Digital Sanskrit Buddhist Canon

२२.पितापुत्रसमादानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
२२ पितापुत्रसमादानम्।

अहो महार्हं गुणगौरवेण।
विना गुणं यद्वपुषाम् गुरुत्वं
स्थूलोपलानामिव निष्फलं तत्॥ १॥

श्रीमान् पुरा शाक्यपुरे नरेन्द्रः
शुद्धोदनः शुद्धिसुधानिधानम्।
वैराग्ययोगात्सुगतत्वमाप्तं
स्मृत्वा सुतं सुत्सुकतामवापं॥ २॥

सोऽचिन्तयत्पुण्यगुणाधिवासं
सरस्वतीवाससरोरुहश्रि।
मनः प्रसादस्य विलाससौधं
द्रक्षामि सूनोर्वदनं कदाहम्॥ ३॥

एहीति तद्दर्शनलालसेन
ये ये मया जेतवनं विसृष्टाः।
ते ते तदालोकननिर्निमेषं
तत्रैव तिष्ठन्त्यमृतं पिबन्तः॥ ४॥

संप्रेषितस्तस्य मया स नाययौ
योऽप्यात्मतुल्यं प्रणयादुदायी।
स लेखहस्तस्त्रिदिवाभिरामे
तत्रैव लेखत्वमिराभियातः॥ ५॥

संदेशवाक्यं प्रहितं मया यत्
तद्विस्मृतं तस्य मुखेन नूनम्।
सर्वो हि नाम स्वहिताभिलाषी
धत्ते परार्थे किल शीतलत्वम्॥ ६॥

विलोकनेनैत्य निषिञ्च तूर्णं
पीयूषपूरेण ममाङ्गसङ्गम्।
निःसङ्गतो विश्रमतां मुहूर्तं
दयाविधेयः कुरु बन्धुकार्यम्॥ ७॥

इत्येतदाकर्ण्य कथाम् स कुर्यात्
क्षणं विलम्बं मम दर्शनेऽपि।
तच्चेतसः पल्लवपेशलस्य
न हि स्वभावः प्रणयावभङ्गः॥ ८॥

मनोरथेनेति पुरः प्रयाते
तद्दर्शनायेव धराधिनाथे।
प्रव्रज्या व्यञ्जिततत्प्रसादः
समाययौ हर्षरसादुदायी॥ ९॥

दृष्ट्वा तमानन्दविपूर्णमानसं
प्रव्रज्यया तत्सदृशानुभावम्।
उत्कण्ठितः कुण्ठितधैर्यवृत्तिः
संमोहमूर्च्छां नृपतिः प्रपेदे॥ १०॥

स लब्धसंज्ञः शिशिरैः पयोभिः
पप्रच्छ तं किं नु समेष्यतीति।
सोऽप्यब्रवीद्देव दिनैर्भवन्त-
मसंभृतैः सादरमेष्यतीति॥ ११॥

ततः प्रयातेषु दिनेषु केषु
व्योम्ना शनैर्भिक्षुगणानुयातः।
सहाययौ नाकसदाम् निकायैः
सर्वार्थसिद्धैर्भगवान् कुमारः॥ १२॥

द्युसुन्दरीपाणिसरोजमुक्त-
मन्दारमालाकलितश्चकाशे।
स्वर्गीयगङ्गास्फुटफेनकूट-
विलासहासाङ्ग इवामराद्रिः॥ १३॥

संघट्टभिन्नाभ्रसखैः स्खलिद्भिः
सशब्दजाम्बूनदकिङ्किणीकैः।
बभुर्विमानैः ककुभां मुखानि
भक्त्येव शास्तुर्विहितस्तवानि॥१४॥

निरन्तरैरन्तरिवार्कतारैः
सुरैः सविद्याधरसिद्धसंघैः।
पर्याप्तसंसक्तसितातपत्रै-
र्व्याप्तः समाप्तिं गगनं जगाम॥ १५॥

तं सर्वलोकोपकृतिप्रपन्नम्
सर्वाकृतिं सर्वमयावभासम्।
समापतन्तं नभसोऽथ दिग्भ्यः
क्षितेश्च सर्वे ददृशुः क्षणेन॥ १६॥

प्रहर्षराशिं जनलोचनानाम्
पुण्यप्रमाणं सुकृतोत्सवानाम्।
लोकस्तमालोकनिधिं विलोक्य
समुल्ललन्नुच्छलिताद्भुतोर्मिः॥ १७॥

आश्चर्यभूतं रुचिरप्रभाव-
मुदायिना सूचितमाकलय्य।
जगद्गुरुं भूमिपतिः कुमारं
कृताञ्जलिस्तं प्रणनाम दूरात्॥ १८॥

अथावतीर्यार्यजनानुयातः
संपूज्यमानः प्रणयेन राज्ञा।
स्फीटप्रभाभासितदिग्विभागां
न्यग्रोधिनीं रत्नभुवम् विवेश॥ १९॥

हेमासनं शासनसंनिविष्टं-
लोकत्रयः संगतपादपीठम्।
स तत्र रत्नाङ्कुरचित्रपत्रं
भास्वद्वपुर्मेरुन्॥ २०॥

तन्मानसेन्दोर्नयनामॄतौघं
मनोरथप्रार्थनयोपयातम्।
विलोकयन्निर्वृतिनिर्निमेषः
क्षणं क्षितीशस्त्रिदशत्वमाप॥ २१॥

स तं जगादाश्रुनिरुद्धकण्ठः
सोत्कर्षहर्षाकुलितं कुमारम्।
हाराग्ररत्नप्रतिबिम्बसक्तं
प्रवेशयन् प्रीतिरसादिवान्तः॥ २२॥

संतोषशीताचलवत् स्वभावात्
सर्वे रमन्ते कुशलस्थलीषु।
कृतस्त्वयास्माकमयं तु कस्मात्
सत्सूपकारी विरहोपदेशः॥ २३॥

स्नेहात्प्रमोदाद्गुणगौरवाच्च
धीर्धावतीयं त्वयि मे प्रसह्य।
आलिङ्गनाय स्थिरसंगमाय
पादप्रणामाय च तुल्यमेव॥ २४॥

यद्वस्तु किंचिद्गदितं मया तत्
श्रोतव्यमेव प्रणयोपरोधात्।
गुणोज्झितं वा विरसक्रमं वा
न स्नेहमोहस्य भवत्यवाच्यम्॥ २५॥

प्रत्यर्णरत्नप्रतिबिम्बितार्क-
प्रौढप्रभाप्रावरणान्यमूनि।
त्वं हेमहर्म्याणि विहाय कस्मात्
विगाहसे शून्यवनान्तराणि॥ २६॥

कान्ताकरावर्जितहेमकुम्भ-
सत्सौरभाम्भःप्रवराभिषिक्तः।
एकः कथं स्नासि विकासिपांशु-
संतप्ततोयासु मरुस्थलीषु॥ २७॥

गण्डस्थलात् कुण्डलरत्नकान्ति
किं लम्बितं मण्डनमेव वेत्सि।
कस्मादकस्मात्तव निःसुखस्य
न चन्दनं नन्दनमिन्दुशुभ्रम्॥ २८॥

महाविताने शयने नृपार्हे
शेषे न किं शेषविशेषशुभ्रे।
लक्ष्मीनवालिङ्गनभोगयोग्या
कथं तनुस्ते सहते कुशय्याम्॥ २९॥

कान्तास्मितोर्मिप्रतिमांशुकार्हं
किं चीवरस्योचितमेतदङ्गम्।
पाणौ च लीलाकमलास्पदेऽस्मिन्
पात्रं कथं ते प्रियमद्य जातम्॥ ३०॥

अयं विहारस्तव कण्ठपीठः
सोत्कण्ठकान्ताभुजबन्धनार्हः।
संभोगलक्ष्मीक्षपितप्रमोदः
करोत्यकस्मात् प्रणयावभङ्गम्॥ ३१॥

रूपं विलक्षीकृतपुष्पचापं
मत्तेभकुम्भोच्चकुचा विभूतिः।
रतेर्विलास्प्पवनं वयश्च
केनासमस्ते कलितो विरागः॥ ३२॥

श्रत्वेति तं शीलनिधिर्बधाषे
शशाङ्कलेखाललितस्मितेन।
संक्रान्तनानानृपरत्नरागां
कुर्वन्नलक्षामिव राजलक्ष्मीम्॥ ३३॥

राजन् जरारोगहतेव न स्या-
त्तरङ्गलोला यदि जीववृत्तिः।
तत्कस्य न स्यादनिशं प्रहर्ष-
पीयूषवर्षी विषयाभिलाषः॥ ३४॥

शमामृतास्वादनसुस्थिराणा-
मपातनं शून्यवनान्तभूमेः।
विभूतिलीलामदविह्वलानां
हर्म्याणि पर्यन्तनिपातनानि॥ ३५॥

सकुङ्कुमैः स्नान्तिः नृपाः पयोभिः
सरागतां यैः सततं प्रयान्ति।
संतोषशीलस्तु मनः प्रसाद-
शुद्धाम्बुधौता विमलीभवन्ति॥ ३६॥

श्रोत्रं श्रुतेनैवन कुण्डलेन
दानेन पाणिर्न तु कङ्कणेन।
विभाति कायः करुणाकुलानां
परोपकारेण न चन्दनेन॥ ३७॥

एतानि मोहाहतवल्लभानि
संसक्तमुक्तांशुसितस्मितानि।
सतां न भोग्यानि भवन्ति भूभृ-
दुच्छिष्टशिष्टानि विभूषणानि॥ ३८॥

रागातुराणां रितुपापितानां
निद्रा धनध्यानवतां न नाम।
शय्यासु सुस्पर्शवतीषु राज्ञा
सर्वत्र शान्तः सुखमेव शेते॥ ३९॥

निर्मोककान्तेन वराम्शुकेन
भुजङ्गवृत्तिर्न तु चीवरेण।
पात्रं पवित्राणि समाप्लितानि
पीयूषमैत्राण्यशनानि सूते॥ ४०॥

छत्राणि वक्र्क्रं भृशमप्रकाशं
मनिविलोलं व्यजनानिलौघाः।
संसक्तजाङ्यं हृदयं नृपाणां
कुर्वन्ति हारा हरिचन्दनार्द्राः॥ ४१॥

वियोगरोगानुगता विभूतिः
कान्ताह् क्षणान्ता विरसो विलासः।
यस्मिन्नपायः सततानुशायी
स कस्य भोगः सुभगोपयोगः॥ ४२॥

जाड्यं सजृम्भं जनयत्यजस्रं
तनोति तृष्णाभ्रममोहमूर्च्छाः
करोत्यसह्यं सरसत्वमेव
भोगोपभोगः प्रसभप्रयोगः॥ ४३॥

यदा सुखश्रीर्नवचन्द्रलेखा
प्रभातपुष्पाण्यपि यैवनाणि।
कर्मोर्मिमालाग्रहणं शरीतं
तदा ममायं गमितोऽनुरागः॥ ४४॥

सचामराह् सध्वजपुञ्जपट्टाः
सवाजिवाला द्विपकर्णतालाः।
स्वभावलोलाः किल राजलक्ष्म्यः
सर्वे विलासाह् क्षणभङ्गसङ्गाः॥ ४५॥

उक्त्वेति तत्तत्कुशलाय राग़्य-
श्चित्तप्रसादं परमं विधाय।
स शान्तिकल्लोलसुधाप्रवाहं
किरन् दृशा पार्षदमालुलोके॥ ४६॥

मनीषिणां शाक्यकुलोद्गतानां
सप्तायुतानि प्रतिपाद्य धर्मम्।
चक्रे सहस्राणि च सप्त तत्र
संप्राप्तपर्याप्तविशेषभाञ्जि॥ ४७॥

शक्लोदनाद्यैः कुशलोपपन्नैः
गणेऽथ तत्तुल्यसहस्रसंख्यैः।
द्रोणोदनाद्यैरमृत्प्दनाद्यै -
श्चित्तप्रसादः सुमहानवाप्तः॥ ४८॥

केचिद्ययुः श्रावकबोधियुक्तः-
प्रत्येकबोधौ निरताश्च केचित्।
सम्यक् तथानुत्तरबोधिसक्ताः
परे बभूवुर्गगनप्रसन्नाः॥ ४९॥

स्रोतः परिप्राप्तफलं ततोऽन्ये
सकृत्तथागामिफलं तथान्ये।
अन्येऽप्यनागांइफलं तदापु-
रर्हत्फलं क्लेशविमुक्तिमन्ये॥ ५०॥

एकस्तु तत्रार्जितपापशाप-
स्तमःसमूहोपहितप्रमोहः।
मायेयमित्याह हसन् जनानाम्
सत्यस्थितिं संसदि देवदत्तः॥ ५१॥

नृपं तु वात्सल्यनिलीनमेव
पुत्रोदयात्प्रत्युपजातदर्पम्।
मौद्गल्यभिक्षुर्जिनशासनेन
महर्द्धिभिर्वीतमदं चकारम्॥५२॥

दृष्ट्वापि राजा भगवत्प्रभावं
नात्यद्भुतम् पौरुषमेव मेने।
अभ्यासलीनानि जनस्य नूनं
सोत्कर्षकृत्यानि न विस्मयाय॥ ५३॥

अथापरेद्युर्भगवान् सुरेन्द्र-
संपादिते हेममहाविमाने।
सुमेरुशीर्र्ष्णीव समानकान्तौ
सिंहासने रत्नमये न्यषीदत्॥ ५४॥

ब्रह्मेन्द्रमुख्येषु ततः सुरेषु
तत्रोपविष्टेषु पृथुप्रभेषु।
बभुस्तदुष्णीषशिखाविलासै -
श्चन्द्रांशुमालाजटीला इवाशाः॥ ५५॥

अन्योन्यसंघट्टविलोलहारै-
र्धनावहारैस्त्रिदशैर्विशद्भिः।
निरन्तराम् ताम् भवमेत्य राजा
द्वारेषु मार्गान्न चतुर्षु लेभे॥ ५६॥

सभ्रूभ्रमैस्तत्र कुवेरमुख्यै-
र्निवार्यमाणाभिमतप्रवेशह्।
विच्छायवक्रः स्खलिताभिधायी
भूभृत्परं निष्प्रतिभो बभूव॥ ५७॥

प्रवेशितस्तैर्जिनशासनेन
कदाचिदासाद्य तदग्रभूमिम्।
शुद्धोदनस्त् अप्रणिपत्य मूर्ध्ना
चित्तप्रसादेन पुरोऽस्य तस्थौ॥ ५८॥

शास्ता तु तस्मै चतुरार्यसत्य-
प्रबोधिकां धर्मकथाम् दिदेश।
ज्ञानेन या विंशतिशृङ्गमस्य
सत्कायदृग्भूधरमप्यब्ःआङ्क्षीत्॥ ५९॥

ततः स गत्वा कृतकृत्यजन्मा
शुक्लोदनं प्राप्त भजस्व राज्यम्।
स्वस्याव्रतीत्तं भगवत्प्रदिष्टं
तच्छासनं मोदयितुं न राज्यम्॥ ६०॥

द्रोणोदने राज्यपराङ्भुखेऽपि
वैराग्ययोगादमृतोदने च।
जग्राह शुद्धोदनसंप्रदिष्टां
तां राजलक्ष्मीमथ भद्रकाख्यः॥ ६१॥

राजार्हभोगैरथ पूजयित्वा
जिनः जनेशः शुचिसंप्रणितैः।
न्यग्रोधधाम प्रतिपाद्य चास्मै
शुद्धोदनं शुद्धमनोरथोऽभूत्॥ ६२॥

द्रोणोदनस्यापि सुतौ युवानौ
राजाज्ञया प्रेरणया च मातुः।
एकस्तु यः प्रव्रजितोऽनिरुद्धः
परो महान्नाम गृही बभूव॥ ६३॥

अथाभवच्चेतसि भद्रक्स्य
राग़्यो विरक्तस्य वनाभिलाषः।
विवेकभाजां प्रशमप्रवृत्तं
नवापि लक्ष्मीर्न मनो रुणद्धि॥ ६४॥

ततः समाहूय स देवदत्तं
राज्याभिषेकप्रतिपन्नचित्तम्।
उवाच मे प्रव्रजनस्य कालः
समागतः किं भवताभिधेयम्॥ ६५॥

तं प्रत्युवाचात्तविवेकदम्भः
सुसंवृतं संसदि देवदत्तः।
राजन्न राज्येऽस्ति ममाभिलाषः
प्रव्रज्यया त्वत्सदृशो भवामि॥ ६६॥

श्रुत्वेति राजा कुटिलस्य तस्य
मिथ्याविनीतस्य कदर्थवाक्यम्।
उदीरितं शाक्यगणस्तवायं
संकल्पसाक्षीति हसन्नुवाच॥ ६७॥

अथार्थतापोपहतः प्रदध्यौ
भोगानुरागादिति देवदत्तः।
मया किमेतदविपातमुक्तं
भजेत वा प्रव्रजितोऽपि राज्यम्॥ ६८॥

राज्यं समुत्सृज्य निजं व्रजन्तः
शाक्यं कुमाराः सह भद्रकाद्याः।
शुद्धोदनं निर्ययुरायवृत्त-
प्रीतिं पुरस्कृत्य रथैर्द्विपैश्च॥ ६९॥

व्रजत्सु सर्वेष्वथ देवदत्तः
किरीटसक्तं पृथिपद्मरागम्।
जहार रक्ताक्तमिवामिषार्थी
श्येनः प्रभापल्लविताम्बरार्कम्॥ ७०॥

नैमित्तिकैरुक्तमथास्य लक्ष्म
दृष्ट्वा तदुग्रं नरकप्रयाणम्।
चित्तं सदोषं किल दुर्निमित्तं
निमित्तमन्यत् पुनरुक्तमेव॥ ७१॥

कोकालिखण्डोत्कटमोरकाणां
तिथ्यादिनाम्नाम् मददुर्मदानां।
संसूचितान्यत्यधिकानि तत्र
तथाविधानैर्बहुलक्षणानि॥ ७२॥

भूपप्रमोदादथ भद्रकोऽपि
तैर्देवदतप्रमुखैः सहैव।
प्रव्रज्यया चीवरपात्रयोगात्
चकार वैराग्यमयीमिव क्ष्माम्॥ ७३॥

राज्ञस्तथा राजकुमारकाणा-
मुत्सृष्टहाराङ्गदकुण्डलानाम्।
सास्रो विरागादवतार्य तेषां
केशानुपाली किल कल्पकोऽभूत्॥ ७४॥

मूर्खः स नीचोऽपि जिनाज्ञयैव
प्रव्रज्यया पूज्यतरो बभूव।
चित्तप्रसादस्य परस्य मन्ये
न कारणं पण्डितता नजातिः॥ ७५॥

सामीचिकायामथ भद्रकोऽपि
ज्ञात्वा नृपः पार्षदिकं तमेनम्।
नीचस्य पादौ कथमस्य वन्दे
महीपति सन्निति निश्चलोऽभूत्॥७६॥

तमब्रवीदस्खलिताभिमानं
विकल्पभिन्नं भगवान् विहस्य।
प्रव्रज्यया मोहमहानुवन्धी
संत्यज्यते जातिमयोऽभिमानः॥ ७७॥

श्रुत्वेति राग़्या सह राजपुत्रैः
कृते प्रणामे ऱ्हिथिवी चकम्पे।
न देवदत्तः परुषाभिधायी
पदौ ववन्दे भगवद्गिरास्य॥ ७८॥

कम्पात् क्षितेर्विस्मितमानसेन
पृष्टस्ततो भिक्षुगणेन शास्ता।
उवच राजा किल कल्पस्य
जन्मान्तरेऽप्यस्य कृतः प्रणामः॥ ७९॥

पुरा युवा काशिपुरे विलोक्य
भद्राभिधानाम् गणीकां दरिद्रः।
सेवाम् व्यघात् सुन्दरकस्तदास्यै
रागो हि सर्वव्य्सनोपदेष्टा॥ ८०॥

तया विसृष्टः कुसुमोच्चयाय
पुनह्पुनर्भृङ्ग इवाधिकार्थी।
तत्सङ्गमानङ्गमनोरथेन
श्रान्तः स बभ्राम वनान्तरेषु॥ ८१॥

अत्रान्तर श्रान्ततरः क्षितीशः
प्राप्तो वनान्तं मॄगयारसेन।
तं ब्रह्मदत्तः प्रसमीक्ष्य गीतं
तस्याशृणोच्छन्नतनुर्लताभिः॥ ८२॥

नवनवकुसुमाशया किमेवं
मधुकरं तापहतोऽसि गच्छ तूर्णम्।
विकसितकमलाननाब्जिनी सा
भवति हि संकुचिता दिनावसाने॥ ८३॥

तस्या हि गीतं नॄपतिर्निशम्य
स्मितप्रभाघट्टितहारकान्तिः।
उवाच तं तीव्रकरार्कतापः
कोऽयं सखे गीतरसाभियोगह्॥ ८४॥

सोऽप्यब्रवीद्भूमिपते न नाम
तप्तो रविस्तप्ततरस्तु कामः।
स्वकर्मदुःखानि विहन्ति लोके
न ग्रीष्मदग्धानि मरुस्थलानि॥८५॥

इत्यर्थवद्वाक्यगुणार्पणेन
स भूपतेर्वल्लभतामवाप।
संवादसंस्पर्शसुभाषितं हि
केषाम् च् असत्कारपदं न याति॥ ८६॥

तेनाथ राजा विजने श्रमातुरः
शीतोपचारैरपनीततापः।
प्रीत्या तमादाय ततः सहैव
स्वराजधानीमगमत् कृतज्ञह्॥ ८७॥

तत्रास्य जीवप्रद इत्युदन्त-
संतोष संपूरितचित्तवृत्तिः।
राज्यार्धदानाभिमुखः स तस्थौ
चित्तानुवृत्तस्य किमस्य देयम्॥ ८८॥

राज्यार्धदानप्रसृतेऽथ तस्मिन्
नाचिन्तयत् सुन्दरकः कृपायाम्
भद्रां विना राज्यसुखेन किं मे
धन्यो हि तत्प्रीतिसुधाभिषिक्तः॥ ८९॥

मह्मं न राज्याद्यपि रोचतेऽर्ध-
मखण्डिताल्पापि हि शोभते श्रीः।
एकार्थयोगे हि सदा विवादः
द्वयोर्हि भोगैः कलिरेव मूर्तः॥ ९०॥

तस्मान्नृपं कुण्ठमहं निपात्य
समस्तराज्येन भवामि पूर्णः।
क्षणं विचिन्त्येत्यनुतापतप्तः
तीव्रं मनः स्वस्य पुनः प्रदध्यौ॥ ९१॥

किं चिन्तितं निन्द्यपरं मयैतत्
कोऽयं प्रकारः खलु तीक्ष्णतायाः।
कृतघ्नसंकल्पकलङ्कलेपा-
दहो नु लज्जा निजचेतसोऽपि॥ ९२॥

स्वस्त्यस्तु राज्याय नमः सुखेभ्यः
संमोहमाता क्षमतां च लक्ष्मीः।
येषामनास्वादितचिन्तिताना-
मेवंविधा धीः प्रथमः स्वभावः॥ ९३॥

भ्रमं विधत्ते विदधाति मूर्च्छां
निपातयत्येव तमस्तनोति।
आघ्रातमात्रैव करोति पुंसा-
महो विनाशं विषवल्लरी श्रीः॥ ९४॥

चिरं विचिन्त्येति स जातचित्तः
प्रत्येकबोधिर्विमलः प्रभाते।
अभ्यर्थमानोऽपि नरेश्वरेण
राज्यं न् अजग्राह निवृत्ततृष्णः॥ ९५॥

प्रत्येकबुद्धत्वमवाप्तमेनं
कालेन दृष्ट्वा नृपतिर्महर्द्धिः।
तत्पादपद्मच्युतमौलिमाल्य-
श्चित्तप्रसादोचितमित्यवेचत्॥ ९६॥

स कोऽपि सत्कर्मविपाकजन्मा
वन्द्यो विवेकः प्रशमाभिषेकः।
यस्य प्रभावाद्विरतस्पृहाणां
त्याज्येव रत्नाकरमेखला भूः॥ ९७॥

श्रुत्वेति राज्ञा कथितं तदर्थ -
जातं तदभ्यर्थनया विधाय।
तत्कल्पकः शान्तिपदं प्रपेदे
सेवान्तरङ्गः किल गङ्गपालः॥ ९८॥

प्राप्तं तमयुत्तमकर्मयोगात्
प्रव्रज्यया सज्जनपूज्यभावम्।
राजा ववन्दे प्रणतः पृथिव्याः
कम्पस्तदाभूदपि षड्विकारः॥ ९९॥

सोऽयं राजा विहितविनतिर्भद्रको ब्रह्मदत्तो
पश्योपाली स किल कुशली कल्पको गङ्गपालः
इत्याश्चर्यं भगवदुदितं भिक्षवस्ते निशम्य
स्वच्छं चित्तं सुकॄतशरणे मेनिरे हेतुमेव॥ १००॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां
पितापुत्रसमादानम् नाम द्वाविंशतितमः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project