Digital Sanskrit Buddhist Canon

३६.पूर्णावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
३६ पूर्णावदानम्।

विबुधसरसिः पद्मैः शोभिते पङ्कजिन्या
शुचिपरिसरजातं स्पृश्यते न स्थलेऽब्जम् (?)।
सहजपरिचितानां नित्यमन्तर्गतानाम्
भवति सितगुणानाम् कारणं नैव जातिः॥ १॥

श्रावस्त्यां सर्वसत्त्वानां स्वस्तिध्यानपरायणे।
जिनकल्पद्रुमे जेतवनारामस्थिते पुरा॥२॥

शूर्पारकाख्ये नगरे रत्नसंचयसागरः।
भवो नामाभवत्सार्थपरिर्मतिमतां वरः॥ ३॥

भविलो भवभद्रश्च भवनन्दी च विश्रुताः।
केतक्यां तस्य जायायां बभूवुस्तनयास्त्रयः॥ ४॥

रोगयोगादुपगरः स कदाचिन्मुमूर्षुताम्।
पारुष्याद् भृशमुद्विग्नैः पत्नीपुत्रैरुपेक्षितः॥ ५॥

भक्त्या दासी तु तस्यैका परिचर्यापरा परम्।
मल्लिकाख्याभवत्तस्याः सेवया स्वास्थ्यमाययौ॥ ६॥

स्नेहोपकारप्रणतः कृतज्ञः स तयान्वितः।
ऋतौ संगममभ्येत्य तस्याः पुत्रमजीजनत्॥ ७॥

यदा तज्जन्मनि पितुः सर्वार्थाः पूर्णताम् ययुः।
स तदा पूर्णनामाभूद्बालः पूर्णेन्दुसुन्दरः॥ ८॥

ज्येष्ठास्त्रयः कृतिद्वाहा ययुरब्धिं धनार्थिनः।
पूर्णस्तु भाण्डशालायां पितुश्चक्रे धनार्जनम्॥ ९॥

ततः प्रतिनिवृत्तास्ते प्राप्तार्थः सागरात्पुनः।
गणनां हेमलक्षाणां कृत्वा स्वमुदिरे पुरम्॥ १०॥

समुद्रगमने तेषाम् यावानासीद्धनागमः।
पूर्णस्य स्वगृहे पण्यौर्बभूवाभ्यधिकस्ततः॥११॥

तद्दृष्ट्वा जनकस्तेषां वृद्धः पर्यन्तवासरे।
तमूचेहितमायत्यां तृष्णा नैकक्षयोदयः॥ १२॥

दृष्टं भवद्भिः सामुद्रलाभे कृतपरिश्रमैः।
पूर्णेनोआर्जितं वित्तमक्लेशेन महीयसा॥ १३॥

शुभकर्मविपाकेन भवन्त्यर्था धनार्थिनाम्।
हस्तात् पलायतेऽन्यस्य प्राप्नोति पतितं परः॥ १४॥

सन्मार्गस्यापरित्यागाद् युक्तायुक्तविवेचनात्।
देशकालपरिज्ञानात्सतां सर्वत्र संपदः॥ १५॥

भवन्ति स्वगृहे शन्याः सुधियो धर्मभागिनः।
गत्वा रत्नाकरं चान्ये लभन्ते प्राणसंशयम्॥१६॥

यत्नेन बोद्धव्या सद्भिः धनस्योपनिष्त्परा।
अद्रोहशुद्धबुद्धीनां स्वाधीनानां धनाच्छ्रियः॥ १७॥

रक्षणीयो भवद्भिश्च भेदः सततसंहतेः।
भिन्नात् स्खलति कल्याणं कुलात् कुम्भादिवोदकम्॥ १८॥

अथाभिन्नेन्धनस्याग्नेर्नश्यन्ते सदृशास्त्विषः।
तथा विपुलवंशस्य भिन्नज्ञातेर्विभूतयाः॥१९॥

भ्रातॄणां संततो भेदः कथं नाम निवर्तते।
अध्यापितानां पत्नीभिर्द्वेषविद्यां सदा निशि॥ २०॥

उन्नतानां स्ववशानां द्वैधं तावन्न जायते।
यावत्कुठारधारेव योषिद्विशति नान्तरम्॥ २१॥

भ्रातुरर्थानुवादेन गुरुं पारुष्यकुत्सया।
मित्रमेकाभिलाषेण नयन्ति द्वैधतां स्त्रियः॥ २२॥

तद्वदन्ति हसन्त्योऽपि भ्रूविलासेन योषितः।
यत्प्रयाति सुहृत्स्नेहमूलोन्मूलनहेतुताम्॥ २३॥

हितमुक्त्वेति पुत्राणां भूतयेऽभिमतं भवः।
अनित्यतापरियुक्तः काले निधनमाययौ॥ २४॥

अविभक्ते धने शक्ता देशान्तरधनार्जने।
ज्येष्ठा बभूवुः पूर्णस्तु गृहे वित्तमचिन्तयत्॥ २५॥

कालेन गृहमाप्तानाम् वस्त्राशनविवादिनाम्।
स्त्रीमन्त्रदत्तकर्णानां भेदस्तेषामजायत॥ २६॥

वित्ते विभज्यमानेऽथ् अतैर्विद्वेषवशीकृतेः।
दासीसुतोऽयम्त्युक्त्वा नीतः पूर्णो निरंशताम्॥ २७॥

सोऽपि पूर्णशनः काले शीतसंकुचितं पथि।
ददर्श ग्रीष्मताप्र्ऽपि विवशं दारुभारकम्॥ २८॥

आदाय दारुमूल्येन स तस्माद्दारुभारकम्।
दिव्यचन्दनमद्राक्षीद्दहनस्यापि शीतदम्॥ २९॥

सुकृतेनैव महता तेन लब्धमहाधनः।
स सेव्यः सार्थवाहानां पूज्योऽभूत्पृथिवीपतेः॥ ३०॥

रत्नाकरं स षट्कृत्वः प्रयातः सर्वदोऽर्थिनाम्।
चकार सर्ववणीजां तरशुल्काद्यनुग्रहम्॥ ३१॥

स्र्हावस्तीवासिभिः सार्थवणिग्भिः पुनरर्थितः।
ययौ प्रवहणारूढः समुद्रद्वीपमाशु सः॥ ३२॥

प्रत्यावृत्ते प्रवहणे सोऽथ शुश्राव गायताम्।
वणिजां स्थाविराः शैलगाथाः सुगतसंश्रयाः॥ ३३॥

कस्यैता इति ते तेन पृष्टाः सर्वे बभाषिरे।
एता भगवता गीता गाथा बुद्धेन धीमता॥ ३४॥

इति बुद्धाभिधामेव श्रुत्वा हर्षमवाप सः।
पुंसां स्ववासनारूढं व्यक्तिमायात्युदीरितम्॥ ३५॥

तैर्विस्तरेण कथितामाकर्ण्य भगवत्कथाम्।
सोऽभवत्तद्गतमनास्तद्दर्शनसमुत्सुकः॥ ३६॥

स शनैर्गृहमागत्य त्यक्त्वा सर्वपरिच्छदम्।
अनाथपिण्डदं द्रष्टुं श्रावस्त्यां सुहृदं ययौ॥ ३७॥

अभिलाषं निवेद्यास्मै प्रव्रज्यायां जितेन्द्रियः।
जगाम सहितस्तेन भक्त्या भगवतोऽन्तिकम्॥ ३८॥

दृष्ट्वैव तत्र सर्वज्ञं मोहध्वान्तदिवाकरम्।
तत्पाददर्शनेनैव मेने स कृतकृत्यताम्॥ ३९॥

विज्ञाय तस्य भगवान् संकल्पं तमभाषत।
दशनज्योत्स्नया कुर्वन् विवेकविमला दिशः॥ ४०॥

एहि भिक्षि निराशङ्के निर्विपक्षे क्षयोज्झिते।
आख्याते धर्मविनये ब्रह्मचर्यां चरेप्सितम्॥ ४१॥

इति प्रसादशीलेन जिनेनोदीरिते पुरह्।
प्रव्रज्या सहसैवास्य पपातालक्षिता तनौ॥ ४२॥

ततः स शत्रौ मित्रे च प्रशमात् समतां श्रितः।
शास्तुः शासनमादाय प्रणिपत्य जगाम तम्॥ ४३॥

श्रोणापरान्तकं नाम देशं श्रूरजनाश्रयम्।
स्वयं परीक्षितुं क्षान्तिं जनेन स समाययौ॥ ४४॥

ततो दृष्ट्वा तमायान्तं मृगयायाममङ्गलम्।
लुब्धकश्चापमाकृष्य हन्तुं क्रिधात् समाद्रवत्॥ ४५॥

निर्विकारं निरुद्वेगं स तं विगतसाध्वसम्।
प्रहरेति ब्रुवाणं च दृष्ट्वैव शममाप्तवान्॥ ४६॥

शाम्यतस्तस्य सहसा प्रसादी लुब्धकस्य सः।
धर्मं दिदेश येनासौ बोधिं प्राप सहानुगैः॥ ४७॥

स तत्र सुगतार्हाणां सर्वोपस्करसंपदाम्।
शतानि पज़्न्च रम्याणां विहाराणामकारयत्॥ ४८॥

पूर्णोऽपि ज्ञानसंपूर्णः प्राप्तिस्त्रिदशपूज्यताम्।
वैराग्यलक्ष्म्या युक्तोऽभून्मुनीनां स्पृहणीयया॥ ४९॥

अथ तस्याग्रजो भ्राता भविलः क्षीणवित्तताम्।
कालेनोपगतः प्रायात् सम्दुरं द्रविणाशया॥ ५०॥

ततः प्रवहणारूढः सोऽनुकूलैः समीरणैः।
गोशीर्षचन्दनवनं प्रापितः स्वल्पवासरैः॥ ५१॥

कुठारिकशतैस्तस्मिन् पञ्चभिश्छेत्तुमुद्यते।
तच्चन्दनवनं दिव्यं भुजङ्गगणासंकुलम्॥ ५२॥

तत्स्वामी यक्षसेनानां महेश्वरं इति श्रुतः।
कोपादुदसृजद् घोरं कालिकाख्यं महानिलम्॥ ५३॥

मरुता महता तेन प्रापिताः प्राणसंशयम्।
चक्रन्दुर्वणिजः सर्वे शर्वशक्रमुखान् सुरान्॥ ५४॥

तानार्तरावमुखरान् भविलः सार्थनायकः।
उवाच संचिन्त्य चिरं पश्चात्तापसमाकुलः॥ ५५॥

पूर्णः कनीयान् भ्राता स हितैषी मां पुरावदत्।
बहुक्लेशो ह्यल्पसुखः क्क गन्तव्यस्त्वयाम्बुधिः॥ ५६॥

अकृत्वा धीमतस्तस्य वचनं सत्यदर्शिनः।
च्युतोऽहं धनलोभेन घोरेऽस्मिन् व्यसनार्णवे॥ ५७॥

श्रुत्वैतद्वणिजः सर्वे प्रभावं लोकविश्रुतम्।
पूर्णस्य मनसा ध्यात्वा तमेव शरणं ययुः॥ ५८॥

नमस्तुभ्यं जगत्क्लेशविषधोषापहारिणे।
पूर्णयोदीर्णकरुणासुधासंपूर्णचेतसे॥ ५९॥

इत्येकस्वररावेण तेषां संपूरितेऽम्बरे।
क्षणेन गत्वा तद्वृत्तं पूर्णः प्राह स्वदेवताः॥ ६०॥

श्रोणापरान्तकगतः श्रुत्वा तेषां स विप्लवम्।
व्योम्ना समाधिसंनद्धः प्राप प्रवहणं क्षणात्॥ ६१॥

तस्मिन् पर्यङ्कबन्धनेन स्थितो मेरुरिवाचलह्।
प्रलयोत्तालवेगस्य गतिं वाहोर्जहार सह्॥ ६२॥

पूर्णेन पवनं रुद्धं ज्ञात्वा यक्षगणाग्रणीः।
तं प्रसाद्य ययौ त्यक्त्वा तेभ्यश्चन्दनकाननम्॥ ६३॥

पूर्णप्रसादादादाय भविलश्चन्दनद्रुमान्।
हृष्टस्तेनैव सहितः शूर्पारं स्वपुरं ययौ॥ ६४॥

पूर्णोऽथ् संमते भ्रातुस्तत्र गोशीर्षचन्दनैः।
चक्रे चन्दनमालाख्यं प्रासादं सुगतोऽचितम्॥ ६५॥

तत्र पूर्णेन भगवान् ध्यातस्तूर्णं विहाय्सा।
समाययौ जेतवनादुल्लङ्घ्य शतयोजनीम्॥ ६६॥

आगच्छतो भगवतः पुरःप्रसृतया जगत्।
देहकान्त्या कपिशितं सर्वं हिममिवाभवत्॥ ६७॥

पुरोह्विलोक्य गृहाङ्गनाः।
तीव्रचित्तप्रसादेन प्रशमोन्मुखतां ययुः॥ ६८॥

कुशलोपचितां तासां भगवान् सत्यदेशनाम्।
चक्रे भवादृतां कान्तास्ताह् प्रापुः कुशलं ययुः॥ ६९॥

ऋद्ध्या भगवतस्तत्र चैत्यं पौराङ्गनाभिधम् ।
ताभिर्विहितमद्यापि वन्दन्ते चैत्यवन्दकाः॥ ७०॥

मुनीनां भगवान् कृत्वा तथा वल्कलिनो मुनेः।
प्रव्रज्यानुग्रहं शुद्धां विदधे धर्मदेशनाम्॥ ७१॥

ततश्चन्दनमालाख्यं प्रासादं भगवान् जिनः।
प्रविश्य स्फाटिकं चक्रे जनसंघभरक्षमम्॥ ७२॥

अथ रत्नासनासीनः स तत्र करुणानिधिः।
विदधे सर्वसत्त्वानां शान्त्यै निर्वाणदेशनाम्॥ ७३॥

अत्रान्तरे सानुचरौ मुनीन्द्रौ कृष्णागौतमौ।
अभ्येत्य धर्मश्रवणेशास्तुः शासनमापतुः॥ ७४॥

तत्र कृत्वाथ भगवान् प्रासादस्य प्रतिग्रहम्।
पुनर्जेतवनं गच्छन्नुद्ययौ सह भिक्षुभिः॥ ७५॥

व्रहन् मारीचिलोकस्थाम् मौद्गल्यायनमातरम्।
सग्दिरा चार्यसत्ये तां धर्ममार्गे न्यवेशयत्॥ ७६॥

अथ जेतवनं प्राप्तं भगवन्तं सविस्मयाः।
पूर्णस्य पुण्यं पप्रच्छुर्भिक्षवः सोऽप्यभाषत॥ ७७॥

काश्यपस्य पुरा सम्यक्संबुद्धस्यान्यजन्मनि।
विहाराधिकृतः पूर्णः संघोपस्थायकोऽभवत्॥ ७८॥

स कदाचिदसंमृष्टां दृष्ट्वा वैहारिकीं भुवम्।
प्राह प्रव्रजितं तीव्रं क्रोधादुपधिवारिकम्॥ ७९॥

दृप्तस्योपधिवारोऽद्य विहारोऽस्मिन्नमार्जितः।
कस्य दासीसुतस्येति ब्रुवाणस्तमभर्त्सयत्॥ ८०॥

तेन पारुष्यपापेन भुक्त्वा नरकदुर्गतिम्।
दासीसुतोऽभवत् पूर्णः पञ्च जन्मशतानि सः॥ ८१॥

संघोपासनमेवास्य पुण्यायाभून्महीयसा।
अर्हत्त्वं येन निःशेषभवक्लेशोज्झितः श्रितः॥ ८२॥

इति प्रभावं कथितं जिनेन
पूर्णस्य पुण्योपचयप्रणितम्।
श्रुत्वाद्भुतं संसदि भिक्षुसंघः
पुण्यप्रसंशाभिरतो बभूव॥ ८३॥

इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायाम्
पूर्णावदानं षट्त्रिंशः पल्लवः॥

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project