Digital Sanskrit Buddhist Canon

१७.आदर्शमुखावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
१७ आदर्शमुखावदानम्।

चित्तप्रसादविमलप्रणयोज्ज्वलस्य
स्वल्पस्य दानकुसुमस्य फलांशकेन।
हेमाद्रिरोहणनगेन्द्रसुधाब्धिदान-
संपत्फलं न हि तुलाकलनामुपैति॥ १॥

पुरा मनोज्ञे सर्वज्ञः श्रावस्त्यां जेतकानने।
अनाथपिण्डदारामे विजहार महाशयः॥२॥

आर्यो महाकाश्यपाख्यस्तच्छिष्यः करुणानिधिः।
नगरोपवनस्यान्तं जनचारिकया ययौ॥ ३॥

तत्र सुद्रुगतिर्योषिन्नगराश्रवलम्बिका।
अपश्यत् कुष्ठरोगार्ता काश्यपं तं यदृच्छया॥ ४॥

सा तं दृष्ट्वा प्रसादिन्या श्रद्धया समचिन्तयत्।
पात्रेऽस्य पिण्डपातार्हा किं न जातास्मि पुण्यतः॥५॥

विज्ञाय तस्या आश्चर्यश्रद्धायुक्तं मनोरथम्।
प्रसार्य पात्रं जग्राह पिण्डं तं करुणाकुलः॥ ६॥

तीव्रचित्तप्रसादेन भक्तसारसमर्अणे।
कुष्ठिन्या निपपातास्याः पात्रे शीर्णकराङ्गुलिः॥७॥

ततः सा पातकमिव त्यक्त्वानित्यकलेवरम्।
देवानां तुषिताख्यानां निलये समजायत॥ ८॥

शक्रस्तदद्भुतं ज्ञात्वा दानपुण्य्प्दितादरः।
यत्नात्काश्यपसत्पात्रं सुधया समपूरयत्॥ ९॥

सुधार्पणेऽप्यसौ भिक्षुर्निस्पृहस्तृणलीलया।
प्रशमामृतसंपूर्णश्चक्रे पात्रमधोमुखम्॥ १०॥

भजन्ते प्रणयप्रीतिं कृपणेषु कृपाकुलाः।
सन्तः संपत्समाध्मातवदने मीलितादराः॥ ११॥

श्रुत्वा तां तुषिते देवनिकाये निरताम् नृपः।
प्रसेनजित् भगवतश्चक्रे भोज्याधिवासनाम्॥ १२॥

राज्ञस्तस्य गृहे दृष्ट्वा लक्ष्मीमाश्चर्यकारिणः।
आर्यानन्देन भगवान् पृष्टस्तत्पुण्यमभ्यधात्॥ १३॥

पुरा गृहपतेः सूनुर्दारिद्य्राद्दासतां गतः।
क्षेत्रकर्माणि संसक्तः क्षुत्क्षामः क्लान्तिमाययौ॥ १४॥

स्वजनन्या समानीतां निःस्नेहलवणां चिरात्।
कुल्माषपिण्डिमासाद्य भोक्तुं सादरमाययौ॥ १५॥

धौतहस्तः क्षणे तस्मिन् संप्राप्ताय यदृच्छया।
ददौ प्रत्येकबुद्धाय ताम् प्रसन्नेन चेतसा॥ १६॥

जातः स एव कालेन भूपालोऽयं प्रसेनजित्।
तस्य दानकणस्यैवं विभूतिः प्रथमं फलम्॥१७॥

श्रुत्वेति भगवद्वाक्यं भिक्षूर्विस्मयमाययौ।
राजापि विपुलां पूजां चक्रे भगवतः पुरः॥१८॥

राजार्हैरखिलैर्भोगैः कृत्वा भक्तिनिवेदनम्।
स कोटीस्तैलकुम्भानां दीपमालामकल्पयत्॥१९॥

दीपमेकं ददौ तत्र स्वल्पकं दुर्गताङ्गना।
स्नेहक्षयात्प्रयातेषु सर्वेषु न जगाम यः॥ २०॥

विचिन्त्य प्रणिधानेन तया विमलचेतसा।
भाविनीं शाक्यमुनितां सर्वज्ञोऽस्याः समभ्यधात्॥ २१॥

रत्नदीपावलिं दत्वा राजा भगवतः पुरः।
उपविश्य प्रणम्याग्रे प्रणयात्तं वजिज्ञपत्॥ २२॥

भगवत्प्रणिधानेन तत्तत्पुण्यानुभावतः।
न कस्यानुत्तरा सम्यक्संबोधिर्भवदर्पिता॥ २३॥

भवत्प्रसादप्रणयात् प्राप्तुमिच्छामि तामहम्।
निर्विकल्पफलावाप्त्यै सेव्यन्ते कल्पपादपाः॥ २४॥

इति राजवचः श्रुत्वा भगवान् समभाषत।
दुर्लभानुत्तरा सम्यक्संबोधिः पृथिवीपते॥ २५॥

सूक्ष्मा मृणालतन्तुभ्यो गिरिभ्योऽपि गरीयसी।
समुद्रेभ्योऽपि गम्भीरा सा सुखेन न लभ्यते॥ २६॥

न दानैर्बहुभिर्लब्धं मयैवान्येषु जन्मसु।
चित्तप्रसादविशदं ज्ञानं तत्कारणं जगुः॥ २७॥

चतुर्द्वीपाधिपत्येन मया मान्धाऱ्उजन्मनि।
चिरं दानफलं भुक्तं बोधिर्नाधिगता तु सा॥ २८॥

दानेन चक्रवर्तीश्रीः सा सुदर्शनजन्मनि।
भुक्ता मयामहीयसी बोधिर्नाधिगता तु सा॥ २९

पुरा दत्वा गजानष्टौ वेलामद्विजजन्मानि।
मया प्राप्तं महत्पुण्यं बोधिर्नाधिगता तु सा॥ ३०॥

कुरूपः कुशलात्माहं राजपुत्रः पुराभवम्।
यः पिशाचोऽयमित्युक्त्वा निजलत्न्या विवर्जितः॥ ३१॥

श्रियै श्रीस्कन्धो भूत्यागे प्रीतिर्यस्य सदा स्थिता।
स दुःखी रूपवैकल्यात् क्क वा सर्वगुणोदयः॥ ३२॥

तं रूपविरहे देहत्यागारूढं शचीपतिः।
दिव्यचूडामणिं दत्वा चक्रे पञ्चशरोपमम्॥ ३३॥

षष्टिः पुरसहस्राणि तस्य यज्ञेषु यज्वनः।
हेमयूपाभिरूपाणि प्रापुर्मेरुबलश्रियम्॥ ३४॥

तस्मिन् मयातिदानाद्रिकृते कुशलजन्मनि।
तानि पुण्यान्यवाप्तानि बोधिर्नाधिगता तु सा॥ ३५॥

मया सत्यप्रभावेण त्रिशङ्कुनृपजन्मनि।
कृता वृष्टिः सुदुर्भिक्षा बोधिर्नाधिगता तु सा॥ ३६॥

मिथिलायां महादेवनृपजन्मनि यज्वना।
मयाप्ता पुण्यसंपत्तिर्बोधिर्नाधिगता तु सा॥ ३७॥

मिथिलायां पुरा पुण्यं निमिभूपालजन्मनि।
प्राप्तं दानतपोयग़्यैर्बोधिर्नाधिगता तु सा॥ ३८॥

पुरा नन्दस्य नृपतेश्चत्वारः पिशुनाः सुताः।
बभूवुरादर्शमुखः पञ्चमश्च गुणाधिकः॥ ३९॥

कालेनापन्नपर्यन्तः स भूपतिरचिन्तयत्।
एते मदन्ते चत्वारो राज्यं नार्हन्ति कर्कशाः॥ ४०॥

पुत्रे ममादर्शमुखे राज्यश्री प्रतिबिम्बिता।
सुवृत्ते लभते शोभां प्रज्ञावैमल्यशालिनि॥ ४१॥

ध्यात्वेत्यमात्यान् सोऽवादीत् स भवद्भिर्नरेश्वरः।
कृतोऽन्तःपुरवर्गेण योऽभ्युत्थानेन पूज्यते॥ ४२॥

मौलिर्न कम्पते यस्य समेव मणिपादुकैः।
द्वारद्रुमाद्रिवापीषु निधिषट्कं स पश्यति॥ ४३॥

इत्युक्त्वा त्रिदिवं याते नृपतौ मन्त्रिणः क्रमात्।
तदुक्त्रैर्लक्षणैश्चक्रुरादर्शमुखमीश्वरम्॥ ४४॥

धर्मनिर्णयकार्येषु यं वादिप्रतिवादिनः।
विलोक्यैव स्वयं तस्थुर्न्यायैर्जयपराजये॥ ४५॥

पुरा निरभिसंघेन प्रातवैशसकिल्बिषम्।
ब्राह्मणं दण्डिनं नाम दयालुः प्रययौ पुरः॥ ४६॥

गुयुगार्थे गृहस्थेन मृतेन वडवाहतेः।
कुठारपाततः पत्न्या तक्षवासी विवादितः॥ ४७॥

शौण्डिकेनात्मजवधाद्दीक्षितं तुल्यनिग्रहम्।
तद्विपक्षभयेनोक्त्वा तत्संत्यक्तं व्यमोक्षयत्॥ ४८॥

अमानुषाणां सत्त्वानामध्याशयविशेषतः।
चकार चित्तशोधनं तत्तत्संदेहनिर्णयम्॥ ४९॥

अवृष्टिमृष्टे दुर्भिक्षे येन द्वादशवर्सके।
विहितं सर्वसत्त्वानामशनप्राणवर्तनम्॥ ५०॥

इत्यमून्मम पुण्याप्तिरादर्शमुखज्न्मनि।
न तु सा सम्यक्संबोधिर्विबोधिता महोदया॥ ५१॥

बहुजन्मशताभ्यासप्रसासेन महीयसा।
अद्य तु ज्ञानवैमल्यं मयाप्तं लुत्पसंवृति॥ ५२॥

ज्ञानप्रज्ञाधिगम्या किमपि परतरानुत्तरा सत्यास्ंवित्
सम्यक्संबोधिरेषा न च खलु नृपते लभ्यते दानपुण्यैः।

मोहश्यामाविरामे गतघनगगनव्यक्तवैमल्यभाजां
निर्व्याजानन्दभूमिर्भवति भवतमश्छेदिनी सा दिनश्रीः॥ ५३॥

इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायां
आदर्शमुखावदानं नाम सप्तदशः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project