Digital Sanskrit Buddhist Canon

२०.आम्रपाल्यवदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
२० आम्रपाल्यवदानम्।

द्विजिह्वसङ्गे कथमस्ति वृत्ति-
रनेकमुख्ये कथमस्ति सौख्यम्।
कर्मान्तबन्धेऽस्ति कथं स्वशक्तिः
प्रज्ञाप्रकर्षे कथमस्त्यपायः॥ १॥

मिथिलायां विदेहेषु जलसत्त्वाभिधो नृपः।
अभूद् भुजभुजङ्गस्य विश्रान्तपृथिवीभरः॥ २॥

खण्डो नाम महामात्यस्तस्याखण्डलसंपदः।
बभूवाशेषषाङ्गुण्यपरिज्ञानबृहस्पतिः॥ ३॥

नीतिज्ञगौरवात्तस्य नृपे व्यक्तं नलोकिनि।
सदाभवन्मुखप्रेक्षी सर्वः कार्यवशाज्जनः॥ ४॥

गतानुगतिकत्वेन प्रवाहप्रणयी भरः।
वर्धते वार्यमाणस्य स्वजनस्य जलस्य च॥ ५॥

सर्वं तन्मयमालोक्य जनं मात्सर्यमूर्च्छिताः।
मन्त्रिणः संहतास्तस्य विनिपातमचिन्तयन्॥ ६॥

ते प्रविश्याश्रमम् राग़्यस्तां तस्य प्रबह्विष्णूताम्।
मुहुः शङ्कास्पदं कृत्वा शशंसुर्भेदकोविदाः॥ ७॥

तद्गिरा शङ्कितो राजा तस्य वैमुख्यमाययौ।
अबलाबालभूपाला वर्णप्रत्ययाः परम्॥ ८॥

अशङ्क्यादपि शङ्कन्ते शङ्कादोषेऽप्यशङ्किताः।
अविशेषज्ञचपला भूपालाः काकशङ्किनः॥ ९॥

प्रभोर्विरक्तिलिङ्गानि विलोक्यामात्यपुंगवः।
स्वसुतौ गोपसिंहाख्यौ सशङ्कः स्वैरमब्रवीत्॥१०॥

धूर्तैर्मे वीतविश्वासः पिशुनैर्नृपतिः कृतः।
प्रत्ययं नैति ऱ्दिदये विदार्यापि प्रदर्शिते॥ ११॥

विरक्तः स्थगितालापदर्शनश्रवणः प्रभुः।
शेफ इव वृद्धस्य यातः शिथिलतां मम॥१२॥

पिशुनोद्भूतभेदस्य प्रेम्णः संधिर्न विद्यते।
न मणिः श्लिष्याति पुनः पाषाणशकलीकृतः॥ १३॥

द्विजिह्णकुटिलक्रान्तः प्रभुश्चन्दनपादपः।
न यात्यर्थक्रियाकारी गुणवानपि सेव्यताम्। १४॥

कथं नृपनिधानार्थी कुशलं भजते नरः।
घोरद्वेषविषाविष्टद्विजिह्वाघातविह्वलः॥ १५॥

तस्माद्व्रजामः संत्यज्य द्वेषदोषेण भूपतेः।
शङ्काशल्यमये वृत्ते मेऽस्मिन् देशे स्थितेन किम्॥ १६॥

दक्षा रक्षाक्षमाः शूराः प्रभुतार्थाः सुसंहताः।
सन्तः सन्ति विशालायां वासस्तत्र ममेप्सितः॥ १७॥

इति ब्रुवाणः पुत्राभ्यां तथेत्युक्तः स सानुगः।
उद्यानगतिमानेन प्रययौ सपरिच्छदः॥ १८॥

प्रयाणं नृपतिर्ज्ञात्वा निवर्तनसमुद्यतः।
यत्नेनापि न तं प्राप नोत्सृष्टं लभ्यते पुनः॥ १९॥

मूर्खाः सत्सु कृतावज्ञा विमुह्यन्ते क्षणेन तैः।
याति तेषां तु सर्वत्र कोऽपि नार्थी कृतार्थताम्॥ २०॥

धीमानमात्यः प्राप्तोऽथ कृष्टो वैशालिकैर्गुणैः।
पूजितः प्रणयाचारैः संघमुख्ये पदे स्थितः॥ २१॥

तद्बुद्धिविभवाप्तश्रीः सोऽथ तत्प्रमुखो गणः।
कदाचिदनयाल्लेखे न पराबह्वपात्रताम्॥ २२॥

अथ कालेन सिंहस्य मन्त्रिसूनोः कनीयसः।
अजायत सुता कान्ता चैला नाम गुणोचिता॥ २३॥

द्वितीया चोपचैलाख्या सुता जातास्य सुन्दरी।
नन्मन्येव तयोः प्राह निमित्तज्ञो विचक्षणः॥ २४॥

चैलायास्तनयो भावी पितृहन्ता महीपतिः।
गुणवानुपचैलायाः पूर्णलक्षह्णवानिति॥ २५।

ज्येष्ठो मन्त्रिसुतः शौर्याद्गोपः प्रौढमदोद्धतः।
उद्यानमर्दनक्षेपैर्गणानां द्वेष्यताम् ययौ॥ २६॥

तत्पितुर्गौरवात्तस्मै सानुजाय विमन्यवः।
विशालशालतामन्ते जीर्णोद्यानद्वयं ददुः॥ २७॥

सुगतप्रतिमां चक्रे तत्रैकः सुकृतोचिताम्।
विहारं वैभवोदारं भुवनाभरणं परः॥ २८॥

अथ पित्रा बलोत्सिक्तः सुतः प्रत्यन्तमण्डले।
गणकोपभयाद्गोपः कर्मान्तोपार्जने धृतः॥ २९॥

कालेन त्रिदिवं याते तस्मिन् मन्त्रिवरे गणैः।
कनीयसस्तु साधुत्वात् सिंहस्तस्य पदे धृतः॥३०॥

गोपः पितुरसंप्राप्य पदं गणविमानितः।
तद्देशवासविरसः परिहारमचिन्तयत्॥३१॥

वास्तव्य कण्टकाकीर्णे व्याघ्राघ्राते वरं वने।
अनेकस्वामिसंभिन्नजने न तु विशृङ्खले॥ ३२॥

नानामतक्रियालापः कथमाराध्यते गणः।
समीहितं यदेकस्य दतन्यस्मै न रोचते॥ ३३॥

इत्मानी स संचिन्त्य गत्वा राजगृहं पुरम्।
बिम्बिसारं नरपतिं गुणश्रियमशिश्रियत्॥ ३४॥

स तेन मानितः प्रीत्या तस्य विश्रम्भभूरभूत्।
चिररुच्येव तत्कालमाभाति गुणसंगतिः॥ ३५॥

राज्ञोऽथ बिम्बिसारस्य वल्लभा पञ्चतां ययौ।
तद्वियोगाग्निसंतप्तं तं विचिन्त्य स बुद्धिमान्॥ ३६॥

उपचैलां सुतां भ्रातुस्तद्विवाहोचिता वधूम्।
गूढचारी तदादेशात् वैशालकपुरीं यय॥ ३७॥

कन्या गणोपभोग्यौव न कस्मैचित्प्रदीयते।
इति वैशालिकैः पूर्वं स्वदेशे नियमः कृतः॥ ३८॥

तत्पुरे द्वाररक्षायै यक्षस्थानावलम्बिनी।
परप्रवेशे कुरुते शब्दं घण्टी पटीयसी॥ ३९॥

स प्रविश्य ततो भ्रातुर्गूढमुद्यानचारिणीम्।
उपचैलां समाहतुं गतश्चैलामवाप्तवान्॥ ४०॥

यातस्तं रथमारुह्य घण्टाशब्दादभिद्र्युतम्।
स हत्वा वीरपुरुषानवाप नृपतेः पुरम्॥ ४१॥

तमूचे देवकन्येयं प्राता विमनसात्मना।
पितृहन्ता सुतो ह्यास्या निमित्तज्ञेन सूचितः॥ ४२॥

तस्मादेषा नरपतेर्महिषी न तवोचिता।
त्वयि जीवति जीवन्ति प्रजानां सर्वसंपदः॥ ४३॥

इत्युक्तस्तेन तां दृष्ट्वा त्युक्तं नैव शशाक सः।
निरुद्धः कर्मणा ह्येव तन्मुखालेख्यलेखया॥ ४४॥

सोऽवदत् क्क कदा दृष्ट पुत्रेण निहतः पिता।
स्वयं मयाभिषेक्तव्यः सुतो यद्य् भविष्यति॥ ४५॥

इत्युक्त्वा नृपतिः कन्यां परिणीयाभवत्सुखी।
कृतकर्मोर्मिनिर्माणे प्रभवन्ति न बुद्धयः॥ ४६॥

भोगिनस्तस्य कालेन तस्याम् सूनुरजायत।
ज्योतिष्कचरिते यस्य वृत्तमुक्तं पितृद्रुहः॥ ४७॥

तपोवनमृगाधानमृगयाव्यसने वने।
एवंविधो ह्यभूत्तस्य मुनिशापः सुताकृतिः॥ ४८॥

अत्रान्तरे महान्नाम वैशालिकगणाग्रणीः।
कन्यामाम्रवनात्प्राप कदलीस्कन्धनिर्गताम्॥ ४९॥

सा तस्य भवने कान्ता वर्धमाना शनैः शनैः।
विदधे विपुलां प्रीतिं दानचिन्तां अच् चेतसि॥ ५०॥

प्रणयादाम्रपालीति बन्धुभिः सा कृताभिधाः।
सूनुहीनमिन त्यक्त्वा बाल्यं यौवनमाददे॥ ५१॥

तद्विवाहोद्यतस्याथ न सेहे तत्पितुर्गणः।
गणोपभोग्या कन्येति समयस्य व्यतिक्रमम्॥ ५२॥

पितरं दुःखसंतप्तं समेत्याथ जगाद् सा।
भवामि गणभोग्यैव किं त्वेष समयो यदि॥ ५३॥

एकस्योपरि नान्यस्य प्रवेशः स्वपदे स्थितिः।
पणः कार्षापणशतैः पञ्चभिः प्रत्यहं मम॥ ५४॥

सप्ताहेनैव विचयः कर्यो वेश्मनि नान्यदा।
इत्यस्मिन् समये व ध्यः सर्वश्चैव व्यतिक्रमी॥ ५५॥

इति तत्समयं ज्ञात्वा तत्पितुर्वचसा गणः।
अकारोद् बाढमित्युक्त्वा दृढनिश्चयमादरात्॥ ५६॥

ततः सरत्नभवने वराभरणभूषिते।
हेमहर्म्यसमारूढा दिदेश दिनचन्द्रिकाम्॥ ५७॥

ततः पणीकृतः कामी यो यस्तां समुपाययौ।
तस्य तस्याभवत् तस्याः प्रभावेणौजसः क्षयः॥ ५८॥

द्रष्टुमेव न शेकुस्ते किं पुनः स्प्रष्टुमाकुलाः।
भुजङ्गभोगसंरुद्धां तां चन्दनलतामिव॥ ५९॥

ततः सा सुन्दरी भेजे यौवनस्यापि यौवनम्।
गुरुणा स्तनभारेण मध्यभङ्गभयप्रदम्॥ ६०॥

स्मरसंभोगरहितं तत्तस्या रूपमद्भुतम्।
श्वभ्रहेमलतापुष्पमिव निष्फलतां ययौ॥ ६१॥

कौतुकाशाविनोदाय नानादेशान्तरागतैः।
अकारि चित्रकारैर्भूपालप्रतिकृतिर्गृहे॥ ६२॥

विधाय चित्रलिखितान् सा क्रमेण नरेश्वरान्।
ददर्श बिम्बिरासय रूपं रतिपतेचिव॥ ६३॥

तमालोक्यैव सहसा समुद्भूतमनोभवा।
स येन लिखितस्तत्र तं पप्रच्छ कुतूहलात्॥ ६४॥

कोऽयं सखे प्रीतिलतामाधवो वसुधापतिः।
प्रीणाति लोचने यस्य सुधापरिचिता रुचिः॥ ६५॥

धन्या का नाम भूभर्तुरस्य प्रणयभागिणी।
लक्ष्यं सौभग्यजं गर्वमुर्वश्याः संहृतं यया॥६६॥

इति पृष्टतया स्वैरं तामूचे चित्रकोविदः।
भूपतिर्बिम्बसारोऽयं सारं सुकृतसंपदाम्॥ ६७॥

शुर्यरूपतुलारोहे देवाः के नाकनायकाः।
शङ्के करोति नैवास्य मन्मथो वा मनोरथम्॥ ६८॥

इत्युक्ते तेन सा तस्थौ भूपालन्यस्तलोचना।
सहसैवाभिलाषेण नवीनाभिमुखीकृता॥ ६९॥

अत्रान्तरे बिम्बिसारः स्वैरवेश्मनि निजने।
कथान्ते गोपमवदत् किंचित्स्मितसिताधरः॥ ७०॥

श्रूयतां यन्मम सखे किंचिन्मनसि वर्तते।
निर्यन्त्रमित्रस्वच्छन्दवादः कोऽपि सुधारसः॥ ७१॥

वैशालिकौर्वरारोहा गणैः साधारणिकृता।
रम्भोरूः श्रूयते कान्ता रम्भागर्भसमुद्भवा॥ ७२॥

तत्प्रभावविनष्टाशैस्तेजस्विप्रणयोचिता।
सा तैर्न दूषिताद्यापि मातङ्गैरिव पद्मिनी॥ ७३॥

श्रवणादेव सानन्दमपर्युषितकौतुकम्।
न करोति मनः कस्य तत्स्त्रीरत्नमयोनिजम्॥ ७४॥

अभिलाषि मनस्तस्यां श्रोताय जातंमे सह चक्षुषा।
तद्गुणश्रुतिधन्याय श्रोत्राय स्पृहयाम्यहम्॥ ७५॥

इत्युक्ते भूमिपतिना गोपस्तं प्रयभाषत।
भुजङ्गगणसंरुद्धः स राजन् मान्मथो निधिः॥ ७६॥

अत्यल्पस्खलितं प्राप्य दुःसहापातदुर्गमः।
एष ते विषमः पन्था दर्शितो विषमेषुणा॥ ७७॥

लभते सा न निर्गन्तुं न युक्तं गमनं च ते।
किमस्मिन् विरतोपाये वदाम्युभयसंशये॥ ७८॥

इत्युक्तस्तेन नृपतिर्नोत्कण्ठाग्राहमत्यजत्।
विद्वांसोऽप्युचिताम् नीतिं न स्मरन्ति स्मरातुराः॥ ७९॥

वैशालिकपुरीं यातो गोपेन सहितोऽथ सः।
प्रविवेशान्यवेशेन मन्दिरं हरिणीदृशः॥ ८०॥

सा चित्रदर्शनेनैव दृष्ट्वा परिचितं दृशोः।
नरनाथं सवैलक्ष्यलक्षणं क्षितिमैक्षत॥८१॥

लज्जानिरुत्तरे तस्याः कम्पव्यतिकरे परम्।
रणन्ती रसना चक्रे स्वागतं नृपतेरिवः॥ ८२॥

विलोक्य धन्यतामानी तत्र चित्रे निजं वपुः।
तां लावण्यनदीं राजा नयनाञ्जलिना पपौ॥ ८३॥

लज्जावेशेन सुन्दर्यामाभिजात्येन भूपतौ।
आबद्धमैनयोः क्षिप्रं गोपस्तां सस्मितोऽवदत्॥ ८४॥

अयं ते चित्रलिखिताकारध्यानावधानतः।
व्यक्तं भक्षिविशेषेन देवः प्रत्यक्षतां गतः॥ ८५॥

त्वयायं लिखितश्चित्रे त्वमनेन तु चेतसि।
न जाने युवयोः को नु प्रयातः प्रेमदूतताम्॥ ८६॥

इत्यादिभिः कथाबन्धैः परीपूर्णप्रमोदयोः।
यद्यदेव स्मरादिष्टम् तत्तदास्वादताम् गतम्॥ ८७॥

घण्टारवाकुले लोके राजा प्रच्छन्नकामुकह्।
सप्तरात्रमनालोक्ये तस्थौ तद्भवने रहः॥ ८८॥

लतेव पुष्पिता काले तस्माद्गर्भमवाप्य सा।
चक्रे विदितवृत्तान्तं तं लज्जावनता शनैः॥ ८९॥

आसन्ने विश्मविचये दत्वास्मै नृपतिर्ययौ।
भाविपुत्रपरिज्ञानप्रत्ययादङ्गुलीयकम्॥ ९०॥

याते भास्वद्वपिषु नृपतौ संमते लोचनानां
सद्यः प्रोद्यद्विरहतिमिराक्रान्तिमीराक्रान्तिमीलन्मुखाब्जा।
साभूत्सायंतनतनुतरापारवाताभिभूता
शोकोच्छ्वासव्यतिकरवती हासहीना निशेव॥ ९१॥

कपोलं पाणिपद्मेन संकल्पेन महीपतिम्।
नवं तानवमङ्गेन वहन्ती निमिमील सा॥ ९२॥

ततः कालेन कल्याणी प्रतिबिम्बोपमं पितुः।
अजीजनत्सा नतयं विनयं साधुधीरिव॥ ९३॥

वर्धमाने शनैस्तस्मिन् काले बिम्ब इवैन्दवे।
बिम्बिसारस्य पुत्रोऽयमिति लोकेषु पप्रथे॥ ९४॥

अपवादपरैस्तैस्तैस्तं प्रत्यनुचित्तैर्यदा।
बाधन्ते शिशवः क्रीडाप्रसङ्गेऽमर्षसंयताः॥ ९५॥

ततः सा प्रेषयामास पुत्रं विद्यार्जनोचितम्।
वणिक्सार्थेन महता साङ्गुलीयं पितुः पदम्॥ ९६॥

बिम्बिसारोऽपि संप्राप्य सदृशाकारमात्मजम्।
हर्षदृप्तः परिष्वज्य चक्रे तस्य परिग्रहम्॥ ९७॥

वृत्ताण्ते विश्रुते तस्मिन्नाम्रपाल्याह् सकौतुकैः।
भिक्षुभिर्भगवान् पृष्टस्तत्कथामवदज्जिनः॥ ९८॥

पुरे राजगृहे राजवल्लभोद्यानकानने।
बभूव मालती नाम पूर्वमुद्यानपालिका॥ ९९॥

सा कदाचित् प्रसादार्द्रं पुरः प्राप्तं यदृच्छया।
प्रत्येकबुद्धं राजषिं चूतपुण्पैपूजयत्॥ १००॥

अयोनिजा नृपस्याहं पत्नी स्यामिति तत्र सा।
प्रणिधानं पुरश्चक्रे तस्य चित्तप्रसादिनी॥ १०१॥

पुण्यपुष्पफलभोगशालिनी
सैव दिव्यतनुराम्रपालिका।
इत्युदारचरिता निशम्य ते
भिक्षवः सपदि विस्मयं ययुः॥ १०२॥

इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायां
आम्रपाल्यवदानं नाम विंशतितमः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project