्। १२७॥

प्रकुर्वन्त्यस्ताद्रेरुदयगिरिणा क्लेशकलनां
क्षणात् क्षोणीक्ष्माभृद्विघटनवोनोदं विदधति।
सृजन्त्येता वह्निं सपदि सलिलात्तच्च दहना-
दशाध्यं नारीणां न हि भवति किंचित्र्त्रिभुवने॥ १२८॥

अथ सोऽर्हद्वधेनैव शल्यतुल्येन पीडितः।
नृपः पप्रच्छ धर्मज्ञान्निष्कृतिं तस्य कर्मणः॥ १२९॥

ततस्तौ दुष्टसचिवौ तिष्यपुष्याख्यचैत्ययोः।
मार्जारपोतौ धृत्वान्तःसक्तावामिषशिक्षया॥ १३०॥

निषिद्धावपि धाष्टर्येन प्रविश्य नृपतेः सभाम्।
तमूचतुस्तीव्रतापसंतापप्रशमार्थिनम्॥ १३१॥

देव मिथ्यैव भवता चित्तमायास्यते भृशम्।
सर्वकल्याणा लोकेऽस्मिन् नार्हन्तः सन्ति ते मताः॥ १३२॥

यदि सत्यं भवेयुस्ते नभसो राजहंसवत्।
ऋद्धिमन्तः कथं तेषामन्येन वधसंभवः॥ १३३॥

न सन्ति तस्मादर्हन्तः कुतस्तद्वधपातकम्।
सीमाविवादः कस्तत्र् यत्र ग्रामो न विद्यते॥ १३४॥

तिष्यपुष्यौ गृहपती यावर्हत्पदमापतुः।
मार्जारावन्तरे जातौ तावेवाद्य् अस्वचैत्ययोः॥ १३५॥

प्रकटौ तौ च दृश्येते प्रत्यक्षं कस्य संशयः।
प्रत्ययो यदि नास्त्येव स्वयं किं न निरीक्ष्यते॥ १३६॥

इत्युक्त्वा भूपतेः कृत्वा खलौ दोलाकुलं मनः।
जग्मतुः सहितौ तेन चैत्यसंदर्शनाय तौ॥ १३७॥

अपूर्वकौतुकावेशात् तत्र संघटिते जने।
विलोकनोद्यते राग़्यो सामात्ये दुष्टमन्त्रिणौ॥ १३८॥

आमिषाभ्याससंबद्धतिष्यपुष्याभिधानयोः।
धूर्तौ चक्रतुराह्वानं शनैर्बालबिडालयोः॥ १३९॥

तौ तिष्यपुष्यावर्हन्तौ मार्जारौ स्थो युवां यदि।
प्रदक्षीणं वा क्रियतां तेन सत्येन चैत्ययोः॥ १४०॥

मांसदानक्षणे ताभ्यामिति वाचमुदीरितौ।
तूर्णं निर्गत्य मार्जारौ चक्रतुस्तौ प्रदक्षिणम्॥१४१॥

तद्दृष्ट्वा सहसावाप्तप्रत्यये सानुगे नृपे।
याते दुर्जनमायैव जगज्जयमहीं ययौ॥ १४२॥

मुष्टौ वायुं दृषदि कमलं चित्रमाकाशदेशे
जिह्वाग्रे च प्रचुररचनासृष्टिसंहारलीलाः।
किं वा नान्यत् पशुशिशुधियां मोहनायेन्द्रजालं
मूर्तं धुर्ताः क्षणपरिचितप्रत्ययं दर्शयन्ति॥ १४३॥

निष्प्रत्ययपरो राजा ततः सौगतदर्शने।
आर्यकात्यायनस्याग्रे श्रद्धापूजामवारयत्॥ १४४॥

राजधान्यां निषिद्धोऽथ बहिरेव ससानुगः।
विनेयकृपया तत्र तस्थौ शैला च भिक्षुणी॥ १४५॥

ततः कदाचिदायान्तं दृष्ट्वा कात्यायनः पुरः।
नृपतिं जनसंपातादवमानभयाद् ययौ॥ १४६॥

प्रेषितं पूर्वमन्त्रिभ्यां व्रजन्तमवलोक्य तम्।
दुष्टामात्यौ नरपतिं दीऱ्घवैराववोचताम्॥ १४७॥

राजन्नमङ्गलनिधिर्मुण्डोऽयं विशिरः पथि।
दृष्टोऽद्य भिक्षुरस्माभिर्न विद्मः किं भविष्यति॥ १४८॥

न पश्यामि मुखं राज्ञः पापस्येति भणत्यसौ।
तथा हि क्षणमेकान्ते गत्वा दूरमितः स्थितः॥ १४९॥

श्रुत्वैतद्दुर्जनामर्षादुवाचानुचरान् नृपः।
एष दूरस्थितः पांशुमुष्टिभिः पूर्यतामिति॥ १५०॥

पूर्यमाणः स तैः पांशुमुष्टिभिर्दुष्टचेटकैः।
दिव्यां कुटीं प्रवेशेन परिहाराय निर्ममे॥ १५१॥

अमर्षकोपिताः सर्पाः व्याघ्रा वा पीतलोहिताः।
शान्तेरायान्ति मृदुतां नत् उ भूपतिचेटकाः॥ १५२॥

ततः प्रयाते नृपतौ पांशुराशिशतावृतम्।
दुःखादूचतुरभ्येत्य हिरुको भिरुकश्च तम्॥ १५३॥

आर्य कृच्छ्रमवाप्तोऽसि राज्ञा क्रूरेण दुष्कृतैः।
लोचनानि धिगस्माकं यैरिदं दृश्यते पुरेः॥ १५४॥

मोहान्धः पातकश्वभ्रे दुर्जनैः पातितो नृपः।
कर्मणो वयमप्यस्य दर्शनात् पापभागिनः॥ १५५॥

भूरियम् भूरिपापार्ता त्याज्या प्राज्यमतेस्तव।
दुःसहः खलसंवासः त्यागः कस्य न संमतः॥ १५६॥

प्रयाति न शमः शमं क्षयमुपैति नैव क्षमा
भवन्ति न च बुद्धयः परुषरोषदोषस्पृशः।
वसन्ति न विमानना मनसि शल्यतुल्याः सतां
न दुष्टजनवर्जनादपरमास्ति लोके सुखम्॥ १५७॥

ऐश्वर्यं गुणिनामधोनिपतनायासप्रयासप्रदं
गाम्भीर्यं तिमिराकारं प्रविशतां प्राणापहं प्राणिनाम्।
नष्टा सापि निकृष्ट्दुष्ट्कुटिलव्यालैरुपादेयता
कूपस्येव खलस्य नास्ति तदहो दोषालियुक्तं यतः॥ १५८॥

तयोरिति वचः श्रुत्वा महाकात्यायनोऽवदत्।
न निकारेऽपि मे कोपः कर्मणो गतिरीदृशी॥ १५९॥

एतावदेव मे दुःखं यन्मूढस्य महीपतेः।
खलसंगमदोषेण भयं महदुपस्थितम्॥ १६०॥

प्रथमे हि महावायुः पुरेअस्य निपतिष्यति।
द्वितीये पुष्पवृष्टिश्च वस्त्रवृष्टिस्ततः परे॥ १६१॥

रूप्यवृष्टिश्चतुर्थे च हेमवृष्टिश्च पञ्चमे।
रत्नवृष्टिस्ततः षष्ठे पांशुवृष्टिश्च सप्तमे॥ १६२॥

तया सबन्धुराष्ट्रोऽसय् न भविष्यति भूपतिः।
तस्माद् भवद्भ्यां गन्तव्यं रत्नान्यादाय भूयसे। १६३॥

इति तद्वचनं श्रुत्वा विनिश्चित्य तथेति तौ।
हिरुकः श्यामकं पुत्रं तस्योपस्थापकं व्यधात्॥ १६४॥

भिरुकश्च सुतां श्यामावतीमादाय पाणिना।
अभ्येत्य भिक्षुकीं शैलां प्रणयादिदमब्रवीत्॥ १६५॥

आर्ये भवत्या मे कन्या घोषिलस्य गृहप्रभोः।
गृहे समर्पणीयेयमासन्नप्रतिपन्नया॥ १६६॥

एवमुक्त्वार्पयित्वा तावमात्यौ जग्मतुर्गृहम्।
शैलापि कन्यामादाय प्रययौ घोषिलालयम्॥ १६७॥

ततः क्रमेण तदभूद्यथोक्तं भिक्षुणा पुरे।
ज्ञानदीपवती प्रज्ञा यथातत्त्वं हि पश्यति॥ १६८॥

षष्ठेऽह्नि रत्नवर्षेऽथ पतिते रत्नपूरिताम्।
ययतुर्नावमादाय तावमात्यावलक्षितौ॥ १६९॥

तौ दक्षिणां दिशं गत्वा चक्रतुर्नगरद्वयम्।
हिरुको हिरुकाख्यानं भिरुकाख्यं तथापरः॥ १७०॥

परेऽह्नि पांशुवर्षेणमहता पतता नृपः।
सबन्धुराष्ट्रः प्रलय्ं प्रययौ नरकातिथिः॥१७१॥

सदण्डिमुद्गरे राग़्यि याते किल्बिषशेषताम्।
तं मन्त्रिपुत्रमादाय व्योम्ना कात्यायनो ययौ॥ १७२॥

तमेवानुगता प्रीत्या नभसा पुरदेवता।
तदाग़्यया खवचनीकर्वटे विदधे स्थितिम्॥ १७३॥

भिक्षुपुण्यानुभावेन भाग्यैर्मन्त्रिसुतस्य च।
अधिष्ठानेन देव्याश्च श्रीमत्तदबह्वत् पुरम्॥ १७४॥

तत्राथ देवता चक्रे चैत्यं कात्यायनस्य सा।
सुरवत्यां यदद्यापि वन्दन्ते चैत्यवन्दकाः॥ १७५॥

मन्त्रिसूनुमथादाय लग्नं चीवरकर्णिके।
लम्बनं स ययौ व्योम्ना देशं कात्यायनः परम्॥ १७६॥

लम्बते लम्बते कोऽयमित्युक्ते विस्मयाज्जनैः।
बभूवुस्ते जनास्तत्र लम्बका इति विश्रुताः॥ १७७॥

अत्रान्तरे दिवं याते तत्रापुत्रे महीपतौ।
स कृतः श्यामको राजा लक्षणज्ञिस्तदाज्ञया॥ १७८॥

गत्वा भोक्कानकं नाम दिशा कात्यायनस्ततः।
जनन्यास्तत्र संशुद्धां विदस्धे धर्मदेशनाम्॥ १७९॥

सा दृष्टसत्या पुत्रस्य यष्टीमादाय सादरम्।
वन्द्यमाद्यपि महती यष्टिचैत्यमकारयत्॥ १८०॥

श्रावस्तीमथ सोत्कण्ठः प्राप्य कात्यायनः शनैः।
जिनं विलोक्य सानन्दश्चक्रे तत्पादवन्दनम्॥ १८१॥

उद्रायणसुतकथाम् तत्र तेन निवेदिताम्।
आकर्ण्य भिक्षुभिः पृष्टः सर्वग़्यस्तानभाषत॥ १८२॥

लुब्धकह् कालपाशाख्यः निदधे वागुराम् पुरः॥ १८३॥

यन्त्रं पाशावृतं दत्वा याते तस्मिन् यदृश्छया।
प्रत्येकबुद्धस्तं देशं प्राप्य विश्रान्तिमाप्तवान्॥ १८४॥

तस्य पुण्यानुभावेन बन्धं न विविशुर्मृगाः।
न हि शुद्धात्मनामग्रे प्राप्नोत्यकुशलं जनह्॥ १८५॥

लुब्धकोऽपि ततोऽभ्येत्य पाशानालोक्य निर्मृगान्।
प्रत्येकबुद्धं क्रोधान्धो विषदिग्धेषुणावधीट्॥ १८६॥

तस्य सायकविद्धस्य ज्वलज्ज्वलनतेज्सः।
प्रभावमद्भुतं दृष्ट्वा पादयोर्निपपात सः॥ १८७॥

अकार्यकरणोद्वेगसंतापादथ लुब्धकः।
निनिन्द शोचन्नात्मानं संत्यज्य शरवागुराः॥ १८८॥

परिनिर्वाणमाप्तस्य तस्यास्थीनि निधाय सः।
छत्रध्वजादिसंभारैः स्तूपं चक्रे सदार्चितम्॥ १८९॥

लुब्धकस्तेन पुण्येन बभूवोद्रायणो न्ऱ्इपः।
वधात् प्रत्येकबुद्धस्य बहुशो वधमाप्तवान्॥ १९०॥

नन्दनाम्नो गृहपतेर्मदलेखाभिधा सुता।
बभूव धनधन्यादिस्फूतिः कर्वटवासिनः॥ १९१॥

सा कदाचिन्मदोत्सिक्ताः गृहमार्जनरेणुभिः।
प्रत्येकबुद्धमायान्तं पथि मोहादवाकिरत्॥ १९२॥

तस्मिन्नेव दिने तस्याश्चिरचिन्ताभिरर्थितः।
वरः स्तनभरार्ताया वरणार्थी समाययौ॥ १९३॥

मूध्नि प्रत्येकबुद्धस्य पांशुमुष्टिनिपातनात्।
प्रत्यासन्नविवाहाहमिति भ्रातरमाह सा॥ १९४॥

ततस्तस्याह् प्रवादेन चिक्षिपुर्वरणाप्तये।
मूर्ध्नि प्रत्येकबुद्धस्य रजांसि प्रौढकन्यकाः॥ १९५॥

गुणाकारप्रवृत्तेन प्रययेन विमोहिताः।
निर्विचार्य प्रवर्तन्ते विरुद्धेष्वपि वस्तुषु॥ १९६॥

प्रवृत्तपातकाचारे तस्मिन् बुद्धबुधाभिधौ।
निवारणं गृहपती कर्मणस्तस्य चक्रतुः॥ १९७॥

सैव कन्या नरपतिः शिखण्डी पापभागभूत्।
प्रवादकर्ता तद्भ्राता भिक्षुः कत्यायनोऽप्ययम्॥ १९८॥

जातौ गृहपती रूढदुष्टाचारनिवारणात्।
पुरिपतापान्निर्मुक्तौ हिरुको भिरुकश्च तौ॥ १९९॥

इति भगवतः श्रुत्वा वाक्यं विचार्य च भिक्षवः
फलपरिणतिं ज्ञात्वा चित्राम् शुभाशुभकर्मणाम्।
खलजनवचस्तुल्यं शत्रुं विचारसमं गुरुं
सुकृतसदृशं बन्धुं लोके न किंचन मेनिरे॥ २००॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलताया-
मुद्रायणावदानं चत्वारिंशः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project