Digital Sanskrit Buddhist Canon

३९.कपिलावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
३९. कपिलावदानम्।

अत्यन्तमुन्नतिमतां महतां विनाश-
दोषस्य दुर्जनसमागम एव हेतुः।
कूलद्रुमाः किल फलप्रसवैः सहैव
सद्यः पतन्ति जलसंगतिभिन्नमूलाः॥१॥

रुचिरागारशालिन्याम् वैशाल्यां भगवान् पुरा।
वल्गुमत्यास्तटे नद्या विचचार तथागतः॥ २॥

तस्याः कैवर्तसर्थेन गम्भीरेऽम्भसि दुस्तरे।
कदाचिद् घोरमकरः क्षिप्त्वा जालं समुद्धृतः॥ ३॥

अष्टादशशिराः सिःसद्विरप्रखराननः।
नृणां सहस्रैराकृष्टः पर्वताकारविग्रहः॥ ४॥

तं दृष्ट्वा तत्र वित्रस्ताह् स्रस्ताकर्षणरज्जवः।
आश्चर्यनिश्चलदृशो न तस्थुर्न ययुः क्षणम्॥ ५॥

गणनां गहनाश्चर्यविशेषशतशालिनाम्।
संसारे कर्मवैचित्र्ये विकाराणां करोति कः॥६॥

अत्रान्तरे तमुद्देशं भगवान् भूतभावनः।
जिनह् समाययौ सर्वजनत्राणकृतक्षणह्॥ ७॥

सवृद्धबालललनं जनं कौतुकसंगतम्।
दृष्ट्वा तत्राकरोत्तीरे भगवानासनग्रहम्॥८॥

भिक्षुसंघैः परिवृतं दृष्ट्वा तत्र तथागतम्।
जनोऽभूदुन्मुखः सर्वः प्रत्यावृत्तः इवोदधिः॥ ९॥

तं विलोक्यैव विनताः कैवर्ताः प्राणिबन्धनम्।
विशालजालं सहसा संसारमिव तत्यजुः॥ १०॥

मत्स्यकुम्भीनक्रादिसंसारं तद्गिराम्भसि।
त्यक्त्वा ते विरताटोपा बभूवुः किल्बिषद्विषः॥ ११॥

तैर्न्यस्तं भगवान् दृष्ट्वा महाकमरमग्रतः।
तं जगाद सृजन् दन्तकान्त्यैव करुणानदीम्॥ १२॥

अपि त्वं कपिलः पुत्र किं न् अस्मरसि दुष्कृतम्।
वचोदुश्चरितस्यायं परिपाकोऽनुभूयते॥ १३॥

साप्यकल्याणमित्रं ते जननी क्काद्य वर्तते।
सर्वज्ञेनेत्यभिहितः स्मृत्वा जातिमुवाच सः॥ १४॥

विभो भवामि कपिलः स्मरामि निजदुष्कृतम्।
वचोदुश्चरितस्यायं परिपाकोऽनुभूयते॥१५॥

याता मे नरकं माता नरकादेशिनी पुरा।
इत्युक्त्वा मकरस्तत्र रुरोद परुषस्वरम्॥ १६॥

तं शोकसागरे मग्नं बभाषे भगवान् पुनः।
अकाले किं करोम्यद्य तिर्यग्योनिगतस्य ते॥ १७॥

अपुण्यप्रारम्भे रभसहसितोल्लासविहिते
प्रमत्तानां याते नरकपरिपाकप्रणयिताम्।
अशान्तेः संतापं रुदितशरणानि प्रतिनिशं
भृशं क्लेशावेशैर्दिशति विषतुल्यैरनुशयः॥ १८॥

क्षणं दुःखक्षयायैव मयि चित्तं प्रसादय।
प्रसन्नमानसः काले यास्यसि त्रिदशालयम्॥ १९॥

शृणु वत्स हितं चेदं विचार्य कुरु चेतसि।
अनित्याः सर्वसंस्काराः शान्तिनिर्वाणमक्षयम्॥ २०॥

इत्याज्ञयाः भगवतस्तस्मिन् याते प्रसन्नताम्।
जनसंघः स सुचिरं बभूवाश्चर्यनिश्चलः॥ २१॥

आर्यानन्दः प्रणयिना जनेनाभ्यर्थितस्ततः।
तत्पूर्ववृत्तं पप्रच्छ भगवन्तं कृताञ्जलिः॥ २२॥

स तेन पृष्टः प्रोवाच विमपज्ञानलोचनः।
अस्याकुशलशीलस्य वृत्तान्तः श्रूयतामयम्॥ २३॥

भद्रकाख्ये पुरा कल्पे वर्षायुतयुगायुषि।
जने बभूव भगवान् कल्पशाल इवार्थिनाम्।
अभवत् समये तस्मिन् वाराणस्यां बहुप्रदः॥ २५॥

कदाचिद्विबुधास्थाने सहस्राक्षमिवापरम्।
आसीनं वादिसिंहाख्यस्तं विद्वानाययौ द्विजः॥ २६॥

अविलम्बितसंप्राप्तदर्शनासनसत्कृतिः।
स दत्ताशीर्नरपतिं शिष्यश्रेणिवृतोऽभ्यधात्॥ २७॥

स्वस्ति स्वस्तिमते बुधाधिपसभासीनाय तुभ्यं विभो
लुब्धाः सच्चरितामृते तव परं संदर्शने रागिणः।
सद्वेषाः परभूपनाम्नि मुखरास्ते सुद्गुणोदीरणे
कस्मात्सर्वगुणाश्रयेण भवता दुषैर्वयं योजिताः॥ २८॥

यद्याचका अपि निरन्तररत्नवर्षे
नानार्थिसार्थपरिपूरकताम् प्रयान्ति।
सर्वं भवानुपमपुण्यनिधे वदान्य
निर्दैन्यदानविभवस्य विजृम्भितं ते॥ २९॥

राजन् किंचित्परिचितगुणैः सेवया सद्गुरुभ्यः
प्राप्तोऽस्माभिर्विबुधविजयी कोऽपि विद्यांशलेशः।
अस्यां विद्वत्कमलभरसौम्यप्रभायां सभायां
तस्योत्कर्षं कतिपयपदं प्रत्ययं दर्शयामः॥ ३०॥

निजगुणगणने धीर्लज्जते सज्जनानां
मुखरयति तथापि प्रौढवादाभिलाषः।
इयति जगति राजन् क्षिप्रमान्विष्यताम् मे
प्रतिवचनरुचिशेदस्ति कश्चिद्विपश्चित्॥ ३१॥

संदर्भगर्भगम्भीरमिति तस्योत्कटं वचः।
श्रुत्वा क्षितिपतिः क्षिप्रं विलक्षः समचिन्तयत्॥ ३२॥

अप्राप्तप्रतिमल्लोऽयं यदि यायान्मदोद्धतः।
तदेष मम् अदेशस्य यशःखण्डनदिण्डिमः॥ ३३॥

गुणापमानकृद् यत्र मूर्खो भवति भूपतिः।
न करोति जनस्तत्र विद्यार्जनपरिश्रमम्॥ ३४॥

विवेकविमलालोके धर्मारामे महीपतौ।
लोके विद्याः प्रवर्तन्ते सदाचारक्रिया इव॥ ३५॥

तस्मादस्य प्रयत्नेन कर्तव्यो मदनिग्रह।
विद्यादरिद्रता देशे दोष एव विशांपतेः॥ ३६॥

इति संचिन्त्य नृपतिर्विप्रं कर्वटवासिनम्।
आनिनाय महामत्यैरन्विषय विदुषां गुरुम्॥ ३७॥

अभूभृत्सभामुपाध्याय प्रेत्य तं तर्ककर्कशम्।
चकार वादिसिंहस्य दर्पकेसरकर्तनम्॥ ३८॥

तस्य तेन जितस्याशु विजिताशेषवादिनः।
मौनसूत्रं समापेदे लज्जितेव सरस्वती॥ ३९॥

आरूढाः शुभ्रमहसं नक्षत्राणामिवोदयाः।
उपर्युपरि दृश्यन्ते गुणोत्कर्षा मनीषिणाम्॥ ४०॥

वादिसिंहं विसृज्याथ दत्वा भूरि धनं नृपः।
ददौ द्विजाय जयिने कर्वटं नगरोपमम्॥ ४१॥

लब्धराजगजाश्वोऽथ चरुकेयूरकङ्कणः।
उपाध्यायः स्वभवनं प्रविवेश सह श्रिया॥४२॥

भुजैर्जिता भूमिभुजां वणिजां सागरार्जिताः।
विद्यावतां विराजन्ते गुणोत्कर्षर्जिताः श्रियः॥ ४३॥

काळेन श्रीमतस्तस्य पुत्रजन्मोत्सवोऽभवत्।
सुखेऽपि सुखसंपत्तिर्लक्षणं पुण्यकर्मणाम्॥ ४४॥

कपिलो नाम स शिशुस्तेजःपिङ्गशिरोरुहः।
वर्धमानमतिर्विद्वान् पितुरभ्यधिकोऽभवत्॥ ४५॥

कुले महति वैदुष्यं विभवोद्भवः।
विभवे सत्सुतोत्कर्षः फलं सुकृतशाखिनः॥ ४६॥

कदाचिद्व्याधिसंयोगात्प्रत्यासन्नतनुक्षयः।
विजने पुत्रमाहूय सोऽवदत् पुत्रवत्सलः॥ ४७॥

बाल्ये गुणार्जनं पुत्र परलोकसुखार्जनम्॥ ४८॥

उत्तमर्ण इव प्राप्ते काले सुगणितावधौ।
अधुना विवशः क्काहं क्क सा विद्या क्क तद्धनम्॥ ४९॥

गुणपुष्पे सुखफले बद्धमूले धनैर्जने।
वने वज्र इवाकालकालः पततिः दुःसहः ॥ ५०॥

क्षपयति सकलाभिर्जन्म विद्याकलाभिः
क्षणिकसुखनिमित्तं संनिधत्ते च वित्तम्।
पशुशिशुषु मनुष्यः प्रीयते मोहशिष्यः
तनुविरहमूर्हूर्ते सर्वमन्यत् स चान्यः॥ ५१॥

इदं तु ते हितं वच्मि स्नेहमोहवशीकृतः।
संसारसारशरणं वत्स वेत्सि बहुश्रुतः॥ ५२॥

सन्तः प्रणम्याः परुषण् न वाच्यं
कार्यः प्रयत्नेन परोपकारः।
पापावपाते सततं हि पुंसा-
मेतानि पुण्यान्यवलम्बनानि॥ ५३॥

अलोभशोभाभरणा विभूति-
रद्वेषसक्तिः स्वसुखेष्वमोहः।
मूलत्रयेऽस्मिन् कुशलद्रुमस्य
वसत्यशेषाखिलसत्फतश्रीः॥ ५४॥

यावत्तपति तीक्ष्णांशुरस्मिन् भुवनमण्डले।
तावत्त्वत्सदृशः पुत्र विद्वान् वादी न विद्यते॥ ५५॥

भिक्षुभिस्तु न कर्तव्यस्त्वया वादः कदाचनह्।
गम्भीरज्ञानदुर्बोधप्रबुद्धा बौद्धबुद्धयः॥ ५६॥

पुरा भिक्षुर्मया पृष्टः पदस्यार्थं जहास माम्।
प्रश्नं कर्तुं न जानीषे विद्वानिति जगाद च॥ ५७॥

तस्माद् भिक्षुविवादस्ते परं पाण्डित्यपीडनम्।
बलप्रभावकामो हि गिरिं मूर्ध्नां न ताडयेत्॥ ५८॥

इत्युक्त्वा तनयं विप्रः परलोकभुवं ययौ।
कायावसथपान्थानां देहिनाम् न चिरस्थितिः॥ ५९॥

वाग्मी कालेन कपिलः खण्डिताखिलपण्डितः।
नृपाद्बहुग्र्णं प्राप धनमानमहोदयम्॥ ६०॥

ततः कदाचिदेकान्ते कपिलं काचराभिधा।
संप्राप्तं वादिसाम्राज्यं जगाद जननी शनैः॥ ६१॥

वादिदर्पच्छिदा पुत्र दिग्द्वीपजयिना त्वया।
दुर्जनाः श्रमणाः कस्माद्दर्पान्धाः परिवर्जिताः॥ ६२॥

परोत्कर्षाधिरूढस्य प्रतिपक्षे क्षमारतेः।
अक्षमोऽयमिति व्यक्तं क्षणेन क्षीयते यशः॥ ६३॥

इति मातुर्वचः श्रुत्वा सोऽवदद् बिदुषो वचः।
न वादः श्रमणैः कार्यः पित्राहमिति वारितः॥ ६४॥

इयं दुर्जीविकास्माकम् पत्रालम्बनवादिनाम्।
क्रियते गुणमान्यानां मानम्लानिर्मुखे यया॥६५॥

धिगेतच्चण्डपाण्डित्यं गुरुविद्वेषदुःसहम्।
महतां सुखभङ्गाय सदा तस्मिन् समुद्यमः॥ ६६॥

यस्यां न मया सा बुद्धिः सा श्रीर्लोभं निहन्ति या।
दर्पो न यस्य विद्या सा शक्तिर्या च क्षमावती॥ ६७॥

एवमेव न कर्तव्यः परैर्विद्वेषविग्रहः।
किं मातर्जगताम् पूज्यभिक्षुभिः ख्यातलक्ष्मभिः॥ ६८॥

विजेतुं न च ते शक्याः प्रंआनपरिनिष्ठिताः।
प्रतिपक्षैरविक्षिप्तं येषां नैरात्म्यशासनम्॥ ६९॥

इति पुत्रवचः श्रुत्वा कुपिता तमुवाच सा।
अभूत्तव पिता नूनं पापश्रमणचेतकः॥ ७०॥

महति ब्राह्मणकुले जातः प्राज्ञो बहुश्रुतः।
भिक्षपक्षे निपतितः कथं त्वमपि तादृशः॥ ७१॥

पृथुप्रमाणखङ्गेन कुरु श्रमणनिग्रहम्।
अविदार्याभ्रसंघातं तीर्क्ष्णांशुर्न विराजते॥ ७२॥

इत् स प्रेरितो मातुर्गिरा तद्भक्तियन्त्रितः।
भिक्षूणामाश्रमपदं शनैर्गन्तुं समुद्ययौ॥ ७३॥

व्रजन् स संमुखायातं भिक्षुं जिज्ञासया पथि।
ग्रन्थसारं प्रमाणं च पप्रच्छ समयोचितम्॥ ७४॥

स तेन पृष्टः प्रोवाच गाढशब्दार्थनिर्णयम्।
लक्षत्रयप्रमाणं न शस्त्रं तीर्थिकदुर्लभम्॥ ७५॥

कुतः पारेऽतिवर्तन्ते क्क च वर्त्मातिवर्तते।
सुखदुःखे च लोकस्य क्कचित् समभिबन्धतः॥ ७६॥

इति गम्भीरशब्दार्थं शास्तुर्भगवतो वचः।
अनुपासितसर्वज्ञैर्ज्ञायते न यथा तथा॥ ७७॥

एतदाकर्ण्य कपिलः श्लोकगाम्भीर्यविस्मितः।
ययौ भगवतः पुण्यं काश्यपस्य तपोवनम्॥ ७८॥

तथा भिक्षुगणं दृष्ट्वा प्रसन्नहृदयाननः।
अचिन्तयत् तदश्रद्धां विहाय गतमत्सरः॥ ७९॥

एतेषां द्वेषकालुष्यात् क्रौर्यं कः कर्तुमर्हति।
येषां संदर्शनेनैव वैमल्यं लभते मनः॥ ८०॥

इति संचिन्त्य स चिरं तद्विवादपराङ्मुखः।
दूराध्वखिन्नः स्वगृहं गत्वा प्रोवाच मातरम्॥ ८१॥

मिथ्यैवाहं त्वया मातः प्रेरितः कलिकर्मणि।
अजयाः श्रमणा लोके गूढार्थग्रन्थवादिनः॥ ८२॥

श्लोकमात्रं मया श्रुत्वा भिक्षोरेकस्य वर्त्मनि।
अज्ञातार्थेन वैलक्ष्यात् सुचिरं वीक्षितां क्षितिः॥ ८३॥

तद्ग्रन्थेष्वकॄताभ्यासस्तान् वक्तुं कह् प्रगल्भते।
कथयन्ति स्वशस्त्रं ते न हि प्रव्रजितादृते॥ ८४॥

इति तेनोदितं श्रुत्वा जननी तमभाषत।
आयासिताहं भवता गर्भभारेण केवलम्॥ ८५॥

संघर्षमर्षशून्येन दैन्यात् सर्वप्रणामिना।
धर्षणानिर्विमर्षेण क्रियते पुरुषेण किम्॥ ८६॥

लोके सकलरत्नानां तेजसैव महार्घता।
को ह्यर्थः पुरुषप्राणैस्तेजोजीवनवर्जितैः॥ ८७॥

मिथ्या तद्ग्रन्थलाब्ःआय प्रव्रज्या गृह्यते न किम्।
मूर्ध्नि कृत्तेषु जायन्ते किं केशेषु कुशः पुनः॥ ८८॥

इति मातुर्गिरा तस्य मनः कलुषतां ययौ।
सहसा कालवातालीरजोरुद्धमिवाम्बरम्॥ ८९॥

ततः स कूटप्रशमप्रणयी भिक्षुकाननम्।
गत्वा गृहीत्वा प्रव्रज्यां शास्त्रं सौगतमाप्तवान्॥ ९०॥

कालेन धर्मकथकः स विद्वान् गुणगौरवात्।
सिंहासनं समारुह्य विदधे धर्मदेशनाम्॥ ९१॥

जनन्या प्रेरितस्तस्यां देशनायां क्रमेण सः।
भिक्षुधर्मविरुद्धार्थं अव्क्तुं समुपचक्रमे॥ ९२॥

धर्मप्रहारव्यथितैर्भिक्षुभिः स पदे पदे।
निवार्यमाणस्तानूचे कृत्वा विकृतमाननम्॥ ९३॥

अज्ञात्वा दर्पमुखरैरयथा बहुवादिभिः।
भवद्भिः स्थूलदन्तोष्ठैर्व्याख्या मम विसूदिता॥ ९४॥

यूयं गर्दभमर्कटोष्ट्रवदना द्वीप्यास्यपश्वानना
मार्जारैणवराहकुक्कुरमुखा दुर्दर्शवक्र्क्रः परम्।
सह्या मौनजुषोऽपि नैव विकटाटोपं रटन्तः किमु
भ्रूभङ्गैरिति भिक्षुसंघमसकृन्निर्भर्त्सयन् सोऽभ्यधात्॥ ९५॥

तस्य वाक्यशरैस्तीक्ष्णैर्विकृत्ता इव भिक्षवः।
अनुक्त्वैव प्रतिवचस्त्यक्त्वा तं ययुरन्यतः॥ ९६॥

तेन वाक्पातकेनाथ पश्चात्तापमुपागतः।
तत्याज जननीमेव प्रव्रज्याम् न तु तां द्विजः॥ ९७॥

श्रमणैर्मे हृतः पुत्र इति सा विप्रलापिनी।
उन्मादिनी तनुं त्यक्त्वा प्रपेदे नरकस्थितिम्॥ ९८॥

ततः कालेन कपिलः स्वयं कलितकिल्बिषः।
देहान्ते वाक्यपारुष्यादिमां मकरतां गतः॥ ९९॥

तान्येतानि मुखान्यस्य यान्यूचे भिक्षुभर्त्सने।
फलं सदृशरूपं हि कर्मबीजात् प्रजायते॥ १००॥

इत्युक्त्वा तत्र भगवान् धर्ममादिश्य शाश्वतम्।
जनस्यानुग्रहं चक्रे नानाबोधिविधायकम्॥ १०१॥

ततः प्रयाते स्वपदं जिने तन्मयमानसः।
कमरः प्रोज्झिताहारस्त्यक्त्वा देहं दिवं ययौ॥ १०२॥

चातुर्महाराजिकेषु देवेषु विशदद्युतिः।
श्रीमान् स जातः सुगते क्षणं चित्तप्रसादनात्॥ १०३॥

ततः पूर्णेन्दुवदनः स्रग्वी रुचिरकुण्डलह्।
स साकार इवानन्दः सुगतं द्रष्टुमाययौ॥ १०४॥

प्रकीर्णदिव्यकुसुमः किरीटस्पृष्टभूतलः।
प्रभापूरितदिक्चक्रस्तं भक्त्या प्रणनाम सः॥ १०५॥

चक्रे तस्योपविष्टस्य भगवान् धर्मदेशनाम्।
यया स्रोतःफलं प्राप्य सत्यदर्शी जगाम सः॥ १०६॥

तृणमिव गुरुकायोऽप्युद्धृतः पापपङ्का-
दिति स जननिकायः सोऽपि दुःखाज्जिनेन।
व्यसननिपतितानां लीलया पुण्यशीला
निखिलमतुलमूलं क्लेशमुन्मूलयन्ति॥ १०७॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां
कपिलवदानं नाम एकोनचत्वारिंशः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project