Digital Sanskrit Buddhist Canon

९.ज्योतिष्कावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
९. ज्योतिष्कावदानम्।

धन्यानामशिवं बिभर्ति शुभतां भव्यस्वभावोद्भवं
मूर्खाणां कुशलं प्रयात्यहिततामित्येष लक्ष्यः क्रमः।
निशीथतिमिरान्ध्यमौषधिवनस्यात्यन्तकान्तिप्रदं
एतच्चौलुककूलदृष्टहतये सर्वत्र मैत्रं महः॥ १॥

पुरा राजगृहाभिख्ये बिम्बिसारस्य भूपतेः।
अभूत् पौरः सुभद्राख्यः परिपूर्णगृहस्थितेः॥ २॥

मौर्ख्यान्मोहप्रपन्नस्य सर्वदर्शनविद्विषः।
तस्य क्षपणकेष्वेव बभूवाभ्यधिकादरः॥ ३॥

तस्य सत्यवती नाम जायाभिजनशालिनी।
गर्भमाधत्त पूर्णेन्दुबिम्बं पौरदरीव दिक्॥ ४॥

कलन्दकनिवासाख्यो वेणुकाननसंश्रयः।
कदाचित् भगवात् बुद्धः प्राप्तः पिण्डाय तर्गृहम्॥ ५॥

पूजां सभार्यः कृत्वात्मै तं स पप्रच्छ सादरः।
गर्भस्थितमपत्यं यत् किंरूपं तद्भविष्यति॥ ६॥

सोऽवदत् संपदं भुक्त्वा पुत्रस्ते दिव्यमानुषीम्।
प्रव्रज्यया शासने मे संयुक्तो मुक्तिमेष्यति॥ ७॥

याते भगवति स्पष्टमित्यादिश्य निजाश्रयम्।
अभ्याययौ गृहपतेर्भूरिकः क्षपणो गृहम्॥ ८॥

भगवद्भाषितं तत्तु सुभद्रेण निवेदितम्।
श्रुत्वा क्षपणकह् क्षिप्रमभूद्देषविषाकुलः॥ ९॥

गणयित्वा स सुचिरं ग्रहज्ञानकृतश्रमः।
यदेवोक्तं भगवता प्रश्नेऽपश्यत्तथाविधम्॥ १०॥

सोऽचिन्तयदयो सत्यमुक्तं तेन न संशयः।
तत्प्रभावोपमादाय किं स्वसत्यं वदाम्यहम्॥ ११॥

तस्य सर्वज्ञतां वेत्ति सुभद्रो यदि मद्गिरा।
तदेष क्षपणश्रद्धां त्यक्ष्यति श्रमणादरात्॥१२॥

इति संचिन्त्य सामर्षः स सुभद्रमभाषत।
असत्येमेतत् कथितं तेन सर्वज्ञमानिना॥ १३॥

मनुष्यः कथमाप्नोति देवार्हां दिव्यसंपदम्।
प्रव्रज्या किं तु सत्येव कथं तेनास्य चिन्तिता॥ १४॥

क्षीणः क्षुदुपसंतप्तो यस्य नास्त्यन्यतो गतिः।
तस्य तस्य सुभिक्षार्हं शरणं श्रमणव्रतम्॥ १५॥

पश्याम्यहं गृहपते प्रमाणं यदि मद्वचः।
प्रत्युतायं शिशुर्जातः कुलं संतापयिष्यति॥ १६॥

इत्युदीर्य क्षपणके याते गृहपतिश्चिरम्।
विचार्य विदधे तां ताम् युक्तिं गर्भनिपातने॥ १७॥

यदा द्रव्यप्रयोगेऽपि नैव गर्भह् परिच्युतः।
तदास्य पत्नीमवधीदेकान्ते हठमर्दनैः॥ १८॥

ततः शीतवनं तस्यां श्मशानं तेन पापिना।
प्रापितायाम् क्षपणकास्तद्वार्तानन्दिता जगुः॥ १९॥

अहो बताहो सर्वज्ञः शिशोः सत्यं तदुक्तवान्।
सेयं सूनावजातेऽस्य जननी पञ्चतां गता॥ २०॥

इयं सा श्रीः शिशोर्दिव्या सोक्ता दिव्यमनुष्यता।
इयं च सास्य प्रव्रज्या यत् कुक्षौ निधनं गतः॥ २१॥

इति तेषां प्रवादेन सोपहासेन सर्वतः।
श्मशानदर्शनायैव बभूव जनसंगमः॥ २२॥

अत्रान्तरे दिव्यदृशा भगवान् भूतभावनः।
सर्वं विज्ञाय तद्बुद्धः प्रदध्यौ सस्मितः क्षणम्॥ २३॥

अहो मोहानुबन्धेन दूरस्थैरपि देहिनाम्।
आलोकश्छाद्यते मूर्खैर्मेघैरिव विकारिभिः॥ २४॥

शुभं क्षपयता तेन क्षपणेन स मुग्धधीः।
अहो गृहपतिः पापादकार्यमपि कारितः॥ २५॥

इति संचिन्त्य बह्गवान् स्वयं भिक्षुगणैर्वृतः।
ययौ शीतवनं क्षिप्रं श्मशानं करुणाकुलः॥ २६॥

श्मशानचारिकां ज्ञात्वा राजा भगवतः स्वयम्।
बिम्बिसारः सहामात्यैस्तामेव भिवमाययौ॥ २७॥

ततः सुभद्रजायायां प्रक्षिप्तायां चितानले।
कुक्षिं भित्त्वाम्बुजासीनः शिशुः सूर्य इवोद्ययौ॥ २८॥

ज्वालिताणलमध्यस्थं तं कश्चिन्नाग्रहीद्यदा।
तदा जनसमूहस्य हाहाकारो महानभूत्॥ २९॥

ततस्तं संभ्रमावृद्धगतिः सुगतशासनात्।
कुमारभृत्यो जग्राह जीवकाख्यः कुमारकम्॥ ३०॥

जिनावलोकनेनैव बालकग्रहणक्षणे।
अभूच्चितानलस्तस्य हरिचन्दनशीतलः॥ ३१॥

जीवन्तं ज्वलनान्मुक्तं रुचिरम् वीक्ष्य दारकम्।
वैलक्ष्येण क्षपणकाः क्षणं तस्थुर्मृता इव॥ ३२॥

ततः सुभद्रं भगवान् सर्वभूतहिते रतः।
बभाषे विस्मयोद्भान्तं पुत्रोऽयं गृह्यतामिति॥ ३३॥

स तु दोलाकुलमतिः किं करोमीति संशयात्।
क्षपनानां मुखान्येव शिक्षायै क्षणमैक्षत॥ ३४॥

ते तमूचुर्न बालोऽयं ग्राह्यः श्माशानवह्निजः।
यत्रायं तिष्ठति व्यक्तं न भवत्येव तद्गृहम्॥ ३५॥

इति तेषां गिरा मूर्खः स जग्राह न तं यदा।
तदा क्षितिपतिर्बालमाददे जिनशासनात्॥ ३६॥

ज्योतिर्मध्यादवाप्तस्य ज्योतिष्कसदृशत्विषः।
ज्योतिष्क इति नामास्य चकार भगवान् स्वयम्॥ ३७॥

तस्य प्रवर्धमानस्य भूपालबह्वने शिशोः।
देशान्तरगतः काळे मातुलः समुपाययौ॥ ३८॥

स विदित्वा स्वसुर्वृत्तं निधनं पुत्रजन्मनि।
कोपात् सुभद्रमभ्येत्य कम्पमानः समभ्यघात्॥ ३९॥

मूर्ख क्षपणभक्तेन तद्गिरा हतयोषिता।
त्वया त्यक्तस्वपुत्रेण किं नाम सुकृता कृतम्॥ ४०॥

निश्चेतनाः स्वभावेन परमन्त्रसमुत्थिताः।
सहन्तोऽपि विनिघ्नन्ति वेताला इव दुर्जनाः॥ ४१॥

अधुनैव न गृह्णासि यदि राजगॄहात् सुतम्।
तत्ते स्त्रीवधमुद्धुष्य कारयाम्यर्थनिग्रहम्॥ ४२॥

इत्युक्तस्तेन तद्भीत्या स भूपतिगृहात् सुतम्।
आनिनाय चिरान्मुक्तमकामेन महीभुजा॥ ४३॥

ततः सुभद्रे कालेन कालस्य वशमागते।
अभून्निर्दिर्विभूतीनां ज्योतिष्कोऽर्क इव त्विषाम्॥ ४४॥

अर्थिकल्पद्रुमः प्राय संपदं दिव्यमानुषीम्।
स बुद्धधर्मसंघेषु शरण्येष्वकरोन्मतिम्॥ ४५॥

तद्भक्त्युपनतं दिव्यरत्नसंचयमद्भुतम्।
प्रददौ भिक्षुसंघेभ्यः पुण्यरत्नार्जनोद्यतः॥ ४६॥

तस्य देवनिकायेभ्यः साश्चर्या विविधर्द्धयः।
स्वयमेवाययुर्वेश्म महोदधिमिवापगाः॥ ४७॥

तृणे रत्ने च समधीर्भवगानपि तद्गृहे।
चक्रे तदनुरोधेन रत्नपात्रपरिग्रहम्॥ ४८॥

स दिव्यवस्त्रयुगलं यशसामुपमाक्षमम्।
प्राप पुण्यपणक्रीतं निजं गृहमिवामलम्॥ ४९॥

कदाचिदथ तद्वस्त्रंस्नानार्द्रं न्यस्तमातपे।
समीरणेनापहृतं न्यपतन्मूर्धि भूपतेः॥ ५०॥

विलोक्यापूर्वरुचिरम् ज्योतिष्कस्य तदंशुकम्।
विद्यश्रीविस्मितो राजा तृणं मेने निजश्रियम्॥ ५१॥

भोक्तुं निमन्त्रितः प्राप्य तस्य रत्नमयं गृहम्।
नृपतिः स्वर्गमज्ञासीत् ज्योतिष्कभवनस्थितः॥ ५२॥

अथ कालेन भूपालः पुत्रेणाजातशत्रुणा।
छद्मना राज्यलुब्धेन धर्मशीलो निपातितः॥ ५३॥

अतीते सद्गुणे राग़्यि तस्मिन् कृतयुगोपमे।
अधर्म इव स प्राप राज्यं राजवरात्मजः॥ ५४॥

स भूभृद्दुर्लभां दृष्ट्वा ज्योतिष्कस्य गृहे श्रियम्।
तमुवाच समभ्येत्य मत्पित्रा त्वं विवर्धितः॥ ५५॥

भ्राता तवाहं धर्मेण विभवार्धं प्रयच्छ मे।
न चेद्भागधन्द्रोहात् कलिरेव प्रजायते॥ ५६॥

इत्युक्तस्तेन कौटिल्यात् ज्योतिष्कः क्रूरकारिणा।
रत्नपूर्णं गृहं तस्मै दत्वा प्रायात् परं गृहम्॥ ५७॥

सा दिव्यरत्नरुचिरस्फीता लोकोपकारिणी।
ह्योतिष्कमेवानुययौ श्रीः प्रभेव दिवाकरम्॥ ५८॥

पुनस्त्यक्तापि सा संपत् सप्तकृत्वः प्रभावती।
ज्योतिष्कमस्पृष्टनृपा साध्वी परिमिवाययौ॥ ५९॥

सर्वस्वाहरणोद्युक्तं दस्युचौरादियुक्तिभिः।
ज्योतिष्कः कुपितं ज्ञात्वा निर्विण्णः समचिन्तयत्॥ ६०॥

अपुण्यपरिपाकेण प्रजानां जनकोपमः।
संयातः स्मृतिशेषत्वं राजा वात्सल्यपेशलः॥ ६१॥

कोऽन्यस्तत्सदृशो यस्मिन् निर्व्याजसरले प्रजाः।
पितरीव कृताश्वासाः सुखं रात्रिषु शेरते॥ ६२॥

धनिनस्तृणवत्प्राप्याः प्राप्यन्ते रत्नवद्बुधाः।
अमृतादपि दुष्प्राप्यः सौजन्यसरलो जनह्॥ ६३॥

निर्व्याजवैदग्ध्यजुषाममुग्धसरलात्मनाम्।
अनुद्धतोन्नतानां च विरलं जन्म तादृशाम्॥६४॥

अधुना द्वेषदुर्वृत्तः प्रवृत्तनिकृतिर्नृपः।
पापपाकेन लोकानामकाले कलिरागतः॥ ६५॥

मित्रे जगति यातेऽस्तं तस्मिन् भास्वति भूपतौ।
दोषोदयः प्रवृद्धोऽयमन्धकाराय तत्सुतः॥ ६६॥

नूनं सतामतीतानां निष्कारणसुहृत् खलः।
यद्वृत्तपरभागेण यशस्तेषां प्रकाशते॥ ६७॥

तस्मादियं परित्याज्या नृपत्यधिष्ठिता मही।
काले क् अलौ क्षितीशे च जनानां जीवितं कुतः॥ ६८॥

वरपरिचयोदारा दाराह् सतां गुणिनाम् गुणाः
कुलमविकलं भव्या भूतिर्यशः शशिसंनिभम्।
स्थितिसमुचितं वृत्तं वित्तमनिमित्तमनापदं
गुणवति नृपे सर्वं भवत्यपांशुलं प्रजाकुलम्॥ ६९॥

धर्मद्रुमस्य धनमूलसमुद्गतस्य
निर्दोषकामकुसुमप्रवरोज्ज्वलस्य।
लोकः सुखानि किल पुण्यफलानि भुङ्क्ते
हतो न चेत् कुनृपतेर्विनिपातवातैः॥ ७०॥

कलिः कालः पतिर्बालस्तत्प्रतापश्चितानलह्।
अकालविप्लवोत्तालखलवेतालसंकुलः॥ ७१॥

प्रीतिर्विषण्णा खिन्ना धीः सुखश्रीर्गतयौवना।
अधुना विभवाभोगे भोगयोगे न मे रुचिः॥ ७२॥

धनं भूमिर्गृहः दाराः सुता भृत्याः परिच्छदाः।
अहो निरवधिः पुंसामाधिव्याधिपरिग्रहः॥ ७३॥

यथा यथा विवर्धन्ते ग्रीष्मोष्मविषमाः श्रियः।
तथा तथा ज्वलत्येव तृष्णातापः शरीरिणाम्॥ ७४॥

प्रवृद्धैरपि वित्तौघे राजन्योपार्जितैर्नृणाम्।
लवणाब्धेरिव जलैर्वितृष्णा नैव जायते॥ ७५॥

नास्ति नास्तीत्यसंतोषाद् य एव धनिनां जपः।
पुबर्भवे भवेत् को वा स एव प्रशमो यदि॥ ७६॥

किं वित्तैर्दुर्निमित्तैः कलिकलहमोहलोभानुवृत्तैः
किं भोगैर्विप्रयोगैर्व्यसनशतपतनाभ्याससंसक्तरोगैः।
किं वा मिथ्याभिमानैर्नरपतिसदनप्रातसेवावमानैः
अस्मिन् वैराग्यमेव क्षयसमयभये भोग्यमारोग्ययोग्यम्॥७७॥

अतिक्रान्ते काले स्वजनसुहृदालोकविमले
समापन्ने मोहप्रबल (तर) कालुष्यमलिने।
सुखाश्वासह् पुंसां प्रशमसलिलस्नातमनसां
परित्यक्तायासे विजनवनवासे परिवयः॥ ७८॥

इति संचिन्त्य स चिरं परं वैराग्यमाययौ।
दुःखं मोहाय मूर्खाणां विवेकाय च धीमताम्॥ ७९॥

स दत्वा सर्वमर्थिभ्यः प्रययौः सुगताश्रमम्।
श्रीशृङ्खलाकृष्टमतिर्न हि सत्यसुखोन्मुखः॥ ८०॥

यदैव राझंसेन स्मर्यते शुचि मानसम्।
तदैवास्मै वसुमती सरसीव न रोचते॥ ८१॥

याते दुःसहमोहधूममलिने भोगानुरागानले
संतोषामृतनिर्झरेण मनसि प्राते शनैः शीतताम्।
नैताः पानमदोत्तरङ्गविचलद्वाराङ्गराङ्गनाभङ्गुर-
भ्रूभङ्गक्षणसंगमाः शमवतां कुर्वन्ति विघ्नं श्रियः॥ ८२॥

सर्वज्ञशासनविनष्टभवाध्वकष्टः
प्रव्रज्यया विमलमेव पदं प्रविष्टः।
संप्राप्य सर्वसमतामसमप्रकाशः
निर्लक्ष्यमोक्षगमनाय मुनिर्बभूव॥ ८३॥

ताम् बोधिसिद्धिमालोक्य ज्योतिष्कस्य सविस्मयैः।
भिक्षुभिर्भगवान् पृष्टः प्राग्वृत्तान्तमभाषतः॥ ८४॥

जन्मक्षेत्रशतोप्तानां बीजानामिव कर्मणाम्।
भुज्यते फलसंपत्तिरविसंवादिनी जनैः॥ ८५॥

राज्ञो बन्धुमतः पुर्यां बन्धुमत्याम् महायशाः।
अभूदनङ्गनो नाम श्रीमान् गृहपतिः पुरा॥ ८६॥

शास्ताथ सम्यक्संब्य्द्धो विअश्वी नाम ता पुरीम्।
जनचारिकया प्रातः कदाचित् सुकृतैः सताम्॥ ८७॥

द्वाषष्टिभिः स भिक्षूणां सहसैः परिवारितः।
श्रद्धयानङ्गनेनैत्य प्रणम्योपनिमन्त्रितः॥ ८८॥

सर्वोपकरणैस्तेन त्रैमासं परिचारितः।
यथा तथैव राज्ञापि प्रणिपत्य निमन्त्रितः॥ ८९॥

भोगैः स्पर्धानुबन्धेन स ताभ्यामधिवासितः।
अनङ्गनेन पौरार्हैर्भूपालार्हैश्च भूभुजा॥ ९०॥

गजध्वजमणिच्छत्रचामरोदारया श्रिया।
तं दृष्ट्वा पूजितं राज्ञ चिन्तार्तोऽभूदनङ्गनः॥ ९१॥

तस्य सत्त्वावदातस्य पक्षपाती शतक्रतुः।
चकार दिव्यया लक्ष्म्या साहाय्यां जिनपूजने॥ ९२॥

स तया दिव्यया भूत्या भगवन्तमपूजयत्।
यदग्रे चक्रवर्तिध्रीर्लज्जाभाजनताम् ययौ॥ ९३॥

रत्नैर्न्यक्षतचन्द्रसूर्यभानराकंकीरणैरावणभै (?) -
रम्लानाम्बरगन्धमाल्यशबलैः कम्पद्रुमाणां फलैः।
भक्तिप्रह्वश्चीविलासचनाहेलोच्छसच्चामरं
तेनाभ्यर्चितमाकलय्य सुगतं लज्जानतोऽभून्नृपः॥ ९४॥

इति बहुतरं भक्त्या शास्तुः फलं तदनङ्गनः
शुभपरिणतेः पुण्योदारः पुरा समवाप्तवान्।
विमलमनसस्तस्यैवासौ क्षणप्रणिधानतः
पर इव रविज्योतिष्कोऽभूत् स एव पदाश्रितः॥ ९५॥

इत्याह विमलज्ञानप्रकाशितगत्र्त्रयः।
प्रणीधानोपदेशाय भिक्षूणां भगवान् जिनः॥ ७६॥

इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायां
ज्योतिष्कावदानं नाम नवमः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project