Digital Sanskrit Buddhist Canon

३१. कल्याणकार्यवदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
३१ कल्याणकार्यवदानम्।

प्रत्यक्षलक्षणपरीक्षित एष लोके
संलक्ष्यते सुजनदुर्जनयोर्विशेषः।
अर्कः प्रकाशविशदं विदधाति विश्व-
मन्धीकरोति निखिलं जगदन्धकारः॥ १॥

सर्वज्ञः पूर्ववृत्तान्तमशेषमवलोकयन्।
अस्मिन्नेव कथारम्भे भगवान् पुनरब्रवीत्॥ २॥

नृपः पातलिपुत्राख्ये पुरे भूमिपुरंदरः।
अभूत्पुरंदरो नाम मन्दिरं पुण्यसंपदः॥ ३॥

कल्याणकारी तस्याभूत् सूनुर्गुणगणोन्नतः।
अकल्याणाभिधानश्चद्वितीयो निर्गुणः सुतः॥ ४॥

कल्याणकारी सर्वार्थिकरुणाकल्पपादपः।
छत्रावशेषामकरोद् दाणशीलः श्रियं पितुः॥ ५॥

तस्मै मनोरमां नाम पुण्यसेनो महीपतिः।
दूतं विसृज्य लेखेन स्वसुताम् व् अचसा ददौ॥ ६॥

प्रत्यासन्नविवाहोऽथ नृपं राजसुतोऽभ्यधात्।
प्राप्तः परिणयस्तात संप्रत्येष न मे मतः॥ ७॥

वात्सल्यपेशलतया मदात्ताः प्रकृतिश्रियः।
मया दानव्यसनिना कोषस्ते शुषिरीकृतः॥८॥

तस्मात्प्रवहणेनाहं समुत्तीर्य महोदधिम्।
रत्नद्वीपं व्रहाम्येव दिव्यरत्नार्जनोद्यतः॥ ९॥

दिव्यसंपदमासाद्य करिष्ये दारसंग्रहम्।
कलत्रमकृतार्थस्य त्रासनं सुखसंपदाम्॥ १०॥

इयुक्त्वा स पितुः प्राप्य शासनं चरणानतः।
जगाहे जलधिं लोलकल्लोलालिङ्गिताम्बरम्॥ ११॥

भ्राता तमनुवज्राज सौजन्यव्यञ्जनोऽनुजः।
निर्गुणः सगुणद्वेषद्रोहमन्तर्विचिन्तयन्॥१२॥

ज्येष्ठस्तमब्रवीद्वत्स समुद्रे कर्मविप्लवात्।
अहं ग्राह्यस्त्वया स्कन्धे जाते प्रवहणक्षये॥ १३॥

इति भ्रात्रा कृताश्वासस्तथेत्यूवे स तं शठः।
दोषोद्यतः प्रणयितां खलः समवलम्बते॥ १४॥

ततः प्रवाहणारूढः पवनैरनुकूलताम्।
यातैः पुण्यैरिव प्राप्य रत्नद्वीपं नृपात्मजः॥ १५॥

दोव्यरत्नानि संप्राप्य प्रत्यावृत्ते ततः शनैः।
राजपुत्रे प्रवहणं द्रागभञ्जत् प्रभञ्जनः॥ १६॥

भग्ने प्रवहणे तस्मिन् भ्रातरं पूर्वसंविदा।
स जग्राह शठः कण्ठे तं भुजङ्ग इवानुजः॥ १७॥

कर्मवातेरितस्तूर्णं कूलं प्राप्य नृपात्मजः।
अवाप सहसा निद्रामान्ध्यप्रथमदूतिकाम्॥ १८॥

तस्य सुप्तस्य रत्नानि दृष्ट्वा बद्धान्यथानुजः।
प्रहर्तुं व्यसनच्छिद्रे क्रूरः समुपचक्रमे॥ १९॥

उत्पाट्य गाढबद्धस्य स तस्य नयनाम्बुजम्।
तं तारकं भयाम्भोधौ चकार गततारकम्॥ २०॥

आत्तरत्ने गते तस्मिन् वाजसूनुर्गतद्युतिः।
मातङ्गोन्मूलिताम्भोज इवाभूत्कमलाकरः॥ २१॥

स बभूव निरालोकः शोकतीव्रतमोवृतः।
कृष्णपक्षक्षपारम्भ इव सूर्येन्दुवर्जितः॥ २२॥

अत्रान्तरे समायातस्तं देशं गोकुशाधिपः।
राजपुत्रं विलोक्यान्धमभूत् संक्रान्ततद्व्यथह्॥ २३॥

स तं नीत्वा स्वनिलयं परिचर्यापरः पार्ः।
तस्यासीद्गुणसौजन्यस्नेहावेशवशीकृतः॥ २४॥

तत्र शोकसुजां शान्त्यै सदा चेतोविनोदिनीम्।
वीणां स्वरप्रवीणोऽसौ पूर्वाभ्यस्तमवादयत्॥ २५।

सत्संगमः पृथुविवेककथाभोयोगः
काव्यासवः प्रियसुहृत्प्रणयो विहारः।
वीणास्वनह् कुसुमकान्तवनान्तवासः
शोकाग्नितप्तमनसाममृतावगाहः॥ २६॥

तस्य गोपपतेः पत्नी तीगवीणाविचक्षणा।
पश्यन्ती राजतनयं प्रययौ साभिलाषताम्॥ २७॥

कृतोपदेशा सततं कुटिला वीणयेव सा।
मूर्च्छन्ती नवरागेण सोत्कण्ठा समचिन्तयत्॥ २८॥

सुभगोऽयं ममातीव दृशि चित्ते च चर्तते।
निवर्तते न मे तापः प्रेम्णि चेन्न प्रवर्तते॥ २९॥

धन्येयं नखसंपातैः क्कणन्ती रागिणीमुहुः।
यातास्य वल्लकी पुण्यैरङ्कारोहणयोग्यताम्॥ ३०॥

इति संचिन्त्य सा स्वैरं तमुवाच सविभमम्।
स्पृशन्ती तत्कराम्भोजं सकम्पकरपल्लवा॥ ३१॥

ललनासुलभां लज्जां ममेदं त्वद्गतं मनः।
अकृतज्ञ इव प्रीतिं न संस्मरति मानद॥ ३२॥

न शीलं न कुलाचारं नाभिमानं न संशयम्।
अपेक्षन्ते स्मरक्षिप्ता वैलक्ष्यरहिताः स्त्रियः॥ ३३॥

प्रणयान्मम सङ्कल्पं सफलं कर्तुमर्हसि।
भवन्ति मानिताः प्रीत्यै देवता इव योषितः॥ ३४॥

इति तस्य वचः श्रुत्वा भिन्नस्वरविशृङ्खलम्।
चपलां राजपुत्रस्तां त्रस्तान्तःकर्णोऽवदत्॥ ३५॥

नेयं मातः समुचिता सतः शीलपरिच्युतिः।
धिक्किल्बिषविषस्पृष्टः नष्टशीलस्य जीवितम्॥ ३६॥

पराङ्गनापरिष्वङ्गमङ्गैरङ्गीकरोति यः।
आलिङ्गति पतङ्गोऽयं नरकाग्निशिखां पुनह्॥ ३७॥

परोपकारनिरताह् परदारनिरादराः।
येऽप्यहिंसाव्यसनिनस्ते जीवन्ति मृताः परे॥ ३८॥

इति तेनोक्तमाकर्ण्य साभूद्भग्नमनोरथा।
निधनाभ्यधिकः प्रीतिप्रतिषेधो हि योषिताम्॥ ३९॥

ततः स्वपतिमभ्येत्य भुजङ्गी भङ्गमागते।
मनोरथे मन्युविषं वमन्तीव जगाद सा॥ ४०॥

परवत्सलता साधो दोषाय सरलस्य ते।
को ह्यविज्ञातशीलानां स्वाधीनीकुरुते गृहम्॥ ४१॥

परेषु भृशमाश्वासं स्पृशतस्ते न शोभनम्।
गुप्तं चित्तं च वित्तं च जनो जानाति कस्य कः॥ ४२॥

परदारसहस्राक्षस्त्वयान्धः स गृहे धृतः।
दीनान्धजनवात्सल्यात् पश्य तस्योचितं फलम्॥ ४३॥

अद्याहं तेन विजने संगमे भृशमर्थिता।
यद्यस्य नयने स्यातां स्यात् कथं मे पलायनम्॥ ४४॥

इत्युक्तः स तया कोपात्तप्तो गोपपतिर्भृशम्।
द्वरे निष्कास्य तं चक्रे गेहं चित्तं च शीतलम्॥ ४५॥

पिता त्यजति यत्पुत्रं सुहृन्मित्रं निहन्ति यत्।
बन्धुच्छेदासिधाराणां तद्दाराणां विजृम्भितम्॥ ४६॥

भ्रुवोर्दृशोर्यत्कौटिल्यं यत्तैक्ष्ण्यं यच्च चापलम्।
कुचयोर्यच्च काठिन्यं तत्सर्वं हृदि योषिताम्॥ ४७॥

कल्याणकारिसार्थेन पथः संतारितं शनैः।
पितरि त्रिदिवं याते शुश्राव भ्रातरं नृपम्॥ ४८॥

स पुरं पुण्यसेनस्य श्वशुरस्य महीपतेः।
कालेन प्राप्प दूराध्वक्लेशप्रशमबान्धवम्॥ ४९॥

अत्रान्तरे सुता तत्र महीभर्तुर्मनोरमा।
वाचा दत्ता पुरा यस्मै तस्मिन्नब्धिच्युते श्रुते॥ ५०॥

आहूतेषु नरेन्द्रेषु निविष्टेषु यथाक्रमम्।
आरुह्य रत्नशिबिकां स्वयंवरभुवं ययौ॥ ५१॥

विलोकयन्ती भूपालान् सा शनैश्चललोचना।
यदृच्छयागतं तत्र राजपुत्रं ददर्श तम्॥ ५२॥

अन्धोऽपि तस्याः सहस् आस ययौ प्रियतां दृशोः।
ग्रहमध्ये कुमुद्वत्या मेघान्धोऽपि प्रियः शशी॥ ५३॥

नृपेषु प्रतियातेषु विलक्षेष्वफलागमात्।
महीपतिसुतान्तस्तं वव्रे गुणविनिर्गतम्॥ ५४॥

सापु हारं परिक्षिप्य कण्ठे तस्यायतेक्षणा।
शनकौर्मधुरालापा त्वद्वशास्मीत्युवाच तम्॥ ५५॥

स्त्रीवृत्तचकितः सोऽपि विजने तामभाषत।
प्रज्ञादरिद्रया नेदं स्त्रिया युक्तं कृतं त्वया॥ ५६॥

स्मरसौहार्दमित्रेषु पद्मनेत्रेषु राजसु।
स्थितेषु वन्ध्यजन्मान्धः कस्मादस्मि वृतस्त्वया॥ ५७॥

अन्यवक्र्क्रावलोकिन्यो जायाश्चक्षुष्मतामपि।
वधूः किं पुनरन्धस्य दिनेऽप्यन्याभिसारिका॥ ५८॥

ललनाभिर्न मे कृत्यं प्रत्ययस्तासु नास्ति मे।
कुलकूलनिपातिन्यो निम्नगाः कुटिलाः स्तियः॥ ५९॥

इत्युक्ता तेन परुषं लज्जालोला नृपात्मजा।
तमूचे नाथ सर् वत्र न शङ्कां कर्तुमर्हसि॥ ६०॥

दृष्टदोषः क्कचिन्नार्याम् यदि त्वमतिशङ्कितः।
अदुष्टापि त्वया नाम तद्व्याप्ता क्रियते कथम्॥६१॥

त्वय्येव यदि मे प्रीतिरनन्यशरणम् मनः।
तेन सत्येन ते नेत्रमेकं भवतु निर्मलम्॥ ६२॥

इत्युक्तमात्रे सुदृशा दक्षिणं तस्य लेचनम्।
सत्यानुभावेनाभूत्तत्प्रफुल्लकमलोपमम्॥ ६३॥

राजपुत्रः प्रहृष्टोऽथ ताम् प्रसाद्य सिलोचनाम्।
उवाच तन्मुखाम्भोजलावण्यगुणचिस्मित्ः॥ ६४॥

कल्याणकारी सुभगः स एवाहं नृपात्मजः।
यस्मौ पुरा त्वं गुरुणा वचसा प्रतिपादिता॥ ६५॥

स एवाहं यदि परं निर्वैरः पाटने दृशः।
तेन सत्येन नयनं स्वस्थं भवतु मेऽपरम्॥ ६६॥

सत्योपयाचनेनेति सहसैवास्य लोचनम्।
द्वितीयमपि वैमल्यमवाप सह चेतसा॥ ६७॥

ततो विदितवृत्तेन पुण्यसेनेन भूभुजा।
कृतसाहाय्यकः प्राप स्वराज्य स प्रियासखः॥ ६८॥

कल्याण्कारी यः सोऽहं देवदत्तः स चानुजः।
तेन पूर्वानुभावेन तद्विधोऽद्यापि वर्तते॥ ६९॥

इत्युदारमुपकारनिर्मलं
बोधिसत्त्वचरितं निशम्य ते।
भिक्षवः खल्विचेष्टितं च त-
त्तुल्यमप्रतिमविस्मयं ययुः॥ ७०॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां
कल्याणाकार्यवदानमेकत्रिंशः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project