Digital Sanskrit Buddhist Canon

३०.सुवर्णपार्श्वावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
३० सुवर्णपार्श्वावदानम्।

श्लाष्यः कोऽपि स सत्त्वसारसरलः सौजन्यपुण्यस्थिति-
र्निन्द्य कोऽपि स धर्ममार्गगमने विघ्नः कृतघ्नः परम्।
चित्रं यच्चरितं विचार्य सुचिरं रोमाञ्चचर्चाचित-
स्तुल्यं याति जनः सबाष्पनयनस्तद्वर्पने मूकताम्॥१॥

देवदत्तप्रसङ्गेन भिक्षुभिर्भगवान् पुरा।
पृष्टः कथामकथयत् पूर्ववृत्तान्तसंश्रयाम्॥२॥

महेन्द्रसेननामाभूद् वाराणस्यां नरेश्वरः।
ययुः क्षितीश्वराः सर्वे यस्य लक्ष्म्या विलक्षताम्॥ ३॥

चन्द्रप्रभाभवत्तस्य दिव्यकीर्तिरिव प्रिया।
यस्याः पत्युः प्रभावेण स्वप्नाः सत्यत्वमाययुः॥ ४॥

बभूव समये तस्मिन् मृतयूथपतिर्वने।
सुवर्णपार्श्व इत्याप्तनामा हेममयच्छविः॥ ५॥

नीलरत्नोदरास्फरमुक्ताहारनिभप्रभा।
अभूद्दृष्टिच्छटा यस्य भूषणं काननश्रियः॥ ६॥

प्रवालवल्लिशृङ्गस्य चित्ररत्नचितत्वचः।
तस्याश्चर्यसुधाम्भोधिलहरी रुरुचे रुचिः॥ ७॥

बोधिसत्त्वावतारस्य तस्य कान्तमभूद्वपुः।
पूर्वं सुकृतचित्रस्य लक्षणं हि सुरूपता॥ ८॥

दीर्घदृष्टिर्बभूवास्य वयस्यो वृद्धवायसः।
लब्धकान्वेषणत्रासे दिग्विलोकनतत्परः॥ ९॥

तौ कथाभिर्मिथः प्रीत्या विविक्तेषु विजस्रतुः।
प्राक्पुण्यैर्जायते वाणी तिरश्चामपि माणुषी॥ १०॥

स कदाचिज्जलान्वेषी यथूनाथः सहानुगैः।
तटिन्या वेणुमालिन्याः पुलिनं समुपाययौ॥ ११॥

तस्य तारतरं श्रुत्वा दीऱ्घमाक्रन्दनिश्वनम्।
हरिणा दुद्रुवुः सर्वे ग्रीवावलनविभ्रमैः॥ १२॥

सुवर्णपार्श्वस्तु त् अदा कृपापाशवशीकृतः।
तत्रैव निश्चलस्तस्थौ मर्मविद्ध इवेषुणा॥ १३॥

तदुद्धरणसंनद्धं दीऱ्घदृष्टिं विलोक्य तम्।
काकः प्रोवाच न सखे युक्तोऽतं ते समुद्यमः॥ १४॥

पुष्पोपमा विपत्काले कृतार्थाः कुलिशोपमाः।
कृतमेते न मन्यन्ते स्वकायसुहृदः खलाः॥ १५॥

इत्यसौ वार्यमाणोऽपि काकेन करुणाकुलः।
अवतीर्याशु सरितं सरलस्तमतारत(?)॥ १६॥

विमुच्य बन्धनान्यस्य स शृङ्गाभ्यामशङ्कितः।
तं पादपतितं दीनमवदद्गन्तुमुद्यतम्॥ १७॥

न त्वया कथनीयोऽहमत्रस्थः कस्यचित्सखे।
प्रार्थयन्ते सुवर्णं मां चर्मलुब्धा हि लुब्धकाः॥ १८॥

इत्युक्तस्तेन विनयात् तत्तथेत्यभिधाय सः।
ययौ कुटिलकाख्यस्तं प्रणम्य प्रस्तुतस्तुतिः॥ १९॥

अत्रान्तरे नरपतेः पत्नी चन्द्रप्रभा निशि।
स्वप्ने ददर्शासनस्थं मृगं सद्धर्मवादिनम्॥ २०॥

सत्य्स्वप्नाथ सा देवी प्रबुद्धा नृपमब्रवीत्।
सुवर्णहरिणः स्वप्ने देव दृष्टो मयाद्भुतः॥२१॥

तमहं द्रष्टुमिच्छामि साक्षादुपगतं मृगम्।
अङ्कादिव मृगाङ्कस्य निर्गतं राहुशङ्कया॥ २२॥

इत्युक्तः प्रणयात्प्रीतो देव्या च पृथिवीपतिः।
मृगग्रहाय व्यसृजत् लुब्धकान् द्रविणप्रदः॥ २३॥

ततः प्रतिनिवृत्तास्ते वनमन्विष्य लुब्धकाः।
निष्फलागमनक्रुद्धं सकम्पा जगदुर्नृपम्॥ २४॥

इयतीं जगती देव विचिता निचिताचलैः।
भ्रान्ता वयमविश्रान्ता न लभ्यस्तद्विधो मृगः॥ २५॥

आश्चर्यचरनाकृष्टलोचनरुलोचनः।
स्वप्नसंपन्नरूपोऽसौ हिरण्यहरिणः कुतः॥ २६॥

मनो विनोदने तस्मिन् यदि देव प्रसीदति।
कुर्वन्तु काञ्चनमृगं कुशलाः केऽपि शिल्पिनः॥ २७॥

इति श्रुत्वा स नृपतिर्ददद्बहुतरं धनम्।
मृगान्वेषणसंकल्पे बभूवाभिनिवेशवान्॥ २८॥

ततः कुटिलकोऽभ्येत्य नृपं श्रुत्वा बहुप्रदम्।
उवाच द्रविणादाने लुब्धकेभ्योऽपि लुब्धधीः॥ २९॥

प्रसादः क्रियतां देव मृगं संदर्शयाम्यमह्।
दृष्टः कनकसाराङ्ग सारङ्गः समया वने॥ ३०॥

इत्याकर्ण्य क्षितिपतिः प्रहर्षित्फुल्ललोचनः।
भद्र संदर्शय क्कासौ क्कासावित्यवदन्मुहुः॥ ३१॥

तमेवाग्रेसरं कृत्वा मृगमार्गप्रदर्शकम्।
ससैन्यः स ययौ स्वच्छच्छत्रचन्द्रोदयाचलः॥ ३२॥

दीर्घदृष्टिर्ददर्शाथ काकस्तरुशिरःस्थितः।
गजवाजिव्रजोदीर्णरेणुप्रवारणं वनम्॥ ३३॥

सुवर्णपार्श्वमभ्येत्य जगाद मृययूथपम्।
हितमुक्तं मया पूर्वं न श्रुतं न कृतं त्वया॥ ३४॥

स एष पुरुषः प्राप्तः संनद्धैः सह धन्विभिः।
मया निवारितेनापि संहारेण न तृप्यते॥ ३५॥

अधुना क्क नु गन्तव्यं किं कर्तव्यं भयोद्भवे।
हितं किमनुवर्तव्यं तुल्यं मर्तव्यमेव वा॥ ३६॥

कृतघ्नः क्रूरचरितः क्षुद्रोऽयं संघपातकह्।
त्वयैवात्मविनाशाय रक्षितो विषपादपः॥ ३७॥

स्वशरीरप्रदस्यापि संहारेण न तृप्यते।
ससत्त्वसागरग्रासी कृतघ्नो वाडवानलः॥ ३८॥

उपकारः कृतघ्नेषु विश्वासः कुटुलात्मसु।
उपदेशश्च मूर्खेषु कर्तुर्दोषाय केवलम्॥ ३९॥

इति काकेन कथिते प्रत्यासन्ने च पार्थिवे।
अचिन्तयत् प्राप्तकालं हितं यूथस्य यूथपह्॥ ४०॥

सुभटानामियं सेना विगाहेद्गहनं महत्।
करोति मत्प्रसङ्गेन मुहूर्तेनैव निर्मृगम्॥ ४१॥

तस्मात्सैन्यप्रधानस्य गच्छामि स्वयमन्तिकम्।
एकस्यैव वधो मेऽस्तु सर्वे जीवन्त्वमी मृगाः॥ ४२॥

इति निश्चित्य स ययौ समीपं भूपतेर्म्ऱ्इगः।
परप्राणपरित्राणे तृणं प्राणां महात्मनाम्॥ ४३॥

तमायान्तं द्रुतं दृष्ट्वा हृष्टः कुटुलकह् पुरः।
सोऽयमित्याशु पाणिभ्याम् राज्ञे दूरे व्यदर्शयत्॥ ४४॥

तत्क्षणे द्रोणशापेन वज्रेणेव निपातिना।
करु परिच्युतौ तस्य पापपादपपल्लवौ॥ ४५॥

तद्वृत्तं विस्मितः श्रुत्वा मृगेण कथितं नृपः।
अभूत्कृतघ्नचरिते धिक्कारमुखराननः॥ ४६॥

ततः क्षितिपतिः प्रीत्या परया मृगम्।
तम् निनाय स्वनगरीं गौरवेण गरीयसा॥ ४७॥

राजधानीमथासाद्य तस्मै रत्नासनं नृपः।
दत्वा सान्तःपुरामात्यस्तस्याग्रे समुपाविशत्॥ ४८॥

स बोधिसत्त्वो हरिणस्तस्यां पर्षदि दिव्यधीः।
धर्मं दिदेश येनाभूज्जनः शिक्षापदान्वितः॥ ४९॥

सुवर्णपार्श्वः सारङ्गः सोऽयमेवाभवं पुरा।
योऽभवत् कुटिलः क्रूरो देवदत्तः स चाधुना॥ ५०॥

इति सुकृतचितं भगवता भवभीतिभिदा
कथितमुदारसत्त्वरुचिरस्य ततश्चरितम्।
प्रशममयं निशम्य कुशलाय स भिक्षुगणः
किमपि बभूव पुण्यपरिपाकविवेकरुचिरः॥ ५१॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां
सुवर्णपार्श्वावदानं त्रिंशः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project