Digital Sanskrit Buddhist Canon

२३.विश्वंतरावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
२३ विश्वंतरावदानम्।

चिन्तारन्तादध्करुचयः सर्वलोकेष्वनिन्द्या
वन्द्यास्तेऽन्यैः पुरुषमणयः केऽप्यपूर्वप्रभावाः।
येषां नैव प्रियमपि परं पुत्रदारादि दत्वा
सत्त्वार्थानाम् भवति वदनम्लानता दैन्यदूती॥१॥

भगवान् भिक्षुभिः पृष्टः पुरा शाक्यपुरे जिनः।
जगाद पूर्ववृत्तान्तं देवदत्तकथान्तरे॥२॥

पुरी बभूव विश्वाख्या विश्वासवसतिः श्रियः।
विश्वोपकारसक्तस्यसुकॄतस्येव जन्मभूः॥ ३॥

संजयाख्योऽभवत् तस्याममित्रतिमिरांशुमान्।
नेत्रानन्दसुधासूतिर्विचित्रचरितो नृपः॥ ४॥

तस्य विश्वंतरो नाम वदान्यस्तनयोऽभवत्।
अपूर्वत्यागिना येन हृतं कल्पतयोर्यशः॥ ५॥

ईर्ष्याविरहितास्तुल्यं विदग्धेन प्र्साधिताः।
सत्येन भारती येन दानेन श्रीः श्रुतेन धीः॥ ६॥

अद्यापि यस्य दिक्कान्ताकर्णाभरणताम् गतम्।
विभाति केतकीगर्भपलाशविशदं यशह्॥ ७॥

स कदाचिद्ददौ दिव्यरत्नालकारमर्थिने।
अथं विजयसाम्राज्यमनोरथहरं त्विषा॥८॥

दत्ते रथवरे तस्मिन् विस्मयेनाखिलो जनः।
बभूवाक्राण्तहृदयश्चिन्तया च नरेश्वरः॥ ९॥

महामात्यानथाहूय हर्षहीनो महीपतिः।
उवाचोपचितोद्वेगचिन्ताक्रान्तमनोरथह्॥ १०॥

दत्तो रथः कुमारेण स जैत्रः शत्रुमर्दनः।
यत्प्रभावार्जिता सेयं महारथवरूथिनी॥११॥

लक्ष्मी सुखनिषण्णा मे याता निश्चलताम् तया।
रथे सौर्यपथे तस्मिन् जयकुज़्न्जे च कुञ्जरे॥ १२॥

इति राजवचः श्रुत्वा तमभाषन्त मन्त्रिणः।
राजन् दोषस्तवैवायं वात्सल्येन प्रमाद्यतः॥ १३॥

धर्मः कस्य न हर्षाय दानं कस्य न संमतम्।
किं तु मूलहताद्वृक्षान्निवर्तन्ते पलार्थिनः॥ १४॥

विक्रीतः परदेशे च रथस्तेन द्विजन्मना।
इत्युक्त्वा मन्त्रिणः सर्वे शल्यविद्धा इवाभवन्॥ १५॥

अथ कालेन संप्राप्ते वसन्ते मदनोत्सवे।
विपाके सुकृतस्येव हृदयानन्ददायिनि॥ १६॥

स्वयंग्रहोपजीव्यस्य मधोर्मधुकरार्थिनः।
लोकः पुष्पवनैर्यातो यशोभिरिव शुभ्रताम्॥ १७॥

अशोकं लोकसच्छायमुपकारोद्यतं द्रुमम्।
मधु विधूतं संनद्धे कलिकालं कृतं जगत्॥ १८॥

राजपुत्रः समारुह्य कुञ्जरं राजवर्धनम्।
ययौ फुल्लान् वने द्रुष्टुमर्थिकल्पतरुस्तरून्॥ १९॥

व्रजन्तं प्रति सामन्तप्रयुक्तातं द्विजाः पथिः।
बभाषिरे समभ्येत्य स्वस्तिवादपुरःसराः॥ २०॥

चिन्तामणिर्गीयसे त्वं श्लाघ्यो जगति जङ्गमः।
यस्य संदर्शनेनार्थी गाढमालिङ्ग्यते श्रिया॥ २१॥

द्वावेव विश्रुतोत्कर्षविदेषौ भद्रजन्मनि।
दानार्द्रहस्तस्त्वं लोके गजश्चायं स्थिरोन्नतिः॥ २२॥

अस्मभ्यं सुकृत्प्दार कुञ्जरोऽयं प्रदीयताम्।
त्वदन्येन वदान्येन दातुमेष न शक्यते॥ २३॥

इत्यर्थितस्तैः सोत्साहः स तेभ्यस्तु ददौ द्विपम्।
सजीवमिव साम्राज्यं सशङ्खध्वजचामरम्॥२४॥

दत्वा बोधिप्रधानेन शुद्धधीः।
रथरत्नं द्विपेन्द्रं च सोऽभूदानन्दनिर्भरः॥ २५॥
श्रुत्वैव नृपतिर्दत्तं विश्रुतं जयकुज़्न्जरम्।
रक्षाप्रकाररहितां राजलक्ष्मीममन्यत॥ २६॥

स राज्यभ्रंशभीतेन कुपितेन महीभुजा।
निष्कासितः कुमारोऽथ प्रतस्थे प्रणिपत्य तम्॥ २७॥

माद्रीदयितया सार्धं जालिनं नाम दारकम्।
कृष्णाभिधां तथा कन्यामादाय स ययौ वनम्॥ २८॥

वनेऽपि शेष ं स ददौ वाहनादिकमर्थिने।
समं हि महतां सत्त्वं संपत्सु च विपत्सु च॥ २९॥

माद्य्रां कदाचिद्यातायां पुष्पमूलफलाप्तये।
ब्राह्मणःकश्चिदभ्येत्य राजपुत्रमभाषत॥३०॥

परिचारकाहीनाय चतुरौ बालकाविमौ।
देहि मह्यं महासत्त्वं सर्वदो ह्यसि विश्रुतः॥ ३१॥

श्रुत्वैतदविचार्यैव दारकौ दयितौ परम्।
दत्वा स तस्मै सहसा सेहे तद्विरहव्यथाम्॥ ३२॥

धनपुत्रकलत्रादि लोके कस्य नवल्लभम्।
दानादन्यद्वदान्यानां न दयावताम्॥ ३३॥

अथ माद्री समभ्येत्य बालकौ बालवत्सला।
अपश्यन्ती पुरः पत्युः पतितापन्नमूर्च्छिता॥ ३४॥

सा लब्धसंज्ञा दीप्तेन व्याप्ता शोककृशानुना।
शिशुप्रदानवृत्तान्तं श्रुत्वैवाभूत्पलापिनी॥ ३५॥

तस्याश्चेतसि दुःखाग्निरपत्यस्नेहदुःसहः।
प्रियप्रेमानुसृत्यैव प्रययौ पुटपाकताम्॥ ३६॥

अत्राण्तरे समभ्येत्य विप्ररूपः सुरेश्वरः।
भृत्यार्थी दयिताम् पत्नीं राजपुत्रमयाचत॥ ३७॥

याचितस्तेन सहसा शुचं जायावियोगजाम्।
धिया संस्तभ्य सत्त्वाब्धिः स तस्मै विततार ताम्॥ ३८॥

सद्यः प्रदानतरलां संत्रस्तां हरिणीमिव।
सोऽवदद्दयितामन्तः कलयन् बोधिवासनाम्॥ ३९॥

समाश्वासिहि कल्याणि न शोकं कर्तुकर्हसि।
स्वप्नप्रणयकल्पोऽयमसत्यः प्रियसंगमः॥ ४०॥

शुश्रूषया द्विजस्यास्य धर्मे ते रमताम् मतिः।
विलोललोकयात्रायां धर्मः स्थिरसुहृत् सताम्॥ ४१॥

दृष्ट्वा सर्वे स्वजनसुजना बान्धवाश्चानुभूताह्
न्यस्ता कण्ठे क्षणपरिमलम्लायिनी मित्राला।
दारे पुत्रे क्षपितमनिशं यौवनं जीवितं च
प्राप्तो नाप्तश्तिरपरिचयः कोऽपि धर्मादृतेऽन्यः॥ ४२॥

इत्युक्त्वा वल्लभां लोभपरित्यागादुवाह सः।
द्युतिं वदनपद्मेन धैर्यवृत्तिं च चेतसा॥ ४३॥

वियोगशोकविकलां माद्रीं दृष्ट्वा कृपाकुलः।
निजरूपं समाधाय शचीपतिरुवाच् अताम्॥ ४४॥

विषादं मा कृथाह् पुत्रि देवोऽहं त्रिदशेश्वरः।
अर्थिभ्यस्त्वा ददात्येष तस्मादसि मयर्थिता॥ ४५॥

अधुना सैव पत्युस्त्वं न्यासीभूता मयार्पिता।
तं ददात्येष नान्यस्मौ दीयते कथम्॥ ४६॥

करिष्यामि तवावश्यं दारकाभ्यां समागमम्।
इत्युदीर्य सहस्राक्षः सहसाण्तरधीयतः॥ ४७॥

अथ तौ दारकौ विप्रः समादायार्थलिप्सया।
विश्वामित्रपुरं गत्वा लोभाद्वोक्रेतुमुद्यतह्॥४८॥

विश्यामित्रः परिज्ञाय राजपुत्रस्य दारकौ।
जग्राह महतार्थेन बाष्पसंरुद्धलोचनः॥ ४९॥

कालेन त्रिदिवं याते विश्वामित्रमहीपतौ।
भेजे विश्वंतरो राज्यं पौरामात्यगणार्थितः॥ ५०॥

राज्ये विरक्तस्य तस्य दानव्यसनिनः परम्।
सत्त्वेन वर्धमानर्द्धिर्न कश्चिद् याचकोऽभवत्॥ ५१॥

तद्वित्तपूर्णविभवो ब्राह्मणः सोऽपि जम्बुकह्।
कृतघ्नः स्वप्रभावान्मे संपदित्यभ्यधाज्जनम्॥ ५२॥

विश्वंतरः स एवाहम् देवदत्तः स च द्विजः।
उक्त्वेति चक्रे भगवान् भिक्षूणां दानदेशनाम्॥ ५३॥

आलम्बनं श्वभ्रशतावपाते
घोरान्धकारे सुचिरप्रकाशः।
आश्वासनं दुःसहदुःखकाले
दानम् नराणां परलोकबन्धुः॥ ५४॥

इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायां
विश्वंतरावदानम् नाम् अत्रयोविंशः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project