Digital Sanskrit Buddhist Canon

२८.धनपालावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
२८ धनपालावदानम्।

दौर्जन्यदुःसहविशालखलापकारै-
र्नैवाशये विकृतिरस्ति महाशयानाम्।
व्यालोल्वणक्षितिभृदाकुलितोऽपि सिन्धु-
र्नैवोत्ससर्ज हृदयादमृतस्वभावम्॥ १॥

पुरे पुरा राजगृहे बह्गवान् वेणुकानने।
कलन्दकनिवासाख्ये विजहार मनोहरे॥२॥

तत्र वित्रासितानेकशत्रिनिस्त्रिंशबान्धवः।
अजातशत्रुनामाभूद् बिम्बिसारसुतो नृपः॥ ३॥

शाक्यवंश्यः सुहृत्तस्य देवदत्ताभिधोऽभवत्।
क्षुद्रमन्त्रेण यस्यासीत् स वेताल इवोत्कटः॥ ४॥

स कदाचित्सुखासीनं रहः प्राह महीपतिम्।
न राजन् फलितोऽद्यापि ममापि त्वत्समाश्रयः॥ ५॥

निथोपचाररहितः सुखनिर्यन्त्रतन्त्रयोः।
मिथो मनोरथत्राणान्मित्रशब्दः प्रवर्तते॥ ६॥

य एष शाक्यश्रमणः सुखे वेणुवने स्थितः।
तं हत्वा प्राप्तुमिच्छामि तत्पदं देववन्दितम्॥ ७॥

क्षीयते न यया शत्रुर्लभ्यते न यया यशः।
वर्धते न यया मानः किं तया मित्रसंपदा॥ ८॥

महाधनाभिधानेन तत्पौरेण निमन्त्रितः।
स पुरं प्रातरागन्ता दाम्भिकः सह भिक्षुभिः॥ ९॥

राजमार्गं प्रविशतः स तस्य व्यालकुञ्जरः।
उत्सृज्यतामभिमुखः क्रोधान्धो धनपालकः॥ १०॥

इत्युक्ते देवदत्तेन नृपतिर्मित्रवत्सलः।
बुद्धप्रभावं संचिन्त्य नाह किंचिदवाङ्भुखः॥ ११॥

देवदत्तोऽपि निर्गत्य राजसौहार्ददुर्मदः।
प्राह हस्तिमहामात्रं हारं दत्वास्य तोषणम्॥१२॥

श्रमणः प्रातरागन्ता पुरं भिक्षुशतैर्वृतः।
प्रेरणीयस्त्वया तस्मै गज इत्याह भूपतिः॥ १३॥

देवदत्तवचः श्रुत्वा तथेत्युचे द्विपाधिपः।
श्रेणी हि मेषमूर्खाणामेकयातानुपातिनी॥ १४॥

ज्ञात्वापि तमभिप्रायं सर्वज्ञः पापचेतसाम्।
प्रातः समाययौ सार्धं भिक्षूणां पञ्चभि शतैः॥ १५॥

अथ हस्तिपकोत्सृष्टः कृष्टप्रासादपादपः।
तमभ्यधावदाविद्धः क्रोधान्धः क्रूरकुञ्जरः॥ १६॥

अनायत्तः परिचयादङ्कुशस्य गुरोरपि।
खलविद्धानिव द्वेषी मदेन मलिनीकृतः॥ १७॥

सेवव्यसनसक्तानामसकृत्कर्णचापलात्।
प्राणापहारी भृङ्गाणां भृत्यानामिव दुष्पतिः॥ १८॥

मन्दरोपद्रवे तस्मिन् द्रुमद्रोहिण्यभिद्रुते।
विद्रुते सहसा लोके हाहाकारो महानभूत्॥ १९॥

तस्याञ्चत्कर्णतालानिलतुलितसरत्सान्द्रसिन्दूरपूरैः
संपूर्णे राजमार्गे च्युतचकितवधूरक्तवस्त्रासमानैः।
उद्दण्डोच्चण्डशुण्डभ्रमणरवलसत्साध्वसायासिताशा
व्यालोलालकाभभ्रमरमिलद्विभ्रमः संभ्रमोऽभूत्॥ २०॥

पुरप्रमाथव्यथिते जने कोलाहलाकुले।
आरुरोह महाहर्म्यं देवदत्तः प्रमत्तधीः॥ २१॥

भगवद्ग्रहणं द्रष्टुं सोऽभवद्भृशमुत्सुकः।
उन्मूलनेन गुणिनां मातङ्गः परितुष्यति॥ २२॥

विद्रुतेषु गजत्रासात् तेषु सर्वेषु भिक्षुषु।
आनन्द एक एवाभूद् भिक्षुर्भगवतोऽन्तिके॥ २३॥

तत्र पञ्चाननाह् पञ्च निर्ययुर्भगवत्करात्।
करालकेसरसटास्तन्नखांशुचिता इव॥ २४॥

द्विपस्तद्गन्धमाग्राय पर्दापस्मारवारणम्।
अभूत् स्रुतशकृन्मूत्रः सहसैव पराङ्मुखः॥ २५॥

जवेन विद्रुतस्तत्र दन्ती दर्पदरिद्रताम्।
प्राप्तः प्रदीपदहनाः स ददर्श दिशो दश॥ २६॥

स विलोक्य जालवह्निज्वलज्ज्वालाकुलं जगत्।
पादपद्मान्तिकं शास्तुः शीतलं समुपाययौ॥ २७॥

संकोचाभिरुचेः सचिन्तमनसः प्रध्वस्तवक्त्रद्युते-
र्दैन्यापन्नविहीनदानमधुपप्रारब्धकोलाहलः।
लोभान्धस्य महाव्ययोत्सव इव क्लेशोष्मनिश्वासिन-
स्तस्याभूत्परितापनिश्लथगतेर्भारायमाणः करः॥ २८॥

तं पादमूलमायान्तं भीतं कारुण्यसागरः।
शास्ता करेण पस्पर्श चक्रस्वस्तिकलक्ष्मणा॥ २९॥

कुम्भविन्यस्तहस्तस्तं प्रोवाच भगवान् जिनः।
पुत्र स्वकर्मणैनेमां प्राप्तोऽसि त्वमिमां दशाम्॥ ३०॥

विवेकालोकहलदः कायोऽयं मांसभूधरः।
भारस्ते मोहसंभारः पापादुपनतः परः॥ ३१॥

इत्युक्ते करुणर्द्रेण भितो भगवता गजः।
स लब्धश्चासमालानलीनो निश्चलताम् ययौ॥ ३२॥

देवदत्तस्य संकल्पे कुञ्जरे च महोत्कटे।
भग्ने निर्विघ्नहर्षोऽभूत्समुद्गताद्भुतो जनः॥ ३३॥

ततः कृत्वा गृहपतेर्गृहे भोज्यप्रतिग्रहम्।
भगवान् भिक्षुभिः सार्धं काननं गन्तुमुद्ययौ॥ ३४॥

अभिसृत्य गजेन्द्रोऽपि जिनस्य चरणाब्जयोः।
कृत्वा करेण संस्पर्शं वपुस्तत्याज कौञ्जरम्॥ ३५॥

चातुर्महाराजिकेषु देवेषु विशदद्युतिः।
उपपन्नः स सहसा सुगतं द्रष्टुमाययौ॥ ३६॥

स्वमाश्रमपदं प्राप्तं भगवन्तमुपेत्य सः।
प्रणनामार्कसंकाशं प्रदीप्तमणिकुण्डलः॥ ३७॥

तस्य केयूरमुकुटप्रभापल्लवपूरिताः।

शक्रचापैरिव व्याप्ता विरेजुर्घनराजयः॥ ३८॥

विनयादुपविश्याग्रे स शास्तुः स्रस्तकल्मषः।
तं दिव्यपुष्पैराकीर्य सत्त्व शुभ्रैरभाषतः॥ ३९॥

भगवन् भवतः पादपद्मसंस्पर्शनेन मे।
दुर्दशादुःखसंतापः शान्तः संतोषशालिनः॥ ४०॥

शमश्लाघ्या कापि व्यसनविषदोषोष्मशमनी
सुधावृष्टिर्दृष्टिर्बत भगवतः स्निग्धमधुरा।
यया स्पृष्टस्पृष्टं खरतरविकारव्यतिकरं
विमुत्यान्तःशान्तिं श्रयति हतमोह पशुरपि॥ ४१॥

इति तस्य ब्रुवाणस्य भगवान् भवशान्तये।
सत्यदर्शनसंशुद्धां विदधे धर्मदेशनाम्॥ ४२॥

मौलिमुक्तांशुशुभ्रेण शिरसा चरणद्वयम्।
स शास्तुः प्रययौ नत्वा हसन्निव भवभ्रमम्॥ ४३॥

गते तस्मिन् मुखशशिप्रकाशितनभस्तले।
भगवान् भिक्षुभिः पृष्टस्तद्वृत्तान्तमभाषत॥ ४४॥

पूर्वकल्पान्तरे शास्तुः काश्यपाख्यस्य शासने।
अभूत्प्रव्रजितोऽप्येष शिक्षापदनिरादरः॥ ४५॥

अनादरात्कुञ्जरताभोगः संघोपसेवनात्।
सत्यदृष्टिबलेनान्ते संप्राप्तः शासनग्रहः॥ ४६॥

प्राग्जन्मविहितं कर्म कस्यचिन्न निवर्तते।
कर्मोपदिष्टसंबन्धभक्तिभोगैः सचेतसः॥ ४७॥

तस्मिन् व्यतिकरे घोरे सर्वैस्त्यक्रोऽस्मि भिक्षिभिः।
न त्वानन्देन तत्रापि श्रूयताम् पूर्वसंगतिः॥ ४८॥

शशाङ्कशीतसरसि भ्रातरौ रुचिरौ पुरा।
पूर्णमुखः शुखश्चेति राजहंसौ बभूवतुः॥ ४९॥

कदाचिद्ब्रह्मदत्तस्य वाराणस्यां महीपतेः।
ब्रहममतीं पुष्करिणीं रम्यां पूर्णमुखो ययौ॥ ५०॥

स तस्यां लोलकमलकिञ्जल्कपरिपिञ्जरः।
विजहार सरोजिन्यां हंसानां पञ्चभिः शतैः॥ ५१॥

पूर्वपुण्यानुभावेन तं रूपातिशयोज्ज्वलम्।
ददर्शं कार्याण्युत्सृज्य जनो निश्चललोचनह्॥ ५२॥

तं श्रुत्वा भूपतिस्तत्र स्थितं तद्दर्शनोत्सुकः।
कुशलान् ग्रहणे तस्य व्यसृजज्जालजीविनः॥ ५३॥

तस्मिन् गृहीते नलीनीलीलास्मितसितत्विषि।
शतानि पञ्च हंसानां त्यक्त्वा तं प्रययुर्जवात्॥ ५४॥

एकस्तु तस्य सौजन्यादबद्धोऽपि सुबद्धवत्।
तदर्थं व्यथितस्तस्थौ प्रेमपाशवशीकृतः॥ ५५॥

ततस्तैः प्रापितं राजा राजहंसं विलोक्य तम्।
स्नेहबद्धं द्वितीयं च विस्मितस्ताववलोकयत्॥ ५६॥

हंसः पूर्णमुखः सोऽहमानन्दस्तस्य चानुगः।
गतास्तदद्य च त्यक्त्वा मां गंसा एव भिक्षवः॥ ५७॥

पूर्वस्मिन्नबह्वत्काले वाराणस्यां महीपतिः।
तुत्तुर्नाम मनःपट्टे लिखितं यद्यशः परैः॥ ५८॥

सहस्रयोधस्तस्याभूद् दाक्षिणात्यो निरत्ययः।
करदण्डीति विख्यातः संग्रामाग्रेसरः प्रियः॥ ५९॥

कदाचिद् घोरसमरे पञ्चामात्यशतानि तम्।
नृपं त्यक्त्वा ययुर्भीत्या करदण्डी तु नात्यजत्॥ ६०॥

अहमेव स भूपालः सचिवास्ते च भिक्षवः।
करदण्डी स एवायमानन्दो न जहाति माम्॥ ६१॥

जन्मान्तरेऽपि सिंहोऽहं मासं कूपे निपातितः।
उपेक्षितः क्षणाद्भृत्यैः शृगालैर्येऽद्य भिक्षवः॥ ६२॥

एकेन च नखैः खातं दीर्घं कृत्वास्मि मोक्षितः।
जम्बुकेन स एवायमानन्दोऽद्य ममानुगः॥ ६३॥

कूटपाशनिबद्धस्य मृगयूथपतेः पुरा।
लुब्धकागमने एव जग्मुस्तदनुगा मृगाः॥ ६४॥

अनुरक्ता न तत्याज तं मृगी साश्रुलोचना।
प्रीतिशृङ्खलया बद्धा याता निस्पन्दतामिव॥ ६५॥

अथ लुब्धकमायान्तं दृष्ट्वा मृगवधोद्यतम्।
सावदन्मम बाणेन प्रथमं हर जीवितम्॥ ६६॥

इति स्पष्टगिरा तस्याः स्नेहेन च स विस्मितः।
मुमोच लुब्धकः प्रीत्या हरिणं हरिणीसखम्॥ ६७॥

मॄगयूथपतिः सोऽहमानन्दः सा कुरङ्गिका।
इत्येष प्रीतिसंबन्धः प्राग्वृत्तमनुवर्तते॥ ६८॥

श्रुत्वेति वाक्यं सुगतस्य सर्वे
लज्जानिलीना इव भिक्षवस्ते।
सानन्दमानन्दमुखारविन्दं
प्रभाभिरामं ददृशुः स्पृहार्द्राः॥ ६९॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां
धनपालावदानं अष्टविंशः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project