Digital Sanskrit Buddhist Canon

१९.श्रोणकोटिकर्णावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 19 śroṇakoṭikarṇāvadānam
१९. श्रोणकोटिकर्णावदानम्।

स कोऽपि पुण्यातिशयोदयस्य
वरः प्रभावः परमाक्षयो यः।
प्रत्यक्षलक्ष्यः शुभपक्षसाक्षी
जन्मान्तरे लक्षणतामुपैति॥१॥

रम्ये पुरा भगवति श्रावस्त्यां जेतकानने।
अनाथपिण्डदारामे विहारिणि तथागते॥२॥

बभूव वासवग्रामे बलसेनाभिधो गृही।
पूरिताशः फलभरैश्छायातरुरिवार्थिनाम्॥ ३॥

जायायां जयसेनायां काळे कमललोचनः।
अजायत सुतस्तस्य पुण्यैर्मीर्त इवोत्सवः॥ ४॥

सजहा रत्नदीपार्चिरभूत्कर्णस्य कर्णिका।
नाभून्मूल्यतुला यस्य हेमकोटिशतैरपि॥ ५॥

श्रवणानक्षत्रजातोऽसौ रत्नकोट्यर्हकर्णिकाः।
स श्रोणकोटिकर्णाख्यः कुमारोऽभूद्गुणोचितः॥६॥

स निर्मलरुचिः कान्तः कलाभिं परिपूरितः।
अमन्दानन्दनिष्यन्दी न कस्येन्दुरिवाभवत्॥७॥

स युवा वार्यमाणोऽपि पित्रा धनदसंपदा।
जननी साश्रुनयना परं पुरुषया गिरा॥८॥

प्रियंवदोऽपि निर्भर्त्स्यो विषवर्षीव चन्द्रमाः।
महासार्थेन रत्नार्थी दूरद्वीपान्तरं ययौ॥९॥

मकराकरमुत्तीर्य व्रजतस्यस्य निर्जने।
कर्मोर्मिविप्लवेनाभूत् स्वसार्थविरहः पथि॥१०॥

सार्थोऽपि तमनासाद्य विनिवृत्तं शुचा शनैः।
स्वदेशमर्जितक्लेशः प्रविवेश विशृङ्खलाः॥११॥

सोऽपि तप्तमरुश्रेणीलक्षणां दक्षिणां दिशम्।
श्रान्तः प्रशान्तविश्रान्तिर्वापिगाहं व्यगाहत॥१२॥

सोऽचिन्तयदहो वित्ते प्रतिनित्तार्जनोद्यमः।
ममायमनयेनैव जातक्लेशः फलोदयः॥१३॥

अहो धनार्जनावेशः संतोषविरहान्नृणाम्।
सर्वापवादसंवादो निन्द्यानाम् विपदां पदम्॥१४॥

हेमाचलेऽपि संप्राप्ते न पर्याप्तिर्हनार्जने।
संसारे वासनाभ्यासद्वेषमोहः शरीरिणाम्॥१५॥

ऱ्हिथुप्रयासविरसा दीपिता श्रीरिवायता।
तृष्णां तनोति नितरामियंमरुमहीतले॥१६॥

अहो बत कुरङ्गाणां तृष्णान्धानां पदे पदे।
ममापि जनयन्त्येव मोहं मरुमरीचिकाः॥१७॥

इयं तृष्णा श्रमश्चायमिमा निरुदका भुवः।
किं करोमि क्क गच्छामि पश्यामि ज्वलिता दिशः॥ १८॥

इति संचिन्त्य स शनैः प्रसर्पन् सलिलाशया।
आयासमिव साकारं ददर्श पुरमायसम्॥१९॥

घोरं द्वारि स्थितं तत्र संत्रासस्येव सोदरम्।
ददर्श पुरुषं कालकरालं रक्तलोचनम्॥२०॥

स तेन पृष्टः पानीयं यदा नोवाच किंचन।
तदा स्वयं प्रविष्टेन प्रेतलोको विलोकितह्॥२१॥

दग्धकष्ठोपमान् धूलिमललिप्तान्निरम्बरान्।
शुष्कास्थिन्सायुशेषाङ्गान् प्रेतान् दृष्ट्वा स विव्यथे॥२२॥

तैर्याचितह् स पानीयं पानीयविरहार्दितः।
परित्यज्य निजामार्तिमभूत्तद्दुःखदुःखितः॥२३॥

तीव्रतृष्णातुरानूचे स तानार्तप्रलापिनह्।
ममास्मिन् मरुकान्तारे निष्कृपस्य कुतः पयः॥२४॥

कृच्छ्रेऽस्मिन् दुःसहे न्यस्ताः के यूयं केन कर्मणा।
युष्मदप्रक्रियबन्धश्चातः कृच्छ्रश्चराम्यहम्॥२५॥

निद्रा निःशल्यकल्पस्य सुखसिक्तेव तस्य या।
नार्तान्नपश्यति दृष्ट्वा तेषां क्लेशक्षये क्षमा॥२६॥

ते तमूचुर्विरुद्धेन कर्मणा मोहसंचयात्।
अनिवर्त्य वयं मर्त्याः क्षिप्ता व्यसनसंकटे॥२७॥

अधिक्षेपात् क्षेपक्षतिपतरधैर्यैर्मदभरा-
दनार्यैर्मानव्यसनेर्ष्याभिरवार्यव्यतिकरैः।
कृतास्माभिर्नित्यं सुहनहृदये निर्दयतया
वचोभिर्नाराचैर्विषपरिचितैः शल्यकलना॥२८॥

दानं नदत्तं हृतमेव वित्तं
हिंसानिमित्तीकृतमेव चित्तम्।
अस्मार्भिरङ्गैर्विहिता विकाराः
परस्य दारापहृतिप्रकाराः॥२९॥

ते वयं कुहकासक्ता दक्षाः क्षुद्रेषु कर्मसु।
प्रयाताः प्रेतनगरे घोरेऽस्मिन् क्लेशपात्रताम्॥३०॥

इति तेषां वचः श्रुत्वा सोऽन्यत्र च तथाविधान्।
प्रेतान् दृष्ट्वानभिप्रेतान् करुणकुलितोऽभवत्॥३१॥

निर्गम्य दुर्गमात् तस्मात् पुरात्पुण्यबलेन सः।
विमलं शीतलच्छायमाससाद वनान्तरम्॥३२॥

अथ दूरध्वसंतप्तः परिश्रान्तः शनैः शनैः।
निपपाताचलादन्धस्तृष्टार्त इव भाष्करः॥ ३३॥

दिने पुण्य इव क्षीणे निःशेषाशाप्रकाशके।
संमोहमलिनं लोके तमः पापमिवोद्ययौ॥३४॥

क्षीणभृङ्गविहङ्गानां नलिनीनां प्रसङ्गिनी।
विकासास्ंपसा मुद्रा निद्रेव समजायत॥३५॥

कारुण्यादिव शीतांशुर्ज्योत्स्नामृतशलाकया।
स्फारतारं जगन्नित्रं चक्रे वितिमितं ततः॥ ३६॥

क्षयोदयपरावृत्तिर्द्र्शितानेकविभ्रमः।
संसारदिनयामिन्योर्जहासेव सुधाकरः॥३७॥

नेत्रानन्दसुधावर्षे सुखस्पर्शे निशाकरे।
दिग्वधूवदनादर्शे हर्षे मूर्त इवोतिते॥३८॥

श्रोणकोटिर्ददर्शाग्रे विमानमाननद्युतिम्।
कौतुकादन्यरूपेण स्वर्गाद्भुवमिवागतम्॥३९॥

तस्मिन्नपश्यत्समदाश्चतस्रस्त्रिदशाङ्गनाः।
दिशश्चन्द्रोदयानन्दविहारायेव संगताः॥४०॥

तासां मध्ये वराकारं रममाणं व्यलोकयत्।
तरुणप्रेमसंभारमिव साकारताम् गतः॥४१॥

रत्नमण्डलेयूरकिरीटिकचिराम्शुभिः।
आलिखन्तमिवाश्चर्यममर्यादं दिशां मुखे॥४२॥

तस्य तामद्भुताम् दृष्ट्वा संभोगसुखसंपदम्।
मेने स सुकृताख्यस्य तरोः स्फीतां फलश्रियम्॥ ४३॥

प्रीत्या तेन कृतातिथ्यः स्वादुपानाशनादिभिः।
तां श्रोणकोटिकर्णोऽथ निनाय रजनीं सुखम्॥४४॥

ताराकुसुमवातालिप्रभा प्राभातिकी ततः।
अनित्यतेव शशिनश्चक्रे लक्ष्मीपरिक्षयम्॥४५॥

क्षयं क्षपायां यातायाम् भानौ भुवनचक्षुषि।
उदिते सर्वभूतानाम् सुखदुःखैकसाक्षिणि॥ ४६॥

विमानं सुरनार्यश्च क्षस्णाददृश्यतांययुः।
विनष्टवदनच्छायः पुरुषश्चापतत्क्षितौ॥४७॥

ततस्तस्यापतत् पृष्ठे शुनां संघोऽतिभीषणः।
त्रैलोक्यशापपापोत्थः क्लेशराशिरिवाखिलः॥४८॥

स तैग्रीवामुखारब्धमांसग्रासाग्रकर्षणैः।
आक्रन्दिरुधिरक्षीरैर्भक्ष्यमाणः क्षयं ययौ॥ ४९॥

दिनान्ते पुनरायान्तं तद्विमानमपश्यत।
चतस्रोऽप्सरासस्ताश्च पुरुषः स च कान्तिमान्॥५०॥

तं श्रोणकोटिकर्णोऽथ पप्रच्छात्यन्तविस्मितः।
सखे किमेतदाश्चर्यं दृश्यते कथ्यतामिति॥ ५१॥

स तेन पृष्टः प्रोवाच वयस्य श्रूयतामिदम्।
त्वां श्रोणकोटिकर्णाख्यं जानामि सुकृतोचितम्॥ ५२॥

अभवं वासवग्रामे दुष्कृती पशुपालकः।
पशूनां मांसमुत्कृत्य विक्रीतं सतत मया॥५३॥

पिण्डपाताय संप्राप्तो मामार्यः करुणानिधिः।
कात्यायनाख्यः प्रोवाचः विरमास्मात् कुकर्मणः॥५४॥

हिंसामयो ह्ययं क्लेशो दुःसहः साहसैषिणाम्।
स्वशरीरे पतत्येव छिन्नमूल इव द्रुमः॥५५॥

इत्यहं वार्यमाणोऽपि तेनानार्यः कृपात्मना।
यदा न विरतः पापात् तदा स प्राह मां पुनः॥५६॥

दिवा त्वं कुरुषे हिंसां सर्वथा यदि निर्दयः।
रात्रौ शीलसमादानं गृहाण समयान्मम॥५७॥

इत्युक्त्वा तेन यत्नेन सर्वसत्त्वहितैषिणा।
दत्ता शीलसमादानमयी पुण्यमतिर्मम॥५८॥

कालेन कालवशगः प्राप्तः सोऽहमिमां दशाम्।
तप्ताङ्गारसुधावर्षैरिव कीर्णो दिवानिशम्॥ ५९॥

रात्रौ शीलसमादानफलं हिंसाफलं दिने।
चर्या मत्पुण्यपापाभ्याम् पतितः सुखदुःखयोः॥६०॥

तस्य मे कुरु कारुण्यं सखे कलुसकारिणः।
गत्वा स्वदेशंमत्पुत्रं ब्रूहि मद्वचसा रहः॥ ६१॥

अस्ति मे गृहकोटान्ते निखातं हेमभाजनम्।
तदुद्धृत्य परित्यक्तपापवृत्ति विधीयताम्॥ ६२॥

आर्यकात्यायनो नित्यं पिण्डपातेन पूज्यताम्।
इत्युक्तस्तेन विनयात् तथेत्युक्त्वा जगाम सः॥ ६३॥

स ददर्श व्रजन् दिव्यविमानमपरं पुनः।
रत्नपद्मलताकान्तं द्वितीयमिव नन्दनम्॥ ६४॥

तस्मिन् साङ्गमिवानङ्गं संगतं दिव्ययोषिता।
अपश्यद्वासरारम्भे पुरुषं रत्नभूषितम्॥ ६५॥

तेन प्रीत्युपचारेण कृतातिथ्यस्तथैव सः।
दिनं निनाय दीर्घं च क्लेशमध्ये सुधामयम्॥ ६६॥

अथ व्योमविमानाग्रात् पतिते पद्मिनीपतौ।
अपूर्यत जगद् घोरैर्दुःखैरिव तमोभरैः॥ ६७॥

ततः क्षपापतिर्ज्योत्स्नां वमन्नेव क्षपाजडः।
शनकैः पाण्डुरोगीव गौरद्युतिरदृश्यत॥६८॥

सुकुमारे दिनालोके रात्रौ राक्षसयोषिता।
भक्षितेऽलक्ष्यत शशी कपालबलसंनिभः॥६९॥

व्याप्ते चन्द्रिकया लोके कालचन्द्रनचर्चया।
विमानमगमत् क्कापिसा च स्वर्गमृगेक्षणा॥७०॥

विमानपतितः सोऽपि पुरुषः सर्वरूपया।
शनैः सप्तभिरावर्तैः शतपद्या विवेष्टितः॥ ७१॥

सा तस्य मूर्ध्नि विवरं कृत्वा मस्तिष्कशोणितम्।
आस्वादयन्ती शनकैश्चकार शुषिरं शिरः॥ ७२॥

अथारुणकरच्छन्ने सोच्छ्वासवदाने दिने।
बीभत्सदर्शनक्लेशादिव मीलिततारके॥७३॥

प्रादुरासन् पुनर्दिव्यविमानं सा च कामिनी।
युवा स चाद्भुततनुर्दिव्याभरणभूषितः॥ ७४॥

पृष्टो।तिविस्मयात् तेन स्ववृत्तान्तं जगाद् सः।
द्विजोऽहं वासवग्रामनिवासी मनसाभिधः॥ ७५॥

तरुणी प्रातिवेश्यस्य पत्नी मलयमञ्जरी।
अभून्मम भुजङ्गस्य स्वैरिणी वल्लभा भृशम्॥ ७६॥

परदाररतेर्ग्रामे व्यग्रा मे क्षमते मतिः।
मिनग्ना विषयग्रामे समग्रा मे क्षयं गता॥ ७७॥

आर्यकात्यायनः पापं ज्ञात्वा माम् चौर्यकामुकम्।
दयाविधेयः कारुण्यात् प्रोवाच विजने शनैः॥७८॥

पराङ्गनाङ्गसंसर्गप्रीत्या रूपरतेः क्षैबम् (?)।
अनङ्गाग्नौ पतन्नाशं पतङ्गं इव मा गमः॥ ७९॥

अहो आसक्तरक्तानां संपतनप्रमादिनाम्।
कामिनाम् हिंसकानां च परदारादरः परम्॥८०॥

पृथु प्रवेपथु (?) स्वापश्रमविह्वलानाम्
गृध्राङ्गनामुखनिखातनखक्षतानाम्।
संमोहने परवधूविहितस्पृहाणां
रोमाञ्चकारिणि परं नरके च कामः॥ ८१॥

तस्मादस्मान्निवर्तस्व वत्स कुत्सितकर्मणः।
जायते पातकं स्पर्शे शुनामेवाशुचौ रतिः॥८२॥

इत्यहं कृपया तेन निषिद्धोऽप्यविशुद्धधीः।
अनिरुद्धेन रागेण बद्धस्तामेव नात्यजम्॥ ८३॥

विज्ञाय मामविरतं ततः कात्यायनो ददौ।
मह्यं शीलसमादानं दिनचर्याहितोद्यतः॥ ८४॥

दिनशीलसमादानात् परस्त्रीगमनान्निशि।
इयं मे पुण्यपापोत्था सुखदुःखमयी स्थितीः॥८५॥

गतेन वासवग्रामं वाच्यः पुत्रो मम त्वया।
सुवर्णमग्निशालायामस्ति गूढं धृतं मया॥ ८६॥

वृत्तिः कार्या तदुद्भृत्य पूज्यः कात्यायनश्च सः।
प्रणयादिति तेनोक्तः श्रोणकोटिर्ययौ ततः॥ ८७॥

सोऽपश्यद्दिव्यललनामग्रे मणिविमानगाम्।
लक्ष्मीं लावण्यदुग़्धाब्धेरनायासोद्गतामिव॥ ८८॥

तस्य विमानपादेषि चतुर्षु स्नायुसंयुतम्।
स ददर्शातिदुर्दशं बद्धं प्रेतचतुष्टयम्॥ ८९॥

सापि तं प्रत्यभिज्ञाय संभाष्य स्निग्धया गिरा।
सुरोचितं ददौ तस्मै रसवत् पानभोजनम्॥ ९०॥

भुञ्जानसंज्ञयां दूरात् प्रेतैर्दैन्येन याचितः।
स ददौ कृपया तेभ्यः काकेभ्य इव पिण्डिकाः॥ ९१॥

पिण्डो बुसत्वमेकस्य प्रयातोऽन्यस्य लोहताम्।
स्वमांसत्वं तृतीयस्य चतुर्थस्य प्रपूयताम्॥ ९२॥

विलोक्य तत्कृपाविष्टः स तेषां कष्टचेष्टया।
पप्रच्छ तन्मुखच्छायाम् विच्छायीकृतपङ्कजाम्॥ ९३॥

ऱ्ष्टा तदद्भुतं तेन उवाच सा म्ऱ्इगेक्षणा।
न श्रोणकोटिर्णैषां दत्तं भवति तृप्तये॥ ९४॥

ब्राह्मणस्यास्य भार्याहं पूर्वपादाबलम्बिनः।
नन्दनाम्नः सुनन्दाख्या वासवग्रामवासिनः॥ ९५॥

द्वितीयपादसंसक्तः पुत्रो मे निष्ठुराभिधः।
पश्चात्पादावलम्बिन्यौ दासी चेयं स्नुषा च मे॥ ९६॥

नक्षत्रयोगपूजायाम् पुरा सज्जीकृते मया।
भैक्ष्योपहारे मे गेहमार्यकात्यायनोऽविशत्॥ ९७॥

मया चित्तप्रसादिन्या पिण्डपातेन सोऽर्चितः।
कुर्वन्नेव ययौ कान्त्या वैमल्यानुग्रहं दिशाम्॥ ९८॥

ततः स्नात्वा समायातस्तूर्णं पतिरयं मम।
पत्पिण्डपातमाकर्ण्य प्रमिदाय मयोदितम्॥ ९९॥

कोपादुवाच मां कस्माद् विशिखः श्रमणः शठः।
अपूजितेषु पूज्येषु बुसार्हः पूजितस्त्वया॥ १००॥

इति मोहादनेनोक्ते पुत्रोऽप्येष जगाद् माम्।
पाके पूर्वाशनायोग्यः स किं नाश्नात्ययोगुडान्॥ १०१॥

इयं स्नुषा मे सततं पूर्वभक्ष्यावभोगिना।
मयोक्ते शपथं चक्रे स्वमांसादनवादिनी॥१०२॥

इयं दासी च भैक्ष्याणा चैर्यात्तद्व्ययकारिणी।
आक्षिप्ता चाकरोत् सत्यं पूयशोणितवादिनी॥ १०३॥

तत्र ते प्रेतताम् याताः स्ववाक्यसदृशाशनाः।
अहं त्वार्यप्रसादेन दिव्यभोगोपभोगिनी॥ १०४॥

त्वया त्वार्यशमाप्तेन वक्तव्या दुहिता मम।
सन्ति हेमनिधानानि गृहे चत्वारि ते पितुः॥ १०५॥

तान्युद्धृत्य यथायोगं भजस्व् अस्वजनिस्थितिम्।
पूजनीयः पितुर्भ्राता नाम्ना कात्यायन सदा॥ १०६॥

स ः श्रोणकोटिकर्णस्त्वं गच्छ देशं त्यज श्रमम्।
वर्षा द्वादश संपूर्णाः स्वगृहान्निर्गतस्य ते॥ १०७॥

इत्युक्त्वा तं समादिशय तस्य प्रेतचतुष्टयम्।
सुप्तस्यैव मुहूर्तेन स्वदेशाप्तिमकारयत्॥ १०८॥

उत्थितः सोऽपि सहसा स्वदेशोद्यानकाननात्।
वियोगशोकात्पितरौ शुश्रावान्ध्यमुपागतौ॥ १०९॥

भिक्षुद्विजातिथिगणे पूज्यमाने सुरालये।
स्वकं पितृगृहं दृष्ट्वा परं विस्मयमाययौ॥ ११०॥

निश्चित्य सर्वं भावानां क्षणिकत्वादनित्यताम्।
स्नेहरागं समुत्सृज्य तत्रस्थः समचिन्तयत्॥ १११॥

अहो संमोहनिद्रेयं निरन्ततो दिवानिशम्।
स्वप्नमायाविलसितैः करोत्यद्भुतविभ्रमम्॥११२॥

जन्मवर्त्मप्रदा माता पिता बीजवपत्खगः।
पान्थपूजासनं कायः कोऽयं नियमसंगमः॥ ११३॥

श्रियः संसाराभ्रभ्रमपरिचिताः काञ्चनरुचा
आशा दिग् (?) निर्बन्धास्तडित इव निर्लेपचपलाः।
वपुः सर्वापायैः क्षयभयनिकायैः परिगतं
जरारोगोद्वेगैस्तदपि न विरागस्तनुभृताम्॥ ११४॥

श्रिये स्वस्तिसमाप्तये स्वजनस्यायमञ्जलिः।
दाक्षिण्यैः क्षमतं श्रीषु प्रव्रज्यैव प्रिया मम॥ ११५॥

इति ध्यात्वा स पितरौ समाश्वास्याप्तलोचनौ।
बुद्धौ धर्मपथे शुद्धे शमधाम्नि न्यवेशयत्॥ ११६॥

सार्थभ्रष्टश्चिरायात् कृशोऽपि स्वजनस्य च।
अलुप्तसत्त्वविभवान्नकृपास्पदतां ययौ॥ ११७॥

अनुकम्पस्व यद्येतं संसारक्लेशविह्वलम्।
सतः कस्यानुकम्प्यास्ते संपत्संपर्कनित्स्पृहाः॥ ११८

पशुपालकविप्रस्त्रीसंदेशादि यथोदितम्।
निगद्य तेभ्यः कनकप्राप्तिप्रत्ययलक्षणम्॥ ११९॥

शान्तः कात्यायनं प्राप्य प्रव्रज्यां स समाददे।
मुग्धानाम् यद्विषादाय तत्प्रसादाय धीमताम्॥ १२०॥

स समासाद्य विशदं स्रितःप्राप्तिफलं ततः।
सकृदागाम्यनागामिफलमर्हत्फलं तथा॥ १२१॥

त्रैधातुको वीतरागः समलोष्टाश्मकाञ्चनः।
आकाशपाणितुल्योऽभूदसिचन्दनयोः समह्॥ १२२॥

श्रावस्त्याम् वेणुगहने जिनं जेतवने स्थितम्।
भगवन्तं ययौ द्रष्टुं सोऽथ कात्यायनाज्ञया॥ १२३॥

प्रणितातकृतातिथ्यः प्रीत्या भगवता स्वयम्।
स श्रोणकोटीकर्णोऽथ बभाषे हर्षनिर्भरः॥ १२४।

भगवान् धर्मकायेन दृष्टोऽयं श्रोत्रवर्त्मनि।
अधुना रूपकायेन पुण्यैरालोकितो मया॥ १२५॥

अनल्पसुकृतप्राप्यमिदं तद्दर्शनामृतम्।
पीत्वा न तृप्तिमायान्ति वञ्चिता एव ते परम्॥ १२६॥

अस्पृहस्यापि ते मूर्तिः कुरुते कस्य न स्ऱ्हात्।
निर्लोपस्यापि ते दृष्टिरहो हर्षेण लिम्पति॥१२७॥

त्वत्कथा त्वदनुध्यानं त्वत्प्राप्तिस्त्वन्निषेवणम्।
एताः कुशलमूलानां स्फीताः फलसमृद्धयः॥ १२८॥

इति श्रुत्वा भगवता प्रसादेनाब्न्हिनन्दितः।
तदादिष्टं शमारामं स विहारमवाप्तवान्॥ १२९॥

तस्यास्पदं समभ्येत्य प्रणयाद्भगवानपु।
श्रुत्वास्य मधुरं धर्मं स्वाध्यायं प्रशशंस सः॥ १३०॥

तां श्रोणिकोटिकर्णस्य दृष्ट्वा प्रशमसंपदम्।
भिक्षुभिर्भगवान् पृष्टः पूर्ववृत्तमभाषत॥१३१॥

वाराणस्यां पुरा सम्यक्संबुद्धे काश्यपाभिधे।
निर्वाणधातौ निःशेषकार्यत्वात् परिनिर्वृते॥ १३२॥

कृकिनामनृपश्चैत्यं तस्य रत्नैरकारयत्।
स्वयं तत्पुण्यसंभरं स्वर्गं वक्तुमिवोद्गतम्॥ १३३॥

शीर्णस्थापितसंस्कारे तस्मिन् संज्ञाधृतं धनम्।
तत्पुत्रः प्राप्तराज्योऽथ न ददौ लोभमोहितः॥ १३४॥

अथोत्तरापथायातः सर्थवाहोऽर्थदाभिधः।
प्रददौ पृथिवीमूल्यं तत्कृते कर्णभूषणम्॥ १३५॥

कालान्तरोपगतोऽपि दत्वा चान्यद्धनं महत्।
प्रणिधानं स कृतवान् भूयासं पुण्यवानिति॥ १३६॥

स श्रोणकोटिकर्णोऽयं पुण्यैः प्रातपदं महत्।
तद्विधेनैव संयातः कर्णभूषणलक्षणः॥ १३७॥

प्रस्थानसमये माता श्राविता परुषं वचः।
यस्मादनेन तेनास्य बभूवास्य श्रमो महान्॥ १३८॥

मध्येषु महतः शुक्लगुणसत्कर्मवाससः।
कृष्णकर्मलवांशोऽपि स्फुट एवावधार्यते॥ १३९॥

सुकृतसचिवः सत्त्वेत्साहः प्रवाससखी धृतिः
विषमतरणे वीर्यं सेतुर्विपद्यधिका कृपा।
शमपरिचिता पर्यन्ते च प्रसादमयी मतिः
परिणतिरियं पुण्यप्राप्तेः स्फुरत्फलशालिनी॥१४०॥

इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायां
श्रोणकोटिकर्णावदानं नामोनविंशतितमः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project