Digital Sanskrit Buddhist Canon

११.विरूढकावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
११ विरूढकावदानम्।

आरोहति पदमुन्नतममलमतिर्विमलकुशलसोपानैः।
नरककुहरेषु निपतति मलिनमतिर्घोरतिमिरेषु॥ १॥

शाक्यानां नगरे पूर्वं स्फीते कपिलवास्तुनि।
महतः शाक्यमुख्यस्य सुमुखी दासकन्याका॥ २॥

शास्त्रे कृतश्रमा सर्वकलाकौशलशालिनी।
मालिका नाम कामस्य मालिकेव गुणोचिता॥ ३॥

प्रभोर्गिरा वरोद्याने कुसुमावचयोद्यता।
भ्रमन्तं तं समायान्तं ददर्श सुगतं पुरः॥ ४॥

तस्यान्तेऽस्यास्तमालोक्य प्रसन्नमभवन्मनः।
शरत्काल इव स्वच्छः प्रसादयति मानसम्॥ ५॥

साचिन्तयत्तदा लोकप्रीत्या दृढीकृतास्पदा।
सुकृतैः पिण्डपातं मे गृह्णीयाद्भगवानपि॥ ६॥

विज्ञाय तस्याह् सर्वग़्यः संकल्पं करुणाकुलः।
प्रसार्य पात्रं भगवान् भद्रे देहीत्युवाच ताम्॥ ७॥

दत्वा प्रणम्य सा तस्मै परिपूर्णमनोरथा।
प्रणिधानं प्रविदधे दास्यदुःखनिवृत्तये॥ ८॥

ततः कदाचिदायातः पितुस्तस्याः सखा द्विजः।
नौमित्तिकस्तं प्रदेशं दृष्ट्वा ताम् विस्मितोऽव दत्॥ ९॥

अहो गृहपतेस्तस्य पुत्री त्वं श्रीमतह् सुता।
बन्धुहीना गता दास्यं धनभोगविवर्जिता॥ १०॥

अहो मोहघनारम्भक्षणोद्द्योतनविद्युतः।
संसारसर्परसनाविलासचपलाः श्रियः॥ ११॥

गम्यानां मा कृथाश्चिन्तां जानेऽहं हस्तलक्षणैः।
अचिरेणैव भूभर्तुर्वल्लभा त्वं भविष्यसि॥ १२॥

इदं पश्यामि ते पाणौ लक्ष्मीकमलकोमले।
मालाचक्राङ्कुशाकारमित्युक्त्वा प्रययौ द्विजः॥ १३॥

अथ मन्मथसंभोगसुहृन्मधुपबान्धवः।
लतालिङ्गनसौभाग्यभव्योऽदृश्यत माधवः॥ १४॥

मधोः केसरिणस्तस्य कान्तामानद्विपद्विषः।
विबभौ जिह्ममानस्य जिह्वेवाशोकमञ्जरी॥ १५॥

बालाकपोललावण्यचौरश्चम्पकसंचयः।
सुदृशां केशपाशेषु ययौ बन्धनयोग्यताम्॥ १६॥

सहकारैर्विरहिणीनिधनं विदधे मधु।
निरपेक्षापरवधे विधुराः प्रभविष्णवः॥ १७॥

ययुर्मधुलिहां चूतलता निर्भरभोग्यताम्।
सहसौव विद्गधानामिव मुग्धविभूतयः॥ १८॥

रूतायुधश्चूतलताचापन्यस्तशिलीमुखः।
जयतीति जगौ बन्दी कन्दर्पस्येव कोकिलः॥ १९॥

अस्मिन्नवसरे श्रीमान् कोसलेन्द्रः प्रसेनजित्।
मृगयानिर्गतोऽश्वेन हृतस्तं देशमाययौ॥ २०॥

धन्वीमनोभवाकारः सोऽवतीर्य तुरंगमात्।
ददर्शानन्यलावण्याम् कन्यां रतिमिवापराम्॥ २१॥

तद्विलोकनविस्तीर्णं मनस्तस्य महात्मनः।
विस्मयाद्दृष्टिमार्गेण प्रविवेश मनोभवः॥ २२॥

तां लज्जावनतां दृष्ट्वा सहसोद्भूतसाध्वसाम्।
अचिन्तयन्नरपतिः कान्तिकल्लिलिनीहृतः॥ २३॥

केयं नवा शशिमुखी श्यामा तरलतारका।
यत्कान्तिरनिशं नेत्रशतपत्रविकाशिनी॥ २४॥

बकुलामोदविभ्रान्तभ्रमरे पाटलाधरे।
कान्तं वसन्तं पश्यामि मुखेऽस्याः कुमुदायुधम्॥ २५॥

अहो लावण्यमम्लानं तारुण्याभरणं तनोः।
धीरस्यापि धृतियेन शण्

अहि नु मधुमञ्जर्याः प्रारम्भेऽप्यद्भुतो गुणः।
येन गन्तुं न शक्नोति षट्पदोऽपि पदात्पदम्॥ २७॥

इति संचिन्त्य भीपालस्तां मत्वा वनदेवताम्।
पृष्ट्वा विवेद तद्वृत्तं क्रमेण कथितं तया॥ २८॥

ततस्तत्र कृतातिथ्यस्तया पल्लववीजनैः।
शुचिशीतैश्च सलिलैः प्राप्तवान् निर्वृतिं नृपः॥ २९॥

श्रान्तः संवाहने तस्य तया चरणपद्मयोः।
कृते कराप्तसंस्पर्शे स निद्राम् सहसा ययौ॥ ३०॥

क्षणेन प्रतिब्य्द्धोऽथ विश्रान्तमृगयाश्रमः।
दिव्यस्पर्शेन ताम् मेने रतिं रूपान्तरागताम्॥ ३१॥

महानपि ततः शाक्यः संप्राप्तं कोसलेश्वरम्।
श्रुत्वा तं देशमभ्येत्य पूजार्हं तमपूजयत्॥ ३२॥

सादरेणार्थितां तेन स्वसुतामिव मालिकाम्।
रत्नार्हाय ददौ तस्मै स्मरमङ्गलमालिकाम्॥ ३३॥

तामादाय मनोजन्मवैजयन्तीं सितस्मिताम्।
निजं जगाम नगरं गजमारुह्य भूपतिः॥ ३४॥

तस्मिन्नागनगोत्सङ्गे सा लोलालकषट्पदा।
बभौ राजवसन्तेन संगता नवमालिका॥ ३५॥

राजधानीं समासाद्य सुन्दर्या सहितस्तया।
रत्नहर्म्यकरोदारमन्दिरे विजहार सः॥ ३६॥

वर्षाकाराभिधा देवी राज्ञः प्रथमवल्लभा।
अभिन्नवृत्तिं ताम् मेने राजलक्ष्मीमिव क्षितिः॥ ३७॥

दिव्यस्पर्शेन सा तस्याः सा चास्या रूपसंपदा।
परस्परगुणोत्कर्षात्परं विस्मयमापतुः॥ ३८॥

दिव्यरूपवती ज्येष्ठा दिव्यस्पर्शवती पर् आ।
इति प्रवादः साश्चर्यस्तयुर्लोकेषु पप्रथे॥ ३९॥

अत्रान्तरे तयोर्दिव्यरूपसंस्पर्शकारणम्।
आश्रमे भिक्षुभिः पृष्टः प्रोवाच भगवान् जिनः॥ ४०॥

पुरा श्रुतवराख्यस्य द्विजस्य गृहमेधिनः।
कान्ता शिरीषिका चेति प्रिये भार्ये बभूवतुः॥ ४१॥

स कदाचिदथो कान्ताभ्राता प्रव्रज्यया शनैः।
प्रत्येकबुद्धतां यातः स्वसुर्भवनमाययौ॥ ४२॥

त्रैमासिकोपचारेण स तया पत्युराज्ञया।
भक्त्या निमन्त्रितस्तस्थौ तत्सप्त्न्यावपूजितः॥ ४३॥

ते चारुमृदुभिर्भोगैस्तमभ्यर्च्यान्यजन्मनि।
जातेऽधुना चारुरूपदिव्यसंस्पर्शसंयुते॥ ४४॥

कृष्टेषु प्रथमं प्रयुक्तविनयामादाय गोसंपदं
सत्क्षेत्रेषु तपः प्रतत्प्तनुषु प्राप्तिष्वतिस्वादुताम्।
यत्काले शुभबीजमुप्तमुचितं सत्कर्मशक्तेः परं
भुज्यन्ते फलसंपदः सुमतिभिस्तस्यैव पाकोज्ज्वलाः॥ ४५॥

इति सर्वज्ञवचनम् तथ्यमाकर्ण्य भिक्षवः।
तत्तथेति विनिश्चित्य बभूवुः शान्तिसंश्रयाः॥ ४६॥

अथ कालेन भूभर्तुर्मालिकायामभूत्सुतः।
विरूढकेतिमुख्याख्यो विद्यासु च कृतश्रमह्॥ ४७॥

प्रियस्तुल्यवयास्तस्य पुरोहितसुतोऽभवत्।
मातुर्दुःखेन जातत्वाद्विश्रुतो दुःखमातृकः॥ ४८॥

कदाचित् सहितस्तेन हयारूढो विरूढकह्।
प्राप शाक्यवरोद्यानं मॄगयायाम् विनिर्गतः॥ ४९॥

न्यक्कारं चक्रिरे तत्र शाक्यास्तस्योद्यतायुधाः।
अयं दासीसुतोऽस्माकमिति दर्पप्रवादिनह्॥ ५०॥

गत्वासौ स्वपुरं तेषां वैरं दर्प्यमचिन्तयत्।
कुलदर्पापवादो हि शल्यतोदः शरीरिणाम्॥ ५१॥

तस्य निर्दह्यमानस्य तत्प्रतीकारचिन्तया।
राज्याय जाता जनके जीवत्यपि परा स्ऱ्हा॥ ५२॥

स चारायणमुख्यानां मन्त्रिणां शतपञ्चकम्।
स्ववशं पितुराकृष्य विदधे भेदयुक्तिभिः॥ ५३॥

ततः कदाचित्संजातविवेकः पृथिवीपतिः।
धर्मोपदेशश्रवणे वर्धमानादरः परम्॥ ५४॥

चारात्यणगृहीताश्वं रथमारुह्य संयतः।
द्रष्टुं जगाम सर्वज्ञं भगवन्तम् प्रसेनजित्॥ ५५॥

प्रायाश्रमं भगवतः कृत्वा पादाभिवन्दनम्।
धर्मान्वयम् स शुश्राव तत्प्रसादप्रसन्नधीः॥ ५६॥

चारायणोऽप्याशु गत्वा रथेन नगरं जवात्।
अकरोदन्तरे तस्मिन् राजपुत्राभिषेचनम्॥ ५७॥

भगवन्तमथामन्त्र्य नृपतिर्गन्तुमुद्यतः।
ददर्श नानुगानग्रे न रथं न च मन्त्रिणम्॥ ५८॥

स पद्भ्यामेव शनकैः प्रस्थिताम् पृथिवीपतिः।
दूरादपश्यदायान्तीं वर्षाकारां समालिकाम्॥ ५९॥

ते पृष्ट्वा तद्गिरा ज्ञात्वा सोऽभिषिक्तं विरूढकम्।
विससर्ज सुतैश्वर्यपरिभोगाय मालोकाम्॥ ६०॥

वर्षाकारां समादाय स मित्रस्य महीपतेः।
अजातशत्रोर्नगरं प्रात राजगृहाभिधम्॥ ६१॥

स तत्प्तश्छत्रविरहात् क्षुप्तिपासाश्रमान्वितः।
ययौ वमन्निव श्वासं दीर्घेश्वारममारुतैः॥ ६२॥

सुखमस्खलितं केन प्राप्तं कस्यायुरायतम्।
न कस्यानुपदं दृष्टः क्षयः सपदि संपदः॥ ६३॥

स जीर्णमूलकं भुक्त्वा कर्ममूलमिवायतम्।
क्षणं पीत्वा च पानीयं पपाताप्तविषूचिकः॥ ६४॥

अनित्यतामविज्ञाय मोहाय पतते जनह्।
स चापायनिकायस्य कायस्योपायतृष्णया॥ ६५॥

अजातशत्रुः श्रुत्वैव कोसलेश्वरमागतम्।
अभ्येत्य पांशुपूर्णास्यं विगतासुं ददर्श तम्॥ ६६॥

तस्य जायानुयातस्य स कृत्वा देहसत्क्रियाम्।
भगवन्तं ययौ द्रुष्टुं सुगतं दुःखशान्तये॥ ६७॥

स तं प्रणम्य प्रोवाच भगवन् कोसलेश्वरः।
पुरं मे सुहॄदः प्राय निर्धनो निधनं गतः॥ ६८॥

धिङ्भामसंपदं पापं मिहादयशसः पदम्।
विभवो येन नैवायं मित्रोपकरणीकृतः॥ ६९॥

हृदये विनिवेश्याशां प्राप्तः सुहॄदमापदि।
सुहृन्नैष्फल्यमायाति यस्य किं तेन जीवता॥ ७०॥

मित्रोपकरणं लक्ष्मीर्दीनोपकरणम् धनम्।
भीतोपकरणं प्राणा येषां तेषां सुजीवितम्॥ ७१॥

कुकर्म किं कृतं तेन भगवन् ऊर्वजन्मनि।
यस्य पाकेन पर्यन्ते प्रपेदे सोऽतिदुर्दशाम्॥ ७२॥

इति पृष्टः क्षितीशेन भगवान् साश्रुचक्षुषा।
तमूचे तापशमनीं दिशन् दशनचन्द्रिकाम्॥ ७३॥

मा शुचः पृथिवीपाल स्वभावे।यं भवस्थितः।
एवंविधैव भावानामसत्यानामनित्यता॥ ७४॥

विसारिसंसारवनान्तरेऽस्मिन्
निसर्गलोलः किल कामभृङ्गः।
स्वच्छन्दजातजनपुष्करजीवपुञ्ज -
किञ्जल्कपुञ्जमनिशं कवलीकरोति॥ ७५॥

तरङ्गन्तो भोगाश्चकितहरिणीलोचनचलाः
क्षणेऽलक्ष्या लक्ष्मीर्जनजलदविद्योतनतडित्।
शरीराब्जे बालातपचपलरागं नववयः
क्षयं याति क्षिप्रं भवमरूतटे जीवितकणः॥ ७६॥

मनो मैत्रीपात्रं परहितरतिर्धर्मधनता
मदोद्भेदच्छेदक्षमशमविचारे परिचयः।
अयं तत्वान्वेषो विषयसुखवैमुख्यसुखिना-
मसारे संसारे परिहृतविकारः परिभवः॥ ७७॥

जनह् शोचति दुःखेषु क्षिप्रं हत इवाश्मना।
न करोति पुनस्तीव्रतदापातप्रतिक्रियाम्॥ ७८॥

पश्यतोऽपिभवायासं निर्विवेकस्य सर्वथा।
क्रियते किं जनस्यास्य मोहादकुशलस्पृशः॥ ७९॥

पुरा विप्रः सुशर्माख्यः कुतश्चित्प्राप्य मूलकम्।
निधाय जननीहस्ते ययौ स्नातुं नदीतटम्॥ ८०॥

सापि प्रत्येकबुद्धाय ताम् पाप्ताय तदन्तरे।
प्रणता पात्रहस्ताय तदेवाभिमूखी ददौ॥ ८१॥

अथ स्नात्वा समायातस्तत्सुतस्त्वरितं क्षुधा।
जननीं भोजनारम्भे ययाचे निजमूलकम्॥ ८२॥

पुण्यं पुत्रानुमोदस्व तन्मयातिथयेऽर्पितम्।
इति मातुर्वचः श्रुत्वासोऽभूद्विद्ध इवेषुणा॥ ८३॥

सद्यो विषूचिकार्तस्य मन्मूलकमनल्पकम्।
कुक्षिं भित्त्वा विनिर्यातु प्राणैः सह त वातिथेः॥ ८४॥

इति तस्याप्तपापस्य वाक्यारुष्येण भूयसा।
विसूचिकैव पर्यन्ते बभूवपरजन्मनि॥ ८५॥

प्राख़्पुण्यान्तरपाकेन स एवाद्य प्रसेनजित्।
विपुलं राज्यमासाद्य तयैवान्ते क्षयं गतः॥ ८६॥

संसारपथपान्थानामेवं कर्म शुभाशुभम्।
पाथेयमिव हस्तस्थम् भोगायैवोपपद्यते॥ ८७॥

इति श्रुत्वा भगवतस्तथ्यं पथ्यं च तद्वचः।
एवमेतदिति ध्यात्वा तं प्रणम्य ययौ नृपः॥ ८८॥

अत्रान्तरे प्राप्तराज्यः शाक्यवैरं विरूढकः।
पुरोहितसुतेनैत्य स्मारितस्तत्क्षयोद्यतः॥ ८९॥

प्रययौ शाक्यनगरं गजाश्वरथरेणुना।
मोहेनेव दिशां कुर्वन् निर्विवेकं धियामिव॥ ९०॥

सर्वज्ञो भगवान् ज्ञात्वा तस्य तद्दुष्टचेष्टितम्।
गत्वा शाक्यपुरोपान्ते तस्थौ शुष्कतरोरधह्॥ ९१॥

दूरात्तत्र स्थितं दृष्ट्वा तमागच्छन् विरूढकः।
अवतीर्य रथादग्रमभ्येत्य प्रणतोऽवदत्॥ ९२॥

सत्सु स्निग्धपलाशेषु घनच्छायेषु शाखिषु।
भगवन्नत्र विश्रान्तिः किमु शुष्कतरोरधः॥ ९३॥

इत्युक्तः क्षितिपालेन तं प्राह भगवान् जिनः।
ज्ञातिच्छाया नरपतेः चन्दनादपि शीतला॥ ९४॥

नास्ति ज्ञातिसमं वित्तं नास्ति ज्ञातिसमा धृतिः।
नास्ति ज्ञातिसमा छाया नास्ति ज्ञातिसमह् प्रियः॥ ९५॥

ममैते भूपते शाक्या ज्ञातयस्यत्पुरान्तिके।
जातः प्रियोऽयं तत्प्रीत्या शुष्कशाखोऽपि पादपः॥ ९६॥

श्रुत्वैतद्विरतामर्षः शाक्यानां पक्षपातिनम्।
भगवन्तं विदित्वैव न्यवर्ततः विरूढकः॥ ९७॥

भगवानपि शाक्यानां ज्ञात्वागामि भयं ततः।
श्रेयसे शुद्धसत्त्वानाम् विदधे धर्मदेशनाम्॥ ९८॥

श्रोतापत्तिफलं कैश्चित् सकृदागामि चापरैः।
अनागामिफलं चान्यैः संप्राप्तं तस्य शासनात्॥ ९९॥

शेषास्तु मूढमतयः शाक्याः प्रापुर्न तत्पदम्।
सन्ति केऽपि खगा येषाम् वासरे तिमिरोऽद्भवः॥ १००॥

निवृत्तस्याथ नृपतेः पि।
वैरसर्पस्य सुप्तस्य विदधे प्रतिबोधनम्॥ १०१॥

स तेन प्रेरितश्चक्रे मतिं शाक्यकुलक्षये।
वैरानलं प्रचलनं करोति पिशुनानिलः॥ १०२॥

घोरदुर्जनमन्त्रेण सहसोत्थापिताः खलाः।
वेताला क्षितिपालाश्च न कस्य प्राणहारिणह्॥ १०३॥

सैन्ये गजरथोदग्रे ततस्तस्मिन् प्रसर्पति।
बभूव पुरसंक्षोभः शाक्यानां रूद्धवर्त्मनाम्॥ १०४॥

तस्मिन् भगवान् रक्षार्थं शाक्यानां पक्षपातिनम्।
समुद्यतं तत्र महामौद्गल्यायनमब्रवीत्॥ १०५॥

शाक्यानां कर्मदोषोऽयं सर्वथा समुपस्थितः।
तत्र रक्षविधानं ते गगने सेतुबन्धनम्॥ १०६॥

पुंसमविन्त्यविभवानि शुभाशुभानि
आयान्ति यान्ति च मुहुर्निरवग्रहाणि।
कर्माक्षराणि निजजन्मपदस्वहस्त-
न्यस्तानि नाम न भवन्ति निरर्थकानि॥ १०७॥

इति वाक्याद्भगवतस्तस्मिन् याते प्रणम्य तम्।
चक्रिरे संविदं शाख़्याह् प्रत्यासन्ने विरूढके॥ १०८॥

हिंसास्माभिर्न कर्तव्या प्राणिमात्रस्य कस्यचित्।
शराः शरीरमस्माकं विशन्त्वरिसमीरिताः॥ १०९॥

इति संविदमाधाय ते वियष्टिकपाणयः।
धीर्ः परोद्यमे तस्थुरवारयितकार्मुकाः॥ ११०॥

अत्रान्तरे कर्मयोगान्निजदेशानवस्थितः।
अज्ञात्वा संविदं शाक्यः शंपाकह् समुपाययौ॥ १११॥

स दृष्ट्वा नगरे बद्धसंनाहं वसुधाधिपम्।
कोपादेकश्चकारास्य रणे सुभटसंक्षयम्॥११२॥

युद्धे पुरुषसिंहेन हतास्ते वीरकुञ्जराः।
प्रययुः स्पृहणीयत्वं यशोभिर्मक्तिकैरिव॥११३॥

स कोऽपि तस्य जज्वाल कोपितस्य परैरसिः।
स ययौ यत्प्रतापेन विपुलां रिपुवाहिनीम्॥ ११४॥

प्रवेशं न ददुः शाक्याः शंपाकस्य द्विषां वधात्।
स्वजनोऽपि परित्यक्तः स तैर्निस्त्रिंशकर्मणा॥ ११५॥

निजेऽपि विमुखाः क्रूरे साधवे दह्रम्बन्धवः।
धानादपि वदान्यत्वं सुकृतं स्वजनादपि॥ ११६॥

* * *
शतमौचित्यनित्यानामायुषोऽपि यशः प्रियम्॥ ११७॥

निर्वासितः स तैः प्राप्तः शनैर्भगवतोऽन्तिकम्।
ययाचेऽभ्युदयायाव तं किंचिन्निजलाञ्छनम्॥ ११८॥

ऋद्धं भगवता दत्तं निजकेशनखांशकम्।
स जगाम समादाय वाकुडं नाम मण्डलम्॥ ११९॥

तत्र प्रज्ञाप्रभावेण शौर्योत्साहगुणेन च।
स प्राप राज्यं धीराणां सर्वत्र सुलभाः श्रियः॥ १२०॥

दक्षाणां लक्षणं लक्ष्मीः सहजं विदुषां यशः।
व्यवसायसहायानाम् कलत्रं सर्वसिद्धयः॥ १२१॥

तत्र स्थितो भगवतः सोऽथ केशनखांशके।
स्तूपप्रतिष्ठामकरोद्वर्रत्नविराजिताम्॥१२२॥

विरूढकोऽपि शाक्यानां वैरपारतितीर्षया।
पुनर्युक्त्या पुरद्व्हारभेदेन सहसाविशत्॥ १२३॥

हत्वा तत्र सहस्राणि शाक्यानां सप्तसप्तति।
बद्ध्वा कन्याकुमाराणां स सहस्रमथाहरत्॥ १२४॥

शतानि पञ्च शाक्यानाम् गजैर्लोहैश्च मर्दनैः।
संप्रमृज्य पुरीं चक्रे कृतान्तनगरीमिव॥ १२५॥

भगवानपि शाक्यानाम् शत्रूणा भेदनं कृतम्।
कर्मानुबद्धं विज्ञायं बभूव विमनाः क्षणम्॥१२६॥

पप्रच्छुस्तं समभ्येत्य भिक्षवः करुणाकुलाः।
किं कर्म विहितं शाख़्यैर्घोरं यस्येदृशं फलम्॥ १२७॥

भगवाननिति तैः पृष्टः सर्वग़्यस्तानभाषत।
निजकर्मविपाकेन शाक्यानामेष संक्षयः॥ १२८॥

कृष्टौ पुरा महामत्स्यौ धीवरैः सरितोऽन्तरात्।
तदा निकृत्तौ शल्येन भूयोऽप्यव्यथयन् धृतौ॥ १२९॥

कालेन चारुताम् यातैस्तैरेव परजन्मनि।
हतौ गॄहपती दग्ध्वा तावेव धनहारिभिः॥ १३०॥

तौ मत्स्यौ तौ गृहस्थौ च विरूढकपुरोहितौ।
दासानां तस्कराणाम् च शाक्यानाम् मृत्युताम् गतौ॥ १३१॥

इति श्रुत्वा भगवतः कर्मणां फलसंततिम्।
अविसंवादिनीमेव मेनिरे सर्वभिक्षवः॥ १३२॥

विरूढकोऽथ स्वपुरं प्राप्य विजयदुर्मदः।
जेतानाम्ना सुतेनोक्तः प्रणयाद्बाललीलया॥ १३३॥

देव किं निहताः शाक्यान् न तेऽस्माकं कृतागसः।
इति ब्रुवाणमवधीन्निजसूनुं विरूढकः॥ १३४॥

निपातमतिम्ऱ्इद्गति निहत्नि न करोति किम्।
मदलब्धनधायासो मातंग इव दर्जनः॥ १३५॥

स जगाद सभासीनः स्वभूजाववलोकयन्।
अहो नु मम तापाग्नौ द्विसद्भिः शलभायितम्॥ १३६॥

कृतान्ततोरणस्तम्भौ प्राज्यौ मम भुजाविमौ।
निष्ःशेषवधदीक्षायां शाक्यानां गुरुतां गतौ॥१३७॥

तं तस्य विक्रमं श्लाघ्यं हृतास्ताः शाक्यकन्यकाः।
श्रुत्वा बभाषिरे तीव्रमुद्वेगनमिताननाः॥ १३८॥

कर्मपाशनिबद्धानां खगानामिव देहिनाम्।
निधनोल्लङ्घने शक्तिर्नास्ति पक्षवतामपि॥ १३९॥

येनाग्निः शममेति तत्किल जलं प्राप्नोत्यलं वाडवः
तिग्मांशुग्रहणं करोति समये हेलावलेह्यं तमह्।
पर्यालोचनवर्त्मनामविषयं साश्चर्यचर्यास्पदं
सर्वं कार्मिकतन्त्रयन्तिमिदं कः कस्य कर्तुं क्षमः॥ १४०॥

एतदाकर्ण्य नृपतिः पदान्तर इवेरगः।
करच्छेदं दिदेशासां घोरामर्षविषोत्कटः॥ १४१॥

तीरे यस्याः कृतं तासां पाणिच्छेदनवैशसम्।
साद्यापि हस्तगभति ख्याता पुष्करिणी भुवि॥ १४२॥

लतास्वपि ह्कुकूलाग्निं क्रकचं नलीनीष्वपि।
मालास्वपि शिलावर्षं पातयन्त्येव निर्घृणाः॥ १४३॥

ताश्छिन्नपाणिकमलास्तत्र तीव्रव्यथातुराः।
भगवन्तं धिया ध्यात्वा शरणं शरणं ययुः॥ १४४॥

तासां विज्ञाय सर्वग़्यस्तीव्राम् मर्माहतिव्यथाम्।
शचीमचिन्तयद्देवीं तत्समाश्वासनोचिताम्॥ १४५॥

तत्स्पर्शजातहस्ताब्जास्ता दिव्यवसनावृताः।
ययुश्चित्तप्रसादेन ताह् स्वर्गं त्यक्तविग्रहा॥ १४६॥

देवकल्पास्तमासाद्य दिव्यपद्मोत्पलाङ्किताः।
धर्मदेशनया शास्तुस्ताह् प्रापुर्विपुलं पदम्॥ १४७॥

भिक्षुभिर्भगवान् पृष्टस्तत्कर्मफलमभ्यधात्।
पाणिचापल्यमेताभिः कृतं भिक्षुविडम्बने॥ १४८॥

कर्मणस्तस्य पाकेन विशसे पतिताह् परम्।
मयि चित्तप्रसादेन प्राप्ताश्चैताह् शुभां गतिम्॥ १४९॥

इत्युक्त्वा भगवान् कर्मफलपाकविचित्रताम्।
भुक्षीणां तत्प्रसङ्गेन विदधे धर्मदेशनाम्॥ १५०॥

अत्रान्तरे गूढचारी राज्ञा प्रणिहितश्चरः।
भगवच्चरितं ज्ञात्वा विरूढकमुपाययौ॥ १५१॥

सोऽवदद्देव भिक्षूणां तेनेदं कथितं पुरः।
स्वकर्मफलमासन्नं तस्य पश्यामि भूपतेह्॥ १५२॥

सप्ताहेनाग्निना दग्धः स पापात्मा पुरोहितः।
अवीचिनाम्नि नरके दुःसहे निपतिष्यति॥ १५३॥

इति तद्वचनं श्रुत्वा नृपतिः सपुरोहितः।
यत्नादुवास सप्ताहं जलान्वितगृहान्तरे॥ १५४॥

क्षणावशेषे सप्ताहे तस्मिन्नन्तःपुरं गते।
सूर्यकान्तार्कसंतापयोगाज्जज्वाल पावकः॥ १५५॥

उद्भूतेन प्रलयसवनावर्तिनेवाशु वेगा-
न्निर्दग्धोऽसौ धगिति शिखिना नारकं प्राप वह्निम्।
अस्मिंल्लिके ज्वलनजटिलाः पापिनां प्रेत्य रागाः
सर्वत्रैव स्थिरसुखभुवः शीतलाः पुण्यभाजाम्॥ १५६॥

इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायां
विरूढकावदानं नाम एकादशः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project