Digital Sanskrit Buddhist Canon

८.श्रीगुप्तावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
८ श्रीगुप्तावदानम्।

कृतापकारेऽपि कृपाकुलानि
क्रूरेऽप्यलं पल्लवकोमलानि।
द्वेषोष्मतप्तेऽप्यतिशीतलानि
भवन्ति चित्तानि सदाशयानाम्॥ १॥

पुरा सुरपुरोदारे पुरे राजगृहाभिधे।
श्रीगुप्ताख्यो गॄहपतिर्बभूव धन्दोपमः॥ २॥

दृप्तः सुजनविद्वेषी गुणेषु विरतादरः।
सदा धनमदाध्मातः सा जहास मतिं सताम्॥३॥

कठिनेऽष्वतिवक्रेषु शून्येषु मुखरेषु च।
शन्खेष्विव खलेष्वेव लक्ष्मीर्दाक्षिण्यमाश्रिता॥ ४॥

तं कदाचित् गुरुर्ज्ञातिपुत्रः क्षपणकः खलह्।
मिथः स्वैरकथासक्तः पुण्यद्वेषादभाषत॥५॥

य एष गृध्रकूटाख्ये गिरौ भिक्षुशतैर्वृतः।
सर्वज्ञकीर्तिः सुगतास्त्रिजगत्पूज्यतां गतः॥ ६॥

नैवास्य प्रतिभां कांचिद् भव्यामुपलब्ःआमहे।
नीतः किं तून्नतिं मूर्खैर्बह्गवान् भगवानिति॥ ७॥

अविचायव सततं परोक्तमनुभाषते।
गतानुगतिकः प्रायः प्रसिद्धसरणौ जनः॥ ८॥

व्रतादिनियमस्तस्य दम्भ एव विभाव्यते।
अश्नाति मौनकृत् मत्स्यानेकपादव्रतो बकः॥ ९॥

तस्मआत् तस्योपहासाय क्रियताम् कापि वज्ण्चना।
मायामोहितो धूर्तानाम् परोऽपि परितुष्यति॥ १०॥

इति तेनोक्तमाकर्ण्य श्रीगुप्तः कर्क्ममोहितः।
पतितुं पापश्वभ्रेषु युक्त्या तदुपदिष्टया॥ ११॥

प्रदीप्तखदिराङ्गारपूर्णां गूढां खदां गृहे।
कृत्वा सविषमन्नं च ययौ भगवतोऽन्तिकम्॥ १२॥

तेन मिथ्याविहितया भक्त्या भोक्तुं निमन्त्रितः।
विज्ञाय सर्वं सर्वग़्यस्तथेति प्राह सस्मितः॥१३॥

विषग्नियोगकुपिताम् पत्नीं सद्धर्मवादिनीम्।
गृहे बबन्ध श्रीगुप्तः शङ्कितो मन्त्रविश्रवात्॥ १४॥

अथ विज्ञातवृत्तोऽपि भगवान् स्वयमाययौ।
वन्द्यमानो जगद्वन्द्यैश्चतुर्मुखमुखैः सुरैः॥ १५॥

श्रीगुप्तस्य तमारम्भं विवेदं नगरे जनः।
दिक्षु धावति पापानां सुगुप्तमपि पातमक्॥ १६॥

ततः कश्चित् समभ्येत्य भगवन्तमुपासकः।
उवाच चरणालीनाश्चिन्तयन् दहनं विषम्॥ १७॥

मिथ्यानम्रह् प्रियालापी गुढवह्निविषान्नदः।
परिहार्यः प्रयत्नेन भगवन्नेष दुर्जनह्॥ १८॥

कुर्यादनार्ये नाश्वासि कार्यं माधुर्यमाश्रिये।
अन्त्रच्छेदी विगीर्णो हि मधुदिग्धमुखः क्षुरः॥ १९॥

नान्यस्तुतिं गुणद्वेषी सहते गुणिनाम् खलः।
सन्तस्तुष्यन्ति येनैव तेनकुप्यन्ति दुर्जनाः॥ २०॥

त्वयि लोकत्रये नेत्रशतपत्रविकाशिनि।
अस्य राहोः पदं प्राप्ते नान्धीभवति किं जगत्॥ २१॥

तच्छ्रुत्वा भगवानूचे किंचित् स्मितसितांशुभिः।
तन्निकारोग्रतिमिरं दूरात् परिहरन्निव॥ २२॥

न ममाङ्गं स्पृशत्यग्निः प्रबह्वत्यपि वा विषम्।
परद्वेषदरिद्राणां दोषोऽपि निरुपद्रवः॥ २३॥

अरोषशीतलं चेतः सिक्तं यस्य शमामृतैः।
किं करोत्यनलस्तस्य विषं वा विषयद्विषः॥ २४॥

विषायते तु पीयूषं कुसुमं कुलिशायते।
द्वेषदोषोत्तरस्यैव चन्दनं दहनायते॥ २५॥

तिर्यग्योनिगतस्यापि बोधिसत्त्वपदास्थितेः।
कारुण्यमैत्रीयुक्तस्य नाग्निर्दहति विग्रहम्॥ २६॥

पुरा कलिङ्गनृपतिः खण्डद्वीपाभिधावनीम्।
ददाह मृगसंघानाम् संक्षेपे स समुद्यतः॥ २७॥

कानने ज्वलिते तस्मिन्नेकस्तित्तिरिशावकः।
मैत्र्या बोधिं समालम्ब्य दहनप्रशमं व्यघात्॥ २८॥

तस्मादद्रोहमनसां न भयं विद्यते क्कचित्।
श्रूयतां सत्त्वसंपत्तेरिदमन्यच्च कौतुकम्॥ २९॥

अवृष्टिविषमे काले मुनेः कस्यचिदाश्रमे।
मनुष्यसदृशालापः शशकः सुचिरं स्थितः॥ ३०॥

क्षुत्क्षामं मुनिमालोक्य फलमूलपरिक्षयात्।
उवाचाचलसंकल्पस्तद्व्यथाव्यथिताशयः॥ ३१॥

भगवन् मम् मांसानां संप्रति प्राणवर्तनम्।
क्रियतां रक्षणीयं तत् शरीरं धर्मसाधनम्॥ ३२॥

इत्युक्त्वा दावशेषाग्नौ विक्षेप शह्स्कस्तनुम्।
वार्यमाणोऽपि यत्नेन प्रणयान्मुनिना मुह्युः॥ ३३॥

तस्य सत्त्वप्रभावेण ज्वलज्ज्वालाकुलोऽनलः।
प्रययौ मज्ण्जुशिञ्जानभ्रमराम्भोजखण्डताम्॥ ३४॥

सोऽपि दिव्यवपुस्तत्र कमले महति स्थितः।
प्रणम्यमानो मुनिर्भिर्विदधे धर्मदेशनाम्॥ ३५॥

इति बोधिप्रवृत्तानां न वह्नेर्न विषाद्भयम्।
भगवान् कथयित्वेति श्रीगुप्तभवनं ययौ॥ ३६॥

तत्र तेन प्रविश्यैव निक्षिप्ते दक्षिणे पदे।
बभूवाग्निखदा मज्ण्जुगुञ्जद्ऱ्उङ्गसरोजिनी॥ ३७॥

दृष्ट्वोपविष्टं श्रीगुप्तस्तं सरोरिहविस्तरे।
तद्दृष्टिनष्टकालुष्यः प्रोवाचः चरणानतः॥ ३८॥

भगवन् मम पापस्य क्षन्तव्योऽयं व्यतिक्रमः।
मोहान्धपतिते रुच्यं कारुण्यमधिकं सताम्॥ ३९॥

ममाकल्याणमित्रेण योऽयं पापपथे कृतः।
उपदेशः प्रमोहेण तत्र त्राणं भवत्स्मृतिः॥ ४०॥

विषदिग्धरसं सर्वं भोज्यं ते कल्पितं मया।
अहो ममैव संक्रान्तं पश्चात्तपमयं विषम्॥ ४१॥

इति ब्रुवाणं श्रीगुप्तं साश्रुनेत्रं कृपानिधिः।
दृष्ट्वा बभाषे भगवान् भिक्षुसंघस्य शृण्यवतः॥ ४२॥

विषादं मा कृथाः साधो न वयं विमुखास्त्वयि।
घोरवैरविषत्यागान्नैवास्मास्तपते विषम्॥ ४३॥

वाराणस्यां पुरा श्रीमान् ब्रह्मदत्तोऽभवन्नृपः।
अभूदनुपमा नां अतस्य प्राणसमाश्रया॥ ४४॥

सुवर्णभाससंज्ञस्य तत्पुरान्तवनस्थितेः।
रवं मयूरराजस्य सा कदाचिदथाशृणोत्॥ ४५॥

सा तस्य शदमाकर्ण्य वेणुवीणास्वनोपमम्।
किमेतदिति पप्रच्छ नरनाथं सकौतुका॥ ४६॥

राजोवाच वनान्तेऽस्मिन्नस्ति रत्नच्छदः शिखी।
मधुरंयोजनव्यापि यस्यैतत् कण्ठकूजितम्॥ ४७॥

इति ब्रुवाणो नृपतिस्तत्संदर्शनमर्थितः।
प्रेमप्रयत्नैः प्रेयस्या प्रहसन् पुनरब्रवीत्॥ ४८॥

दर्शनं दुर्लभं मुग्धे तद्विधाद्भुतरूपिणः।
तथापि यदि निर्बन्धः क्रियते तत्परिश्रमः॥ ४९॥

इत्युक्त्वा नृपतिस्तस्य ग्रहणे जालजीविनः।
व्यसृजत् तस्य संर्पाप्त्यैः विधाय वधसंविदम्॥ ५०॥

वशीकृतो न वेत्त्येव मोहादक्षिपरीक्षया।
अनुरागाहतः स्त्रीभिरकर्माण्यपि कार्यते॥ ५१॥

प्राप्तानाम् प्रणयात् पत्न्याः प्रौढायाः पादपीठताम्।
ईर्ष्ययैव विनश्यन्ति धीधृतिस्मृतिकीर्तयः॥ ५२॥

ततः शाकुनिकैर्न्यस्ताः पाशबन्धाः पदे पदे।
प्रभावाद्बर्हिराजस्य् व्यशीर्यन्तैव संततम्॥ ५३॥

दुःखितान् यत्नवैफल्याद्भीतान् नृपतिशासनात्।
मयूरराजस्तान् दृष्ट्वा करुणाकुलतां ययौ॥ ५४॥

सोऽचिन्तयदहो भीताः क्ष्मापतेः श्रूरशासनात्।
मद्बन्धने विसंवादाद्वराका जालजीविनह्॥ ५५॥

संचिन्त्य कृपया स्पष्टग्भिर्विसृज्य तान्।
नृपमानाय्य तद्वेश्म तेनैव सहितो ययौ॥ ५६॥

स तत्रान्तःपुरे नित्यं सभार्येण महीभुजा।
पूज्यमानः परिचयादुवास विहितादरः॥ ५७॥

स्निग्धश्यामाम्बुदत्विषा सुनीलमणिवेश्मसु।
चित्रपत्ररुचा चक्रे संसक्तेन्द्रायुधभमम्॥ ५८॥

अथ दिग्जययात्रायाम् कदाचिद्वसुधाधिपः।
ययौ तदुपचाराय देवीमादिश्य सादरः॥ ५९

ततश्चानुपमा देवी पत्यौ याते प्रमादिनी।
रूपयौवनदर्पान्धा नालुलोके कुलस्थितिम्॥ ६०॥

तरुणं प्रेक्ष्य रागिण्यास्तस्याः कन्दर्पविप्लवे।
भूयः प्रलम्भभीतेव लज्जा दूरतरं ययौ॥ ६१॥

मलिनः कुटिलस्तीक्ष्णः कर्णसंस्पर्शनोचितः।
चपलश्चपलाक्षीणां सुदृशां सदृशः क्रमः॥ ६२॥

विविधोन्मादकारिण्यः संसारमकराकरे।
चरन्ति प्राणहारिण्यः कालकूटच्छदाः स्त्रियः॥ ६३॥

कुसुमात् सुकुमारस्य क्रूरस्य क्रकचादपि।
को जानाति परिच्छेदं स्त्रीणां चित्रस्य चेतसः॥ ६४॥

प्रचरन्तीं प्रियां कण्ठे कृत्वा ये यान्ति निर्वृतिम्।
शीतलां विमलां स्निग्धां खङ्गधारां पिबन्ति ते॥ ६५॥

साचिन्तयत् स्थितः शल्यमयमन्तःपुरे मम।
मयूरराजः शीलज्ञः पुरुषालापवेष्टितः॥ ६६॥

कथयिष्यत्यवश्यं मे वृत्तमेष महीपतेः।
निन्द्यं कर्म कृतं तावदधुना किं करोम्यहम्॥ ६७॥

आस्तां परिज्ञाततत्त्वो मर्मज्ञोऽसौ विदग्धधीः।
जाता मे कृतपापायाः शङ्का निश्चेतनेष्वपि॥ ६८॥

इति संचिन्त्य सा त् अस्य सविषं भोजनं ददौ।
रागमत्ताः खलायत्ताः किं किं कुर्वन्ति न स्त्रियः॥ ६९॥

तयोपाचर्यमाणस्य सविषैः पानभोजनैः।
विवृद्धा बर्हिराजस्य रुरुचे रुचिरा रुचिः॥ ७०॥

स्वस्थमालोक्य तं देवी रहस्योद्भेदशङ्किता।
शनैः शोकामयग्रस्या त्रस्या तत्याज जीवितम्॥ ७१॥

एवं तस्य विषेणापि नैव ग्लानिरजायत।
महतां चित्तवैमल्यं निर्विषं कुरुते विषम्॥ ७२॥

रागो विषं विषं मोहो द्वेषश्च विषमं विषम्।
बुद्धो धर्मस्तथा संघः सत्यं च परमामृतम्॥ ७३॥

घोरं विषं सृजति मोहमहाम्बुराशिः
घोरं विषं सृजति रागमहोरगश्च।
घोरं विषं सृजति वैरवनावनिश्च
जन्मक्रमोऽस्ति विषमस्य विषस्य नान्यः॥ ७४॥

अधर्मकामः कृतवानेवमेवान्यजन्मनि।
श्रीगुप्तोऽग्निखदां सापि तस्याभूत्सहधर्मिणी॥ ७५॥

इत्युक्त्वा भगवान् सम्यक्करुणालोकनाम्बुभिः।
चकार वीतरजसं श्रीगुप्तं शासनोन्मुखम्॥ ७६॥

कलितकुशलः श्रीगुप्तोऽथ प्रकाशपदाप्तये
शरणगमनान्येव त्रीणि स्मरन् विमलस्मृतिः।
जिनपरिचयात् पुण्यं लेभे सताम् हि वोलोकनं
भवति महते कल्याणाय प्रमोदसुखाय च॥७७॥

श्रीगुप्तस्य निकारकिल्बिषजुषोऽप्यज्ञानमोहापहः
कृत्वावश्यमनुग्रहेण भगवान् कारुण्यपुण्योद्यतः।
भिक्षूणां भवसंक्षयाय विदधे निर्वैरताशासनं
येनैते न भवन्ति बन्धभवने भूयो भवग्रन्थये॥ ७८॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां
श्रीगुप्तावदानं नाम अष्टमः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project