Digital Sanskrit Buddhist Canon

३४.गृहपतिसुदत्तावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 34 gṛhapatisudattāvadānam
३४ गृहपतिसुदत्तावदानम्।

दत्तः परहितभावनया यदु तनुधनकणशेषः।
अपरिक्षयगुणकल्पनया भवति सुपुण्यविशेषः॥ १॥

अथ व्यतीते कस्मिंश्चित् काले भगवतोऽन्तिके।
नन्दोपनन्दयोर्धर्मदेशनां श्रोतुमाययौ॥ २॥

राजा प्रसेनजिद्द्रष्टुं भगवन्तमुपागतः।
ताभ्यामकृतसत्कारप्रणामः कोमपाययौ॥ ३॥

स प्रणम्य जिनं गत्वा प्रदध्यौ निग्रहं तयोः।
शस्त्रवृष्टिं संसृजन्तौ तौ च व्योम्ना समागतौ॥ ४॥

सर्वज्ञप्रेषितस्तूरणं मौद्गल्यायन एत्य ताम्।
शस्त्रवृष्टिं नरपतेश्चक्रे पद्मोत्पलावलिम्॥ ५॥

पुनर्गत्वा भगवतः समीपं पृथिवीपतिः।
संप्राप्तौ क्षमयामास तस्यादेशात् फणीश्वरौ॥ ६॥

अथार्थितः पार्थिवेन भगवान् राजमन्दिरम्।
भक्तिपूतं ययौ भोक्तुं भक्तं भिक्षुगणैः सह॥ ७॥

भक्ष्येषु पच्यमानेषु रात्रौ तत्राग्निविल्पवः।
जातो जिनप्रभावेण सहसा शान्तिमाययौ॥ ८॥

भुक्त्वा गते भगवति क्षितिपः स्वपुरेऽभ्यधात्।
ज्वलनज्वालनं रात्रौ वारयन् दण्डसंविदा॥ ९॥

अत्राण्तरे गृहपतिः सुदत्तस्यात्मजि युवा।
मिथ्यादोषदृद्धिबलो नाम राज्ञाभिघातितः॥ १०॥

पूर्वं भगवतः शास्तुः शासनानुग्रहेण सः।
लब्धज्ञानधृतिः पुत्रदुःखेऽप्यासीददुःखितः॥ ११॥

अपुत्रः स्वधनं भूरि दीनेभ्यः प्रतिपाद्य सः।
चकारातिरसादेकपणशेषं शनैः श्रियः॥ १२॥

पणलाभकृताशेषधर्मः स्वल्पप्रदोऽथ सः।
अभूद् गृही सुदत्ताख्यो गृहं हि स्वप्लमुच्यते॥ १३॥

कदाचिद्दर्शनायातं भगवान् पुरतः स्थितम्।
तं स्वल्पदाननाम्नैव लज्जितं दययावदत्॥ १४॥

अल्पदानं गृहपतेर्न लज्जां कर्तुमर्हसि।
याति श्रद्धार्पितो दानकणः कनकशैलताम्॥ १५॥

पुरा बहुतरं दत्तं वेलमेन द्विजन्मना।
श्रद्धाविरहसामान्यान्न तथा वृद्धिमाययौ॥ १६॥

यः सर्वं भोजयेद्भक्त्या जम्बुद्वीपगतं जनम्।
यश्चैकं बोधिसंयुक्तं तस्य पुण्यं ततोऽधिकम्॥ १७॥

इति वाक्यं भगवतस्तथ्यं श्रुत्वाभिनन्द्य च।
निजगेहं गृहपतिः प्रययौ प्रणिपत्य तम्॥ १८॥

दीपं दत्वा पठन् रात्रौ ततर् बुद्धानुशासनम्।
दण्डाय राजपुरुषैः स नीतोऽग्निप्रवर्तनात्॥ १९॥

दण्डस्य संभवाद्बद्धं बन्धनागारवर्तिनम्।
तं द्रष्टुमाययुर्देवा रात्रौ शक्रब्रह्मादयः॥ २०॥

स तैर्धनं गॄहाणेति प्रार्थितो नाग्रहीद्यदा।
तदा धर्मोपदेशोऽयं प्रवृत्तस्त्स्य मन्दिरे॥ २१॥

राजापि तत्प्रभावेण दृष्ट्वा प्रज्वालितं पुरम्।
मुक्त्वा तं बन्धनागारान्न ददर्श जलं क्कचित्॥ २२॥

स गतः सुगतं द्रष्टुं कदाचित्तत्पुरः स्थितः।
नृपं जिनप्रणामाय प्राप्तं पश्चाद् व्यलोकयत्॥ २३॥

अग्रे भगवतश्चक्रे प्रणयं न स भूपतेः।
जगत्पूज्यस्य पुरतः पूजामर्हति नापरः॥ २४॥

जिनमामन्त्र्य नृपतिः प्रणतः स्वपुरं गतः।
विवासनं गृहपतेरादिदेश निजात् पुरात्॥ २५॥

प्रसादिनी सुदत्तस्य देवता नृपतिं ततः।
क्षुद्रजन्तुभिरुत्सृष्टैश्चक्रे दंशविषाकुलम्॥ २६॥

स त्रस्तस्तैर्नृपः प्राप्तः सामात्यान्तः पुरानुगः।
गत्वा प्रसादयामास सुदत्तम् जिनशासनात्॥ २७॥

इति स सततप्रत्यासत्त्या परामृतनिर्भरं
भगवदुदितं शान्तिं भेजे सुदत्तगृहाधिपः।
स्वमिव लभते विघ्नयासप्रवासविवर्जितं
विमलमनसामन्तेवासी विवेकमहानिधिम्॥ २८॥

इति क्षेमेन्द्रविचरितायां बोधिसत्त्वावदानकल्पलतायां
गृहपतिसुदत्तावदानं चतुर्स्त्रिशः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project