Digital Sanskrit Buddhist Canon

७.मुक्तालतावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
७ मुक्तालतावदानम्।

कुश्लप्रणिधानशुद्धधान्मां
विमलालोकविवेकबोधकानाम्।
परिकीर्तनमात्रमेव येषां
भवमोहापहतेस्त एव धन्याः॥ १॥

पुरा पर्षत्सहस्राणां न्यग्रोधोपवनस्थितिः।
कपिलाख्ये पुरे चक्रे भगवान् धर्मदेशनाम्॥ २॥

अमन्दानन्दसंदोहस्यन्दि चन्दनशीतलम्।
तस्य वागमृतं धन्याः कृताङ्जलिपुटाः पपुः॥ ३॥

राजा शुद्धोदनस्तत्र धर्मश्रवणसंगमे।
पुण्योपदेशसलिलैर्लेभे वैमल्यनिर्वृतिम्॥ ४॥

अथ तत्र महानामा शाक्यराजकुलोद्भवः।
धर्मोपदेशमाकर्ण्य प्रातः स्वगृहमब्रवीत्॥ ५॥

अहो नु भगवान् बुद्धो धर्मः संघश्च सिद्धये।
बुद्धोत्पादोऽयमस्माकं निर्वाणाय महाफलः॥ ६॥

उपदेशविशेषाप्तानिर्ऱ्तेस्तस्य तद्वचः।
श्रुत्वा शशिप्रभा पत्नी प्रणयात्तमभाषतः॥ ७॥

अनुग्राह्या भगवतः पुरुषाः पुण्यभागिनह्।
निन्द्यास्तदुपदेशानामनर्हा योषितो वयम्॥ ८॥

इति जायावचः श्रुत्वा स जगाद जगद्गुरोः।
भद्रे भगवतो नास्ति भेदः कारुण्यदर्शने॥ ९॥

समा सर्वत्र भा भानोः समा वृष्टिः पयोमुचः।
समा भगवतो दृष्टिः सर्वसत्त्वानुकम्पिनः॥ १०॥

महाप्रजापतेर्वाक्यादपराह्णक्षणं तपः।
शुद्धोदनः करोत्येव राजा बह्गवतोऽन्तिके॥ ११॥

इति पत्युः प्रियगिरा वृता शाक्याङ्गनागणैः।
याचने तद्भगवतह् सा पुण्योपवनं ययौ॥ १२॥

सा सत्वकुसुमं तत्र तं ददर्श महाफलम्।
प्रशमामृतसंसिक्तं करुणाकल्पपादपम्॥ १३॥

लतेव पवनानम्रा तं दूरात् प्रणनाम सा।
लोभेनेव परित्यक्रा च्युतकर्णोत्पलच्छलात्॥ १४॥

विलोक्य काञ्चनरुचिं रत्नभूषणभूषिताम्।
आनन्दनामा भिक्षुस्तामुवाच प्रहितोद्यतः॥ १५॥

वेषः प्रशमशून्योऽयं मातर्मुनितपोवने।
दर्पोत्सिक्तो न युक्तस्ते विरक्तानामिदं पदम्॥ १६॥

गुणसंयमसिक्तानि मुखराभ्रणान्यहो।
नेहास्तद्ग्रहणं युक्तमितीवोपदिशन्ति ते॥ १७॥

इत्युक्ता तेन सा तन्वी वैलज्यविनतानना।
उन्मुच्याभरणं सर्वं प्राःइणोन्निजमद्निरम्॥ १८॥

उपविष्टेषु सर्वेषु निर्दिष्टकुशलस्ततः।
अनित्यतैवं भगवानुपदेशं प्रवक्रमे॥ १९॥

महामोहप्रभावोऽयं येन नित्यमनित्यताम्।
नित्यतामिव मन्यन्ते मूढा जगति जन्तवः॥ २०॥

असत्ये रमते लोकः सत्यप्रत्ययमोहितः।
न वेत्ति सर्वभावानामभावानुभवां स्थितिम्॥ २१॥

केचिद् व्याकरणैः परे श्रुतिपथैस्तर्कप्रवादैः परे
केचित्तन्त्रपरिग्रहैर्बहुविधैरन्यैः कलाकौशलैः।
संसक्ताः पुनरुक्तजन्मशरणौ याता सहैव क्षयं
तत्राप्यक्ष्ययलीलया क्षणपदं मुग्धौर्निबद्धा धृतिः॥ २२॥

विषयविषमापायः कायः प्रपञ्च(म)याशया
खरतरमरुस्फाराकारो मोहभावो भवः।
हितभूमि (?) तथाकार्यं कार्यं विवेकिनां तथा
निरवधिरयं दृष्ट्वा व्याधिर्यथा (हि) निवर्तते॥ २३॥

इत्याद्यनित्यसंस्कारसंयुक्तं युक्तमुद्यते।
धर्मोपदेशकुशलं वक्तुं भगवति स्वयम्॥ २४॥

एका शाक्यवधूस्तत्र रूपसौभाग्यगर्विता।
स्थिता शौशवतारुण्यसंघौ वयसि दुःसहे॥ २५॥

मुक्ताहारं स्तनतटे लोलापाङ्गैर्मुहुर्मुहुः।
आलिलोके यशःस्फारसारं रतिपतेरिव॥ २६॥

हारावलोकिनीं दृष्ट्वा तामनेकाग्रहादसौ।
अचिन्तयाद्विरक्तेन मगत्पत्नी शशिप्रभा॥ २७॥

इयं धर्मोपदेशेऽपि चपला हारमीक्षते।
भावानां न शृणोत्येव मूढा क्षणिकतामिमाम्॥ २८॥

स्वं हारं दर्शयित्वास्या हारोत्साहं हराम्यहम्।
अधिकालोकनेनैव दर्पः शाम्यति देहिनाम्॥ २९॥

इति संचिन्त्य सा दासीं रोहिकाख्यामभाषत।
रोहिके गच्छ मे हारं गृहात् सत्वरमाहर॥ ३०॥

इत्युक्ता सा तया तत्र प्रवृत्ते धर्मसंश्रवे।
अकालगमनोद्विग्ना निःश्वस्याचिन्तयत् क्षणम्॥ ३१॥

अहो बतान्तरायोऽयं संजातः कुशले मम।
नास्मिन् श्रोतुं लभे धर्मं यत्परायत्तजीविता॥ ३२॥

पुण्यसौरभसंभारात् कीर्णकारुण्यकेसरात्।
मुखपद्माद् भगवतो धन्यः प्राप्नोति वाङ्भधुः॥ ३३॥

अहो स्वाच्छन्द्यविच्छेदस्तनुभङ्गः सुखक्षयः।
सेवा जगति जन्तूनां दुःखे दुःखपरंपरा॥ ३४॥

सेवाप्रयाससंप्राप्तं धनमानकणोदयम्।
तत्पमत्युष्णनिःश्वासैरहो कृच्छ्रेण पीयते॥ ३५॥

मानग्लानिर्गुणग्लानिरोजःपुनशमः श्रमह्।
प्रथमं बन्धनशृङ्खला चरणयोर्हेलावमानावनी
स्वव्यापारनिषेधनित्यनियती निद्रासुखद्रोहिणी।
आशास्यस्य विशालजालसरणिः सत्सङ्गभोगाशनिः
मुग्धानां मृगतृष्टिकामरुमही सेवा शरीरक्षयः॥ ३७॥

इति संचिन्त्य सुचिरं सा जगाम तदाज्ञया।
सेवाविक्रीतकायानां स्वेच्छाविहरणं कुतः॥ ३८॥

व्रजन्तीं ताम् परप्रेष्यां कृपणां करुणाकुलः।
निरीक्ष्य बह्गवान् दिव्यचक्षुषाचिन्तयत् क्षस्णम्॥ ३९॥

अस्मिन् जन्मनि शेषोऽस्या संपूर्णो जीवितावधिः।
इयं वराकी संसारादुद्धर्तव्या स्वयं मया॥ ४०॥

अथ ताम् कर्मयोगेन व्रहन्तीं सहसा पथि॥
वत्सवात्सल्यविवशा शृङ्गाभ्यामाजघान गौः॥ ४१॥

सा प्रदघ्यौ भगवतः प्रसादात् तन्मयस्मृतिः।
जन्मान्तराधिवासेन बुद्धालम्बनमानसा॥ ४२॥

अहो कर्मोर्मिभिः शीर्णे संसारमकराकरे।
जन्मावर्तेषु जन्तूनां मज्जनोन्मज्जनक्रमः॥ ४३॥

पुंसो ललाटविपुलोपलपट्टिकासु
निःशर्मकर्मघटितप्रकटाङ्कटङ्कैः।
नयस्तानि जन्ममरणप्रसराक्षराणि
नैतानि पाणिपरिमार्जनया चलन्ति॥ ४४॥

इयं कर्मायत्ता प्रचुरचित्रवैचित्ररचना
नराणां मायूरच्छदपटलतुल्या परिणतिः।
यया गर्भारम्भे क्रमनिपतने वृद्धिसमये
क्षये वा नान्यत् प्राभजत तनुलेखाच्छविरति॥ ४५॥

संचिन्त्याथ पुरः प्रवृत्तसुदशासन्नावसन्नस्थितिं
प्राप्तेवासमदासभावकलनावैलक्ष्यनिः स्पन्दताम्।
आधाय प्रणिधानधाम्नि धवले सद्धर्मशुद्धां धियं
संसारे विचिकित्स्य एव मलिनं तत्याज सा जीवितम्॥ ४६॥

ततः सा सिंहलद्वीपे समीपे स्वर्गसंपदाम्।
चन्द्रलेखेव दुग्धाब्धौ दिव्यद्युतिरजायत॥ ४७॥

आधानजन्मनस्तस्य मुक्तावर्षें दिवश्च्युते।
साभून्मुक्तालता नाम सिंहलाधिपतेः सुता॥ ४८॥

सा पुण्यमिव लावण्यं वहन्ती वृद्धिमागता।
लेभे विवेकेनाङ्गानां संतोषमिव यवनम्॥ ४९॥

ततः कदाचिद्वणिजः श्रावस्तीपुरवासिनः।
मकराकरमुत्तीर्य सिंहलद्वीपमाययुः॥ ५०॥

ते तत्र रात्रिपर्यन्ते विश्रान्तिसुखमाजगुः।
धर्मार्थगाथासंनद्धप्रबुद्धबुद्धभाषितम्॥ ५१॥

त्दन्तःपुरहर्म्यस्था श्रुत्वैव श्रवणामृतम्।
किमेतदिति पप्रच्छ तानानाय्य नृपात्मजा॥ ५२॥

ते तामूचुः प्रमुदितामिदं बुद्धस्य ब्ःआषितम्।
स्वभावार्हं भगवतः सर्वसत्त्वानुकम्पिनह्॥ ५३॥

बुद्धामिधानं श्रुत्विव पुलकालंकृताकृतिः।
सा बभूव समुद्भूतसंविद्भव्यानुभावभूः॥ ५४॥

उन्मुभी सामयूरिव शब्दैरेव पयोमुचः।
क एष भगवान् बुद्ध इति पपर्च्छः तान् पुनः॥ ५५॥

ततस्ते निखिलं तस्यै श्रद्धासंवर्धितादराः।
न्यवेदयन् पुण्यमयीं भगवच्चरितस्थितिम्॥ ५६

अथ सा तत्कथावाप्तप्राग्जन्मकुशलोदया।
विग़्यप्तिलेखं प्रददौ तेषां भगवतः कृते॥ ५७॥

कालेन सिन्धुमुत्तीर्य संर्पाप्तास्ते निजां पिरीम्।
प्रणम्यावेद्य तद्वृत्तं ददुर्लेखं महात्मने॥ ५८॥

भगवानपि सर्वग़्यः पूर्वमेव विभाव्य तत्।
मुक्तालतायाः कृपया स्वयं लेखमवाचयत्॥ ५९॥

अहो स्मरणमेव ते किमपि पुण्यपण्यं सतां
भवातिबह्वभैषजं व्यसनतापतृष्णापहत्।
भवन्मयकथाक्रमोपनतसंविदास्वादभूः
स् एष भगवन् महानमृतसंविभागो मम॥ ६०॥

इति संक्षिप्तलेखार्थं विभाव्य भगवान् स्वयम्।
ईषत्स्मित्विषा सत्त्वप्रकाशमदिशद्दिशाम्॥ ६१॥

ततश्चित्रकराशक्यां प्रभावैरनुपूरिताम्।
भगवान् प्राहिणोत् तस्यै न्यस्तां स्वप्रतिमां पटे॥ ६२॥

पुनः प्रवहणारूढा वणिजस्ते तदाज्ञया।
अवाप्य सिंहलद्वीपं तस्यै पटमदर्शयन्॥ ६३॥

हेमसिंहासनन्यस्ते पटे दृष्ट्वा तथागतम्।
जनस्तन्मयताध्यानादेकीभावमिवाययौ॥ ६४॥

अधस्ताल्लिखितं तस्मिन् पुण्यप्राप्तमदृश्यत।
तिस्रः शरण्या गतयः पञ्च शिक्षापदाणि च॥ ६५॥

सप्रतीत्यसमुत्पादः सानुलोमविपर्ययः।
आर्याष्टाङ्गस्तथा मार्गः परमामृतनिर्भरः॥ ६६॥

स्वयं भगवता व्यस्तं तस्योपरि सुभाषितम्।
शोभते भावनालीनं भ्राजिष्णु कनकाक्षरम्॥ ६७॥

विषमविषयालोलव्यालावलीवलयाकुलात्
तरुणतिमिरान्निष्क्रम्यास्मात् प्रमोहमयाद्गृहात्।
जननमरणक्लेशावेशप्रवृत्तपृथिव्यथा
व्रजत शरणं बौद्धं धर्मं न चात्र भवाद्भयम्॥ ६८॥

जिनप्रतिकृतिं पुण्याम् पश्यन्ती पार्थिवात्मजा।
अनादिकालोपचितां मुमोचाज्ञानवासनाम्॥ ६९॥

प्रांशुं कवत(?) काञ्चनकान्तकायं
सुस्कन्धमाजानुभुजाभिरामम्।
ध्यानावधानार्थनिमीलिताक्षं
लावण्यधारायिततुङ्गनासम्॥ ७०॥

स्वभावभव्यं प्रविभासमानं
प्रलम्बनिर्भूषणकर्णपाशम्।
बाळप्रवालारुणवल्कलाङ्कं
संसक्तसंध्याभ्रमिवामराद्रिम्॥ ७१॥

त्विषा दिषां शीलमिवादिशन्तं
आनन्ददानोद्यतवक्त्रचन्द्रम्।
क्षमागुणं क्षामिव शिक्षयन्तं
पुण्योचिता सा सुभगं विलोक्य॥ ७२॥

प्रणामपर्यन्तकपोलचुम्बि-
कर्णोत्पलानां परिवर्तनेन।
निरस्य निःसारशरीरतृप्तिं
सत्यानुभावं परमं प्रपेदे॥ ७३॥

स्रोतःसमापत्तिफलप्रकाशं
सासाद्य तत्र क्षणलब्धबोधिः।
विचिन्तयन्ती सुगतप्रभावं
समभ्यधाद्विस्मयहर्षभूमिः॥ ७४॥

अहो महामोहतमोहरेण
दूरस्थितेनामि तथागतेन।
प्रसह्य ब्ःआस्वद्वपुषार्पितेयं
विकासलक्ष्मीः कुशलाम्बुजस्य॥ ७५॥

तीर्णो बह्वः सत्प्रणिधानमाप्तं
प्रसन्नमन्तःकरणं क्षणेन।
अहो नु तृष्णापरितापशान्त्यै
समुच्छलन्तीव समामृतौघाः॥ ७६॥

इत्युक्त्वा सा बह्गवते मुक्तारत्नान्युपायनम्।
वितीर्य संघपूजायां विससर्ज वणिग्जनम्॥ ७७॥

ते महोदधिमुत्तीर्य प्राप्ता बह्गवतोऽन्तिकम्।
तन्मुक्तारत्ननिकरं प्रणम्यास्मै न्यवेदयन्॥ ७८॥

वणिग्भिः कथितां श्रुत्वा तत्कथां तत्र भिक्षुणा।
आनन्दनाम्ना पृष्ठोऽथ बभाषे भगवान् जिनः॥ ७९॥

यासौ पुरा रोहिताख्या दासी शाक्यगृहेऽबह्वत्।
सैव मुक्तालता जाता सत्कर्मप्रणिधानतः॥ ८०॥

अभून्महाधनो नाम वाराणस्यां वणिक् पुरा।
तस्य रत्नवती नाम पत्नी पुण्योचिताभवत्॥ ८१॥

सा पत्यौ पञ्चतां याते निःपुत्रा स्तूपशेखरे।
पूजां कृत्वा महाहारां भक्तियुक्ता न्यवेदयत्॥ ८२॥

तेन पुण्यविपाकेन सिंहलाधिपतेः सुता।
जाता मुक्तालता सैव प्राता च परिनिर्वृतिम्॥ ८३॥

सैव जन्मनि चान्यस्मिन्नैर्वर्यमदमोहिता।
पूजाधिक्षेपदक्षाभूद्धासी तेनातिवत्सरम्॥ ८४॥

जन्मभूमौ जनेनात्पं यद्यत्कर्म शुभाशुभम्।
तस्य तस्य स तद्रूपं भुङ्क्ते परिणतं फलम्॥ ८५॥

निखिलकुशलमूला कीर्तिपुष्पोज्ज्वलश्रीः
शुभफलभरसूरिर्धर्मवल्ली नराणाम्।
भवति च विषवल्ली किल्बिषक्लेशमूल-
भ्रमनिपतनमोहानन्तसंतापहेतुः॥ ८६॥

संतप्तेऽस्मिन् खरतरमरुष्फारसंसारमार्गे
पापं पुन्यं त्यजत जनताः सक्ततीव्रानुतापम्।
पुण्यं पुण्यं कुरुत सततं पुण्यपीयूषसिक्ताः
पुण्यच्छायातरुतलभुवः शीतलाः पुण्यभाजाम्॥ ८७॥

इति सत्प्रणिधानस्य फलं कथयता स्वयम्।
भिक्षूणामुपदेशोऽयं भक्त्यै भगवता कृतः॥ ८८॥

इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पतायां
मुक्तालतावदानं नाम सप्तमः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project