Digital Sanskrit Buddhist Canon

३२.विशाखावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

32 viśākhāvadānam

३२ विशाखावदानम्।

वामाः सज्जनवामाः प्रायेण भवन्ति नीरोगिण्यः।
तिमिरोन्मुखी सरागा क्षिपति रविं भूधरात्संध्या॥१॥

देवदत्तस्य चरिते बहुजन्मान्तराश्रये।
कथितेऽपि पुनः प्राह भगवान् ज्ञानसागरः॥ २॥

पुरा कलिङ्गविषये नृपतिः शत्रुभङ्गकृत्।
श्रीमानभूदशोकाख्यः प्रख्यातासंख्यविक्रमः॥३॥

तस्य शाखः प्रशाखश्च चत्वारः सदृशाः सुताः।
अनुशाखो विशाखश्चेत्यभवन् भुवि विश्रुताः॥ ४॥

तारुण्यमत्तास्ते पित्रा सपत्नीकाः प्रवासिताह्।
सविकारनिकारेण पुत्रस्नेहोऽपि नश्यति॥ ५॥

ते शनैः क्षीणपाथेया दुर्दशामिव दुःसहाम्।
विकटामटवीं प्राप्यं क्षुत्क्षामाः समचिन्तयन्॥ ६॥

एताः स्त्रियो विपत्काले गुल्फबन्धनशृङ्खलाः।
कृच्छ्रलब्धे च भागिन्यः स्थिताः पर्णाशनेऽपि नः॥ ७॥

इति चिन्तयतामासीत् तेषां स्त्रीबधनिश्चयह्।
दुर्दशादग्धभाग्यानां घोरा संजायते मतिः॥ ८॥

तेषां मध्याद्विशाखस्तु पापसंकल्पशङ्कितः।
भार्यामादाय कृपया पलाय्य प्रययौ पृथक्॥ ९॥

सा कलङ्कवती नाम भृशं वैक्लव्यमागता।
दूराध्वधावनश्रान्ता मूर्च्छिता न्यपतद्भुवि॥ १०॥

ततः सा करुणार्द्रेण भर्त्रा प्राणक्षयक्षणे।
शरावेधसमुद्भूतं पायिता निजशोणितम्॥ ११॥

ताम् रक्तपानसंप्राप्तजीविताम् सत्त्वसागरः।
स्वाङ्गं निष्कृत्य मांसेन प्राणवृत्तिमकारयत्॥ १२॥

निर्जलं घोरकान्तारं समुत्तीर्य क्रमेण तौ।
प्रच्छायपादपश्यामं प्राप्तौ गिरिनदीतटम्॥ १३॥

विश्रान्तयोस्तयोस्तत्र कृत्तपादकरो नरः।
तीव्राक्रन्दी नदीवेगेनोह्यमानः समाययौ॥ १४॥

दृष्ट्वैव करुणाश्लिष्टः कष्टां विपदमाश्रितः।
विगाह्य सरितं दोर्भ्यां विशाखस्तमतारयत्॥ १५॥

ततः प्रत्यागतप्राणां तोयमूलफलादिभिः।
स तं चक्रे दिनैरेव संरूढच्छेदनिर्व्यथम्॥ १६॥

स्वस्थोऽपि गतिवैकल्यान्नैव गन्तुं क्कचित् क्षमः।
स तस्थौ तत्र तत्पत्न्या काले कलितभोजनह्॥ १७॥

राजपुत्रस्तु जायायामभूद्विरलसंगमः।
सिंहाल्परतयः शूराः प्रायेण विजिगीषवः॥ १८॥

दिव्यौषधिरसाहारपरिपूर्णतनुः शनैः।
तत्पत्नी विकलायास्मौ चकार सुरतस्पृहाम्॥ १९॥

स्नेहेन नोपलिप्यन्ते न बध्यन्ते गुणेन च।
गुरवे न च सज्जन्ति स्वेच्छस्पर्शसुखाः स्त्रियः॥ २०॥

सा तेन निशि निःशब्दं रममाणा घनस्तनी।
निःशङ्कसुरतातृप्ता पतिं विघ्नममन्यत॥ २१॥

सा पत्युः स्वैरिणी तेन विदधे वधसंविदम्।
पापेषु शिक्षाकुशलाः कलुषाः किल योषितः॥ २२॥

सा शिरःशूलमतुलं वदन्ती स्वस्य छद्मना।
चक्रे लिखितपापास्या ललाटे पट्टबन्धनम्॥ २३॥

तस्याः शिरोरुजां तीव्रां व्यतीतः पार्थिवात्मजः।
कारुण्यात्तत्प्रतीकारे तां तां युक्तिमचिन्तयत्॥ २४॥

विषादचिन्तास्तिमितं श्वसन्तं सा जगाद् तम्।
शीतार्तकूजद्भ्रमरा हिमम्लानेव पद्मिनी॥ २५॥

एवंविधं मे कन्यायाह् शिरःशूलं पुराभवत्।
पाषाणभेदलेपेन भिषग्भिश्च निवारितम्॥ २६॥

पाषाणभेदव्याप्तोऽयं प्राग्भागोऽस्य् महीभृतः।
राज्ज्वावतीर्य भवता गृह्यतां यदि शक्यते॥ २७॥

धारयिष्यामि पाणिभ्यामहमालम्बनं तव।
इत्युक्तः प्रणयात्पत्नया तथेत्याह नृपात्मजः॥ २८॥

तत्पाणिधृतरज्ज्वाथ विहितालम्बनः शनैः।
सोऽवतीर्णः शिलास्फालगर्जद्गिरिनदीतटम्॥ २९॥

भेषजादानसंसक्तः संत्यक्तालम्बनस्तया।
स पपात महाश्वभ्रे स्त्रीचित्तचपलाम्भसि॥ ३०॥

शुभस्य कर्मणः शेषादभग्नतनुरेव सः।
उह्यमानः प्रवाहेण धीरश्चितमचिन्तयत्॥ ३१॥

नारीचित्ताभमावर्तं दर्शयन्त्या निजाशयम्।
मम स्त्रीनियमे नूनमुपदेशः कृतोऽनया॥ ३२॥

दुर्विज्ञेयाः प्रततमतिभिः स्वप्नसंकल्पकल्पा।
रागद्वेषव्यसनविषमायासविन्याससक्ताः।
कामात्कामी सकलजनतामोहने संप्रवृत्ताः
पातायैव क्षस्णपरिचितस्यापि मायाः स्त्रियश्च॥ ३३॥

इति संचिन्तयन्नेव नदीवेगेन भूयसा।
प्रापितः सुकृतेनेव स पुरीं पुष्करावतीम्॥ ३४॥

तस्मिन्नवसरे तत्र निष्पुत्रे नृपतौ मृते।
निमित्तज्ञैर्महामात्यैर्गृहीतः स सुलक्षणः॥ ३५॥

अभिषिक्तः स तैस्तत्र विधिवन्मङ्गलोदकैः।
अभूद्विवाहविद्वेषी दृष्टस्त्रीचरिताद्भुतः॥ ३६॥

कलङ्कवत्यपि गिरौ बोधिसत्त्वविवर्जिते।
मन्द्वीर्यौषधिः काले वृत्तिच्छेदाकुलाभवत्॥ ३७॥

स्कन्धे भग्नाङ्गमारोप्य सा ग्रामपुरवर्त्मसु।
जनं पतिव्रतास्मीति गिरा भिक्षामयाचत॥ ३८॥

परिव्रतागौरवेण सर्वस्तस्यौ ददौ बहु।
मिथ्याशीलप्रवादोऽपि सूते विपदि संपदम्॥ ३९॥

अटन्ती सा शनैः प्राप्ता नगरीं पुष्करावतीम्।
सतीति वन्दिता सर्वैर्वृपद्वारान्तिके ययौ॥ ४०॥

राजा स्त्रीवृत्तविद्वेषी वन्दते तु पतिव्रताम्।
इति संचिन्त्य तद्भक्त्या नृपं प्राह पुहोहितः॥ ४१॥

दूरेदेशान्तराद्देव प्राप्ता कापि पतिव्रता।
ययेयं चरणन्यासैर्भूतधात्री पवित्रिता॥ ४२॥

हे देव पश्य तां शाध्वीं स्कन्धारोपितभर्तृकाम्।
पतिव्रताप्रणामेन पुंसामायुर्विवर्धते॥ ४३॥

नृपः पुरोहितेनेति तत्संदर्शनमर्थितः।
तमुवाच न जानीषे ब्राह्मणः सरले भवान्॥ ४४॥

स्निग्धा स्त्रीति प्रवादोऽयं निर्व्याजेति मतिभ्रमः।
सतीति व्योमपुष्पाप्तिः पापा स्त्रीति न संशयः॥ ४५॥

निष्फलाश्चग्नुरोहिण्यः सरला जनसंगमे।
नार्यो वेतसवल्लर्य इव निर्मूलबन्धनाः॥ ४६॥

भेदद्रोहैकशीलाभ्यो दुःशीलाभ्यः स्वभावतः।
नमः स्त्रीभ्यो नमः स्त्रीभ्यो नमः स्त्रीभ्यो नमो नमह्॥ ४७॥

दृष्टस्त्रीवृत्तदोषाय तच्चिन्ताव्यथितान्मने।
अप्येषा पृथिवी मह्यं रत्नपूर्णा न रोचते॥ ४८॥

नगमृगवधूमुग्धास्तीक्ष्णाः परं परवञ्चने
तनुवितरणे सक्ताः पुंसां हरन्ति च जीवितम्।
दधति च भयं पुष्पायाते पिबन्ति च पावकं
सरलकुटिला नैव ज्ञाता विचारशतैः स्त्रियः॥ ४९॥

तथापि यदि निर्बन्धस्तव पश्यामि तां स्त्रियम्।
इत्युक्त्वा हर्म्यमारुह्य ताम् ददर्श नरेश्वरः॥ ५०॥

तामेव स परिज्ञाय पापां कृत्ताङ्गसङ्गिनीम्।
सचिवेभ्यः क्षितिपतिस्तद्वृत्तान्तं न्यवेदयत्॥ ५१॥

नृपं सापि परिज्ञाय पापा क्षणमधोमुखी।
निरस्ता प्रययौ तूर्णं पिहितश्रवणैर्जनैः॥ ५२॥

विशाखनामा नरनाथसूनुः
सोऽहं वधूः सास्य च देवदत्तः।
श्रुत्वेतिवृत्तं कथितं जिनेन
भिक्षुव्रजस्तच्चरितं निनिन्द॥ ५३॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां
विशाखावदानं द्वात्रिंशः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project