Digital Sanskrit Buddhist Canon

२७.श्रीणाकोटीविंशावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
२७ श्रीणाकोटीविंशावदानम्।

स कोऽपि सत्त्वस्य विवेकबन्धोः
पुण्योपसन्नस्य महान् प्रभावः।
नापैति यः कायशतेषु पुंसः
कस्तूरिकामोद इवांशुकस्य॥ १॥

जिने सर्वजगज्जन्तुसंतापकरुणाह्रदे।
पुरे राजगृहे वेणुवनान्तरविहारिणि॥२॥

श्रीमानभूद्भूमिपतिश्चम्पायां पोतलाभिधः।
जहार धनदर्पान्ध्यं धनेन धनदस्य यः॥ ३॥

अजायत सुतस्तस्य मनोरथशतान्वितः।
धनानामीप्सितावाप्त्य सुखसख्यो विभूतयः॥ ४॥

श्रवणर्क्षेण जातस्य स सूनोस्तस्य जन्मनि।
प्रीत्या ददौ दरिद्रस्य कोटीनां विंशतिं तदा॥ ५॥

स श्रोणकोटिविंशाख्यः शिशुः ख्यातस्तदाभवत्।
विभवः सुकृतेनैव येन वंशो विभूषितः॥ ६॥

प्राप्तविद्यः स सर्वार्थैः सह वृद्धिमुपागतः।
चकार सुखविश्रान्तिं व्यवहारधरः पितुः॥ ७॥

स कदाचित्प्रभापुञ्जमिव् सूऱ्यस्य मण्डलात्।
अवतीर्णं पुरप्रातं मौद्गल्यायनमब्रवीत्॥ ८॥

को भवानर्कसंकाशः प्रकाशितदिगन्तरः।
त्रिदशेशः शशाङ्को वा देवो वा द्रविणेश्वरः॥ ९॥

स तं बभाषे न सुरः शिष्यो भगवतस्त्वहम्।
बुद्धस्य विबुधाधीशवन्द्यमानगुणश्रियः॥ १०॥

स्वच्छं तस्य प्रयच्छन्तं पिण्डपातं महामुनेः।
सत्त्वशुद्धोदयावाप्तं भोग्यं भगवतः प्रियम्॥ ११॥

इति श्रोणस्य भगवन्नाम्ना श्रवणगामिना।
रविभक्रस्य जात्यापि रोमाञ्चः समजायतः॥ १२॥

प्राग्जन्मवासनायुक्तः स्वभावो यस्य यः स्थितः।
स तस्योदीरणेनापि स्फुट एव विभाव्यते॥ १३॥

स तस्मै विंशतिस्थालीभागं नाकजनोचितम्।
प्रहिणोद्भक्तिसंसक्तश्रद्धायुक्तेन चेतसा॥ १४॥

ततस्तं प्रेषितं तेन भगवान् भक्तिसंसदा।
अनुग्रहाग्रहव्यग्रः समग्रं स्वयमग्रहीत्॥ १५॥

अस्मिन्नवसरे भक्त्या स्थालीभागं नृपोचितम्।
समादाय स्वयं राजा बिम्बिसारः समाययौ॥ १६॥

श्रोणप्रहीतभोगानामामोदं तत्र पार्थिवः।
आघ्राय शक्रप्रहितं सर्वं दिव्यममन्यत॥ १७॥

पात्रशेषं भगवता दत्तमास्वाद्य भूपतिः।
श्रोणेन प्रेषितं श्रुत्वा तदनु विस्मयं ययौ॥ १८॥

भगवन्तं प्रणम्याथ राजधानीं नरेश्वरः।
प्रविश्याचिन्तयत्स्फीतां दिव्यां श्रोणस्य संपदम्॥ १९॥

गच्छामि तं स्वयं गत्वा द्रष्टव्योऽसौ अम्हायशाः।
इति निश्चित्य सचिवैः स यात्रारम्भमादिशत्॥ २०॥

पोतलः क्षितिपं ज्ञात्वा स्वयमागमनोद्यतम्।
नीतिज्ञं पुत्रमेकाण्ते श्रोणकोटिमभाषत॥ २१॥

पुत्र त्वाम् द्रष्टुमायाति वर्णाश्रमगुरुर्नृपः।
इत्येष भृशमुत्कर्षः सदोषः प्रतिभाति मे॥ २२॥

क्षितीशा लक्षतां यातंपक्षपातोद्यता इव।
अविलम्बितमाघ्नन्ति शरा इव गुणच्युताः॥ २३॥

भृत्यानामपि विद्वेष्यो भवत्यतिशयोन्नतिः।
अभिमानैकसाराणां किं पुनः पृथिवीभूजाम्॥ २४॥

रूपे वयसि सौभाग्ये प्रभावे विभवे श्रुते।
स्वसुतस्यापि संघर्षान्नोत्कर्षं सहते जनः॥ २५॥

जने द्वेषमये पुत्र गुणमाच्छाद्य जीव्यते।
आच्छादितगुणः पद्मः प्रियस्तीक्ष्णरुचेरपि॥ २६॥

उद्धतः कस्य न द्वेष्यः प्रणतः कस्य न प्रियः।
द्रुमं पातयति स्तब्धं नम्त्रं रक्षति मारुतः॥ २७॥

स चाभिगम्यो भूपालस्त्वां यदि स्वयमेष्यति।
तदेषं दर्पमोहस्ते श्रेयसे न बह्विष्यति॥ २८॥

तस्मादितः स्वयं गत्वा प्रणम्यं प्रणम प्रभुम्।
नक्षत्रराशिसदृशं दत्वा हारमुपायनम्॥ २९॥

पितुः श्रुत्वेति वचनं श्रोणकोटिर्हहीपतिम्।
प्रययौ नावमारुह्य द्रष्टुं रत्नविभूषितः॥ ३०॥

स राजधानीमासाद्य प्राप्य दृष्ट्वा च भूपतिम्।
ददौ हारं पर्णम्यास्मै हर्षहासमिव श्रियः॥ ३१॥

तं दृष्ट्वा स्वयमायातं नृपतिः स्निग्धया दृशा।
हेमरोमाङ्कचरणं विस्मयादित्यभाषत॥३२॥

अहो पुण्यमहेशाख्यः कोऽपि त्वं सत्त्वबाम्धवः।
यस्य संदर्शनेनैव मनोवृत्तिः प्रसीदति॥ ३३॥

गुणेभ्यः परमैश्वर्यमैश्वर्यात्सुखमुत्तमम्।
सुखेभ्यः परमारोग्यमारोग्यात्साधुसंगमः॥ ३४॥

अपि दृष्टस्त्वया साधो भगवान् वेणुकानने।
तत्पादपद्मयुगलं द्रष्टुमर्हसि मे मतः॥ ३५॥

इत्युक्ते क्षितिनाथेन सौजन्यात्पक्षपातिना।
तं श्रोणकोटीविंशोऽपि प्रणयात्प्रत्यभाषत॥ ३६॥

अस्मादतुल्यकल्याणात्प्रसादाद्देवदेव ते।
अधुना योग्यतायाता भगवद्दर्शने मम॥ ३७॥

इत्युक्ते तेन सहितः प्रतस्थौ स्थितिकोविदः।
भक्त्या तथागतं द्रष्टुं पद्भ्यामेव महीपतिः॥ ३८॥

अस्पृष्टपादस्य भुवा श्रुणस्याजन्मवासरात्।
महार्हवस्त्रैः प्रस्थाने भृत्यैराच्छादिता मही॥ ३९॥

भगवद्भक्तिविनयाद्गौरवाच्च स भूपतेः।
वस्त्राण्यवारयद्भृत्यैरवाच्च इव क्षितौ॥ ४०॥

वारितेष्वथ वस्त्रेषु दिव्यवस्त्रैर्वृता मही।
अप्रयत्नोपकरणाः संपदः पुण्यशालिनाम्॥ ४१॥

निवार्य दिन्यवस्त्राणि भूमौ तेनार्पिते पदे।
विचचालाचला पृथ्वी सशैलवनसागरा॥ ४२॥

ततः स भूमिपतिना सह प्राप्य जिनाश्रमम्।
भगवन्तं विलोक्यास्य विदधे पादवन्दनम्॥ ४३॥

उपविष्टस्य तस्याग्रे हृष्टस्यालोकनामृतैः।
चक्रे शमविवेकस्य भगवानभिषेचनम्॥ ४४॥

आशयानुशयं धातुं प्रकृतिं च विचार्य सः।
सत्यसंदर्शनायास्य विदशे धर्मदेशनाम्॥ ४५॥

सत्कायदृष्टिशैलोऽस्य तया विंशतिशृङ्गवान्।
ज्ञानवज्रेण निर्भिन्नः स्रोतःप्राप्तिपदस्पृशः॥ ४६॥

प्रव्रज्यायां ततस्तस्य जातायां सहसा स्वयम्।
भगवन्तं प्रणम्याथ विस्मितः प्रययौ नृपः॥ ४७॥

तीव्रव्रतेऽपि श्रोणस्य कदाचित्समजायत।
वासनाशेषसंस्काराद्बन्धभोगसुखस्मृतिः॥ ४८॥

स तमाहूय भगवान् विलक्षं प्राह सस्मितः।
कोऽयं परिवितर्कस्ते प्रतिसंलीनचेतसः॥ ४९॥

विश्लिष्टात्यन्तकृष्टा वा तन्त्री बह्वति विस्वरा।
समा माधुर्यमायाति तस्मात्साम्यं समाश्रयेत्॥ ५०॥

इत्यादेशाद्भगवतः सर्वसाम्यमुपागतः।
स प्राप विमलज्ञानं पश्चात्तापविवर्जितः॥ ५१॥

तस्य तामद्भुतां सिद्धिं विलोक्य पृथुविस्मयाः।
पप्रच्छुर्भिक्षवः सर्वे भगवन्तंस चाभ्यधात्॥ ५२॥

श्रोणस्य श्रूयताम् श्रेयःकर्म जन्मान्तरार्हितम्।
न ह्यपुण्यानुभावानां भवन्त्यद्भुतसंपदः॥ ५३॥

विपश्वी भगवान् सम्यक्संबुद्धः सुगतः पुरा।
पुरीं बन्धुमतीं नाम जनचारिकया ययौ॥५४॥

तत्र भक्त्या सुकृतिभिर्भक्तायोपनिमन्त्रितः।
वारेण प्रत्यहं गेहं ययौ तेषां सहानुगः॥ ५५॥

ततो दरिद्रःसंप्राप्तवारो ब्राह्मणदारकः।
इन्द्रसोमाभिधश्चक्रे यत्नात् यद्योग्यभोजनम्॥ ५६॥

स प्रयत्नेन महता भोज्यं भक्तिपवित्रितम्।
आछाद्य वस्त्रैर्वसुधां प्रह्वस्तस्मै न्यवेदयत्॥ ५७॥

तद्भोगप्रणिधानेन जातः सोऽयं महाधनः।
सौवर्णरोमचरणः श्रोणकोटी सुरोपमः॥ ५८॥

न वस्त्ररहिता भूमिः स्पृष्टानेन कदाचन।
कम्पस्तच्चरणस्पर्शादत एवाभवद्भुवः॥ ५९॥

इति सुगतवचः सुधाव्दातं
दशनमयूखमिवोन्मिषत्स्वभावम्।
प्रणिहितहृदयः परं निपीय
स्थिरकुशलाय बभूव भिक्षुसंघः॥ ६०॥

इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायां
श्रोणकोटीविंशावदानं सप्तविंशः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project