Digital Sanskrit Buddhist Canon

६.बदरद्वीपयात्रावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
६ बदरद्वीपयात्रावदानम्।

दानोद्यतानाम् पृथुवीर्यभाजां
शुद्धात्मनां सत्त्वमहोदधीनाम्।
अहो महोत्साहवताम् परार्थे
भवन्त्यचिन्त्यानि समाहितानि॥ १॥

हर्म्यारोहणहेलया यदचलाः स्वभ्रैः सहाभ्रंलिहा
यद्वा गोष्पदलीलया जलभरक्षोभोद्धताह् सिन्धवः।
लङ्घ्यन्ते भवनस्थलीकलनया ये चाटवीनां तटा-
स्तद्वीर्यस्य महात्मनाम् विलसतः सत्त्वोर्जितं स्फूर्जितम्॥२॥

पुरा हि भगवान् बुद्धः श्रावस्त्यां पुरवासिनां।
उपदेशप्रकाशेन जहाराज्ञानजं तमः॥ ३॥

भिक्षुसंघैः परिवॄतः स कदाचिद्वणिग्जनैः।
कृतानुयात्रो मगधात् स्वयं चारिकया ययौ॥ ४॥

महार्थसार्थानुगतं व्रजन्तं वनवर्त्मना।
तं दृष्ट्वा तस्करगणः सालाटव्यामचिन्तयत्॥५॥

एष प्रयातु बह्गवान् पुरः सत्त्वहिते रतः।
पश्चात् सार्थं ग्रहीष्यामः पूर्णं द्रविणराशिभिः॥ ६॥

भगवानथ सर्वज्ञस्तेषां ज्ञात्वा समीहितम्।
किमेतदिति तानूचे निर्विकारस्मिताननः॥ ७॥

ते तमूचुः परित्यज्य क्रौर्यं मधुरया गिरा।
तत्प्रसादस्मितालोकैर्विनष्टतिमिरा इव॥ ८॥

भगवन् जीविकास्माकं निन्द्येयं कर्मनिर्मिता।
न भृतिर्न कृषिर्नान्यरक्षणं न प्रतिग्रहह्॥ ९॥

सहजं क्रौर्यमस्माकं देव तीक्ष्णा हि कर्णिका॥ १०॥

तस्मान्न वृत्तिलोपो नः कर्तुमर्हसि गम्यताम्।
याते तु त्वयि सार्थस्य वयं सर्वार्थहारिणह्॥ ११॥

इति तेषां वचः श्रुत्वा करुणापूर्णमानसः।
दोलालोलायितमतिर्बभूव बह्गवान् क्षणम्॥ १२॥

ततः सार्थधनं सर्वं परिसंख्याय तत्समम्।
स ददौ चौरचक्राय तत्क्षणाप्तनिधानतः॥ १३॥

तद्विधेन क्रमेणैव पुनः पथि गतागतैः।
षट्कृत्वः प्रददौ तेभ्यः सोऽर्थं सार्थस्य मुक्तये॥ १४॥

पुनश्चोपगते तस्मिन् वर्त्मना तेन सानुगे।
बभूव बुद्धिश्चराणां तद्भोजननिमन्त्रणे॥ १५॥

दृशा दिशन्ति वैमल्यं शुभं संभाषणेन च।
व्रजन्ति संगमाभ्यासैः सन्तः सन्मार्गसेतुताम्॥ १६॥

तत्रातिर्यग्दृशा सर्वं सर्वाकुशलसंक्षयात्।
तेषां समाहितं शुद्धं विदधे भगवान् जिनह्॥ १७॥

येषां संग्रहवस्तूनि वत्वारि नियतात्मनाम्।
अर्थचर्या समानार्थब्ःआवस्त्यागः प्रियं वचः॥ १८॥

येषां ब्रह्मविहाराश्च चत्वारः सत्त्वशालिनाम्।
करुणा मुदितोपेक्षा मैत्री चेति परिग्रहः॥ १९॥

येषां कुशलमूलानि सक्तानि त्रीणि चेतसि।
अलोभश्चापरिद्वेषोऽप्यमोहश्च महात्मनाम्॥ २०॥

दानशीलक्षमावीर्यध्यानप्रज्ञाजुषां सदा।
उपायप्रणिधिज्ञानबलैराश्रितचेतसाम्॥ २१॥

परित्राणैकवीराणां सदैवाद्वयवादिनाम्।
विद्यात्रयप्रदीप्तानां चतुर्वैमल्यशालिनाम्॥ २२॥

पञ्चस्कन्धवुमिक्तानां षडयतनभेदिनाम्।
सप्तबोध्यङ्गयुक्तानामर्याष्टाङ्गोपदेशिनाम्॥ २३॥

नवसंयोगहीनानाम् तेषां दशबलात्मनाम्।
किं वस्त्वविदितं लोके जिनानां जनचेष्टितम्॥ २४॥

ततस्तेष्वतिकारुण्याच्चरणालीनमूर्धसु।
तथेत्युवाच भगवांस्तद्भोज्योपनिमन्त्रणे॥ २५॥

तैस्तत्संदर्शनक्षीणकिल्बिषैः सममर्पितम्।
भिक्षुस्ंघैर्वृतो भोज्यं विधिवत् सर्वमाददे॥ २६॥

ततस्तत्प्रणिधानेन ज्ञानालोकशलाकया।
ते समुन्मीलितदृशः प्रकाशं ददृशुः पदम्॥ २७॥

ते सद्यस्तीव्रवैराग्यपरिपक्काः प्रसादिनः।
प्रव्रज्यायोगमासज्य जग्मुर्जगति पूज्यताम्॥ २८॥

तत्तेषां कुशलं दृष्ट्वा सहसोपनतं पुरः।
बभाषे भगवान् पृष्टः किमेतदिति भिक्षुभिः॥ २९॥

एतैर्यमायं संबन्धः सार्थरक्षणनिष्क्रयैः।
द्वीपयात्रागतस्यासीदन्यस्मिन्नपि जन्मनि॥ ३०॥

अस्ति विस्तीर्णमार्गस्य स्वर्गवर्गावधिर्विधेः।
पुरी वाराणसी नाम कौशलोत्कर्षहर्षभूः॥ ३१॥

यस्याममलकल्लोलवाहिनी सुरवाहिनी।
सदा दयेव हृदयं प्रसादयति देहिनाम्॥ ३२॥

अहिंसेव सताम् सेव्या विद्येव विदुषां मता।
क्षमेव सर्वभूतानां या विश्रम्भसुखस्थितिः॥ ३३॥

ब्रह्मकल्पे नृपे तस्या विकसत्कमलाश्रये।
ब्रह्मदत्ताभिधे लोकं त्रैलोक्यमिव रक्षति॥ ३४॥

प्रियसेनाभिधानोऽभूत् तत्र वैश्रवणोपमः।
सार्थवाहोऽर्थसार्थानाम् स्थानमब्धिरिवाम्भसां॥ ३५॥

तस्यासीत् सुप्रियो नाम सौजन्यनिलयः सुतः।
प्रययौ यं समाश्रित्य गुणसार्थः कृतार्थताम्॥३६॥

दानशीलक्षमावीर्यध्यानप्रज्ञासमन्वितह्।
धात्रा विलोभवायैव यः कृतः सुकृतश्रियः॥ ३७॥

तं सर्वविद्याः विशदाः कलाश्च विपुलाशयम्।
विविशुः सरसोदारा महोदधिमिवापगाः॥ ३८॥

गुणालंकृतचारित्रं लक्षणालंकृताकृतिम्।
पुरुषोत्तमलुब्धेव यं श्लाघ्यं श्रीरशिश्रियत्॥ ३९॥

काळेन सुकृतक्रीतं पितरि त्रिदिवं गते।
चक्रे स्कन्धतटे तस्य व्यवहारभरः स्थितिम्॥ ४०॥

सोऽचिन्तयदियं लक्ष्मीर्विपुलात्मक्रमागता।
तथापि मन्ये पर्याप्ता न सर्वार्थिमनोरथे॥ ४१॥

किं तया सुमहत्यापि श्रिया सत्पुरुषस्थया।
पूर्वागतार्थिभुक्तेव या शेषार्थिषु निष्फला॥ ४२॥

रत्नाकरस्य वैपुल्यं निष्फलं वेधसा कृतम्।
अद्यापि पूरितो येन नैकोऽप्यर्थी स वाडवः॥ ४३॥

अथवा पृथुसंकल्पः केनार्थी परिपूर्यते।
जगामाब्धिरगस्त्यस्य चुलुकाचमनीयताम्॥ ४४॥

किं करोम्यतितापोऽयं श्रीरेका बहविऽर्थिनः।
न तदासाद्यते वित्तं यत् सर्वार्थिभरक्षमम्॥ ४५॥

पञ्च षट् पूरिता एवं नान्ये श्रीकौस्तुकादिभिः।
इतिवाद्यापि तप्तोऽन्तर्ज्वलदौर्वानलोऽम्बुधिः॥ ४६॥

तस्मात् करोमि यत्नेन निंसंख्यद्रविणार्जनम्।
न सहे दुःखनिःश्वासं विमुखस्य मुखेऽर्थिनः॥ ४७॥

इति संचिन्त्य स चिरं सार्थेन महता वृतः।
रत्नद्वीपपुरं गत्वा विदधे रत्नसंग्रहम्॥ ४८॥

ततः प्रतीपमायान्तं कृतार्थं तं वनेचराः।
सार्थार्थरणोन्मुक्ता ददृशुर्दस्यवः पथि॥ ४९॥

सार्थार्थहरणे दृष्ट्वा स तेषां साहसोद्यमम्।
निजसरव्स्वदानेन संररक्षानुयानिम्॥ ५०॥

पुनः क्रमेण तेनैव रत्नद्वीपगतागतिः।
सार्थत्राणाय चौराणां षट्कृत्वः प्रददौ धनम्॥ ५१॥

तथैव त्वां पुण्यविपन्वानिसंप्राप्तस्तथैव तान् (?)।
ददर्श चौरान् सार्थार्थहरणे अधिकादरान्॥ ५२॥

सोऽचिन्तयदहो वित्तैर्महद्भिः परिपूरिताः।
मयैते न निवर्तन्ते परार्थहरणोद्यमात्॥ ५३॥

जगत् संपूरयाम्यर्थैरियुक्त्वापि मयासकृत्।
अहो नु दस्यवो नैते वराकाः परिपूरिताः॥ ५४॥

अचितोत्साहहीनस्य व्याहतोत्तरवादिनः।
विकत्थनप्रतिज्ञस्य धिङ्मे जन्म कुजन्मनः॥ ५५॥

इति चिन्तयतस्तस्य तप्तस्यानुशयाग्निना।
विजने प्रययौ रात्रिः संवत्सरशतोपमा॥ ५६॥

तं शोकपङ्कसंमग्नं गजेन्द्रमिव निश्चलम्।
दीर्घोच्छ्वासं महेशाख्या स्वप्ने प्रोवाच देवता॥ ५७॥

सुमते मा कृथाः शोकं शरीरोच्छोषणं वृथा।
सत्संकल्पाभिरूढस्य भविष्यति तवेप्सितम्॥५८॥

न तदस्ति जगत्यस्मिन् स्वप्नसंकल्पदुर्लभम्।
यन्न सिध्यति यत्नेन धीराणां व्यवसायिनाम्॥ ५९॥

सा काप्यनुपमा शक्तिरेकस्यापि द्विजन्मनः।
यदाज्ञास्पन्दितेनैव विन्ध्यः क्ष्मासमताम् ययौ॥ ६०॥

विषमं समतां याति दूरमायाति चान्तिकम्।
सलिलं स्थलतामेति कार्यकाले महात्मनाम्॥ ६१॥

परार्थोऽयं तवारम्भः फलत्येव न संशयम्।
न भवन्ति विसंवादसंदिग्धाः सत्त्ववृत्तयः॥ ६२॥

रत्नानि बदरद्वीपे सन्ति त्रिदशसेविते।
येषामेकप्रभावोऽपि त्रिजगत्पूरणक्षमः॥ ६३॥

मर्त्यभूमिमतिक्रम्य सा हि भूमिर्महीयसी।
आसाद्यते पुण्यमयी नासत्त्वैर्नाकृतात्मभिः॥ ६४॥

विषादस्त्यज्यताम् पुत्र स्थिरा बुद्धिर्विधीयताम्।
बदरद्वीपयात्रायामुत्साहः परिगृह्यताम्॥ ६५॥

श्रूयतामेष तत्प्राप्त्यौ दिङ्भात्रानुक्रमक्रमः।
स्फीतसत्त्वप्रभावस्त्वं संसारोत्तरणक्षमह्॥ ६६॥

अस्ति पश्चिमदिग्भागे समुल्लङ्घ्य महीयसाम्।
शतानि सप्त द्वीपानां तथा सप्त महाचलान्॥ ६७॥

सप्तापताश्चानुलोमप्रतिलोमाभिधोऽम्बुधिः।
अनुकूलानिलैर्यस्मिन् पारमाप्नोति पुण्यवान्॥ ६८॥

ततस्तत्तुल्यनामाद्रिर्वातैस्तिमिरमिहकृत्।
यत्राक्ष्णोर्दिशति स्वास्थ्यममोघाख्या महौषधिः॥ ६९॥

अथावर्ताभिधोऽम्भोधिर्वैरम्भैर्यत्र वायुभिः।
मज्जनोन्मज्जनैर्जन्तुः सप्तावर्तेषु तार्यते॥ ७०॥

आवर्ताख्यस्ततः शैलः शङ्खनाभो निशाचरह्।
घोरः प्राणहरो यत्र त्रिदशत्रासकृत् स्थितः॥ ७१॥

कृष्णसर्पावृता यत्र शन्खनाभिर्महौषधिः।
त्रायते पुण्यसंपन्नं नेत्रे शिरसि चार्पिता॥ ७२॥

अथ नीलोदनामाब्धी रक्ताक्षो यत्र राक्षसः।
मकर्याभिभूतां बुद्धविद्याविद्वान् वशे (?)॥ ७३॥

अथ नीलोदनामाद्रिर्नीलग्रीवः क्षपाचरः।
प्रतीप्तनेत्रो यत्रास्ते रक्षसां पञ्चभिः शतैः॥ ७४॥

तत्रषधिममोघाख्याम् रक्षत्याशीविषः सदा।
दृष्टिनिः श्वाससंस्पर्शदंष्ट्रोत्सृजद्विषानलः॥ ७५॥

उपोषधव्रतवता मैत्रेण करुणात्मना।
लभ्यते सा समुत्सार्य कृष्णसर्पं महौषधिः॥ ७६॥

तं रक्षःशकटं शैलं निष्फलश्लक्ष्णकन्दरम्।
तामज्जने शिखायां च कृत्वा तरति पुण्यवान्॥ ७७॥

अथ वैरम्भनामाद्रिः पारे यस्योत्तरा तटे।
घोरा ताम्राटवी नाम महाशालवनान्तरा॥ ७८॥

महानजगरस्तत्र ताम्राक्षो नाम दुःसहः।
आस्त यस्योग्रगन्धेन वायुनैव न जीव्यते॥ ७९॥

षण्मासान् स्वपतो यस्य लाला व्याप्नोति योजनम्।
क्षुत्संतप्तस्य षण्मासानल्पीभवति जाग्रतः॥ ८०॥

वेणुगुल्मशिलाबद्धां गुहामुत्पाट्य मेदिनीम्।
प्रायौषधीं दिवारात्रं ज्वलन्तीमञ्जनोचिताम्॥ ८१॥

तस्मादजगराद् घोरादन्यतो वा महौजसः।
अवैराख्यां बुद्धविद्यां जपतो न भवेद्भयम्॥ ८२॥

ततः सप्त महाशैला वेणुकण्टकसंकटाः।
ताम्रपटाङ्कपादेन तीर्यन्ते वीर्यशालिना॥ ८३॥

ततश्च शाल्मलीवनं सप्त क्षारतरङ्गिणीः।
उत्तीर्यासाद्यते प्राङ्गुस्त्रिशङ्कुर्नाम पर्वतः॥ ८४॥

तत्र त्रिशङ्कवो नाम कण्टका वज्रभेदिनः।
पादयोर्न विशन्त्येव ताम्रपट्टावनद्धयोः॥ ८५॥

त्रिशन्कुर्नाम तटिनी तत्रायःशङ्कुपर्वतः।
उपस्कीलनदी तत्र ततो द्विधा द्विधा सरित्॥ ८६॥

अथाष्टादशवक्राख्यः पर्वतो निरवग्रहः।
तत्तुल्यसंज्ञाथ नदी श्लक्ष्णि नाम गिरिस्ततः॥ ८७॥

अथाद्रिधूमनेत्राख्यो धूमनिर्दिग्धदिक्तटः।
दृष्टिस्पर्शविषैर्व्याप्तः क्रूराशीविषमण्डलैः॥ ८८॥

तन्मूर्ध्नि पल्वलस्यान्तः शिलाबद्धा महागुहा।
ज्योतीरसो मणिर्यस्यां जीवनी च महौषधिः॥ ८९॥

भित्त्वा गुहाम् तदभ्यक्रशिरःपादकरोदरः।
वज्र-मन्त्रबलोपेतः क्रूरसर्पैर्न बाध्यते॥ ९०॥

अथोग्रसत्त्वसंकीर्णाः सप्ताशीविषपर्वताः।
नद्यश्च तद्विधा यासामपारवारिसंपदः॥ ९१॥

एतदुत्तीर्य निखिलं पुण्यैः परहितोद्यतः।
आरोहति सुधाशैलं शृङ्गैरालिङ्गिताम्बरम्॥ ९२॥

ततस्तस्यापरे पार्श्वे कल्पवृक्षोपशोभितम्।
पुरं रोहितकं नाम दृश्यते स्वर्गसंनिभम्॥ ९३॥

अस्ति तत्र मघो नाम मघवानिव विश्रुतः।
सार्थवाहो महासत्त्वः सर्वसत्त्वहिते रतः॥ ९४॥

बदरद्वीपयात्रायामुद्यतस्यानवद्यधीः।
मार्गोपदेशं देशज्ञः स ते सर्वं करिष्यति॥ ९५॥

इत्युक्त्वोत्साह्य बहुशः शुभद्रैरिव सुप्रियम्।
वचोभिरिचितैर्देवी सहसान्तरधीयत॥ ९६॥

प्रबुद्धः सुप्रियः सर्वं तत्तथेति विचिन्तयन्।
प्रतस्थे सत्त्वमारुह्य निजोत्साहपुरःसरः॥ ९७॥

स व्रजन् विनितायासस्तेन निर्दिष्टवर्त्मना।
पुण्यैर्द्वादशभिर्वर्षैः प्राप र्फितकं पुरम्॥ ९८॥

अत्रान्तरे कर्मयोगात् तत्र सार्थपतिर्मघः।
व्याधिना दुश्चिकित्स्येन बभूवास्वस्थविग्रहः॥ ९९॥

अलब्धान्तःप्रवेशोऽथ गृहे राजगृहोपमे।
तस्य व्यलम्बत द्वारं सुप्रियः कार्यसिद्धये॥ १००॥

ततो वैद्यापदेशेन स प्रवेशमवाप्तवान्।
उपयोगकथाप्रज्ञा न कस्यादरभूमयः॥ १०१॥

आयुर्वेदविधानज्ञः स तस्यारिष्टलक्षणैः।
षण्मासशेषमेवायुर्ज्ञात्वा चिन्तान्तरोऽभवत्॥ १०२॥

तस्य प्रियहितप्रायो भैषज्यपरिचर्यया।
अत्यल्पेनैव कालेन सुप्रियः प्रियतां ययौ॥ १०३॥

भैषज्ययुक्तिस्तत्प्रीत्या तस्य वल्लभतां ययौ।
प्रियोपनीतं यत्किं चित् तत्सर्वं मनसः प्रियम्॥ १०४॥

प्रियोपचारैस्तस्याथ व्याधिराद्रावमाययौ।
आधिः शाम्यति सत्सङ्गात् त व्याधिर्विशीर्यते॥ १०५॥

ततः संजातविश्रम्भः सुप्रियः प्रणयान्मघम्।
चक्रे विदितवृत्तान्तं पश्चान्निजकथाक्षणे॥ १०६॥

बदरद्वीपयात्रायां तस्योत्साहं महात्मनह्।
परार्थे निश्चलं ज्ञात्वा तमूचे विस्मयान्मघः॥ १०७॥

अहो बतास्मिन् संसारे विःसारे साररूपिणः।
जायन्ते मणयः केचित् परचिन्तापरायणाः॥ १०८॥

नवं वयः प्रिया मूर्तिः परार्थप्रवणं मनः।
पुण्योचितस्तथैवायं स्थाने गुणसमागमः॥ १०९॥

इयतीं भूमिमुल्लङ्घ्य परार्थे त्वमुपागतः।
करोमि तव साहाय्यं किं त्वहं भृशमातुरः॥ ११०॥

निबद्धावधयः प्राणाः प्रयान्त्येव शरीरिणाम्।
ते व्रजन्तु ममान्तेऽपि त्वत्समाहितहेतुताम्॥ १११॥

एवमेव व्ययो यस्तु व्ययः स परिगण्यते।
परार्थे जीवितस्यापि व्ययो लाभशतैः समः॥ ११२॥

न मया बदरद्वीपं दृष्टं किं तु श्रुतं मया।
महाब्धौ दिस्कमुद्देशं तैस्तैर्जानामि लक्षणैः॥ ११३॥

इत्युक्त्वा भूपतिं सुहृद्बन्धुवाक्येऽप्यनादरः।
स मङ्गलप्रवहणं सुप्रियेण सहादधे॥ ११४॥

ततः प्रवहणारूढौ तौ योजन्शतान्यपि।
पवनस्यानुलोम्येन जग्मतुर्विपुलाशयौ॥ ११५॥

स्थाने स्थाने जलं दृष्ट्वा नानावर्णं महोदधेः।
किमेतदिति प्रपच्छ सुप्रियः कौतुकान्मघम्॥ ११६॥

जले लोहाचलाः पञ्च सन्त्यस्य पयसां निधेः।
ताम्ररूप्यमयाश्चान्ये हेमरत्नमयाः परे॥ ११७॥

तेषां छायाविशेषेण नानावर्णः पदे पदे।
दृश्यतेऽब्धिरयं दीप्तः प्राप्तान्तरोद्गतौषधिः॥ ११८॥

इत्युक्त्वा व्याधिनाक्रान्तः प्राप्तकालावधिर्मघः।
प्राणान्मुमोच सत्कीतिविन्यस्तस्थिरजीवितः॥ ११९॥

वज्रलेपादपि दृढं यथा सत्त्वं महात्मनाम्।
तथा यदि भदेदायुः किमसाध्यं भवे बह्वेत्॥ १२०॥

कूलावाप्तप्रवहणह् सुप्रियस्तद्वियोगजम्।
शुचं संस्तभ्य विदधे सुहॄदस्तनुसत्क्रियाम्॥ १२१॥

एतदेवोन्नतं लक्ष्म सत्त्वोत्साहमहात्मनाम्।
विच्छिन्नालम्बने काले यत्कर्तव्यदृढं मनः॥ १२२॥

पुनः प्रवहणारूढः स समुत्तीर्य वारिधिम्।
रत्नपर्वतपार्श्वेन विवेश विकटाटवीम्॥ १२३॥

न वियोगैर्न चोद्वेगैर्नाभियोगैर्द्विषामपि।
न रोगैः क्लेशभोगैर्वा हीयते महतां मतिः॥ १२४॥

स तत्राक्रान्तगगनं निरुद्धाशेषदिक्तटम्।
दुरारोहं ददर्शाग्रे मूर्तं विघ्नमिवाचलम्॥ १२५॥

उपायहीनस्तं दृष्ट्वा गिरिं मूर्खमिवोद्धतम्।
अधः पल्लवशय्यायाम् सुप्तः सोऽचिन्तयत् क्षस्णम्॥ १२६॥

अहो बत कियान् कालः प्रयातः प्रस्थितस्य मे।
बदरद्वीपनामापि न नाम श्रूयते क्कचित्॥ १२७॥

व्यवसायसहायो मे योऽभूत्पुण्यपणैः परम्।
भग्नप्लव इवाकाले सोऽपि कर्मोर्मिविप्लवैः॥ १२८॥

नष्टोपायेऽप्युपायेऽस्मिन् व्यवसायान्महीयसः।
न नाम विनिवर्तेऽहं सिद्धिर्निधनमस्तु वा॥ १२९॥

तदेकं जन्मयात्रासु पूज्यं जन्म जगत्र्त्रये।
यस्मिन् परोपक्राराय जायते जीवितव्ययः॥ १३०॥

इति चिन्ताकुलं तत्र तं ज्ञात्वा सत्यसागरम्।
नीलो नाम समभ्येत्य यक्षः प्राहाचलाश्रयः॥१३१॥

पूर्वेण योजनं गत्वा त्रीणि शृङ्गाणि भूभृतः।
वेत्रसोपाननिश्रेण्या समारुह्याथ गम्यताम्॥ १३२॥

इति यक्षोपदेशेन स विलङ्घ्य महाचलम्।
ददर्शाग्रे समुत्तुङ्गश्रृङ्गं स्फटीकभूधरम्॥ १३३॥

तस्मिन्नेकशिलाश्लक्ष्णे दुर्गमे पक्षिणामपि।
मुहूर्तमभवत्तस्य निर्व्यापारो मनोरथः॥ १३४॥

अभ्युन्नतम् निरालम्बं स्वसंकल्पमिवाचलम्।
स तं विचार्य सुचिरं चित्रन्यस्त इवाभवत्॥ १३५॥

अथ चन्द्रप्रभो नाम यक्षः शैलगुहाशयः।
अभ्येत्यः सत्त्वसंपन्नं तमभाषट वुस्मितः॥ १३६॥

क्रोशमात्रमितो गत्वा पूर्वेणापूर्वविभ्रमम्।
दृश्यते चन्दनवनं बालानिलचलल्लतम्॥ १३७॥

तत्रास्ते प्रसरा नाम गुहालीना महौषधिः।
लभ्यते देहरक्षायै समुत्तोल्य महाशिलाम्॥ १३८॥

तत्प्रभावकृतालोकं सोपानैः स्फटिकाचलम्।
सहसैव समारुह्य गम्यतामीप्सिताप्तये॥१३९॥

तत्क्षणात् कृतकार्थेव सा प्रयाति महाषधिः।
न खेदस्तत्कृते कार्यस्तडिल्लोलाः प्रियाप्तयः॥ १४०॥

इति यक्षोपदिष्टेन विधानेन स भूधरम्।
समुत्क्रम्य ददर्शाग्रे नगरं हेममन्दिरम्॥ १४१॥

मेरूकूटैरिवाकीर्णं प्रकाशैरिव निर्मितम्।
सवाश्चर्यैरिव कृतं तद् दृष्ट्वा विस्मितोऽभवत्॥ १४२॥

महाहेमकपाटाभ्यां रुद्धद्धारम् विलोक्य तत्।
निर्जनं वारसंचारं वनान्ते निषसाद सः॥ १४३॥

अत्रान्तरे दिनस्यान्ते व्योमानन्तपथाध्वगः।
अवापास्ताचलोपान्तं परिश्रान्त इवांशुमान्॥ १४४॥

अस्तं गते सहस्रांशौ रजनीरमणी शनैः।
तारापतिमिवान्वेष्टुं प्रससाराभिसारिका॥ १४५॥

अथ प्रकाशविबह्वैः सर्वाशापूरणोन्मुखः।
बोधिसत्त्व इव स्वच्छः सुधादीधितिरुद्ययौ॥ १४६॥

स्फीटा तमः समूहस्य निःशेषप्रशमोचिता।
मानसोल्लासिनी ज्योत्स्ना सत्त्ववृत्तिरिवाबभौ॥ १४७॥

तमोमोहं जहारेन्दुर्दिशां दिनवियोगजम्।
परोपकारे हि परो दूरारोहो महात्मनाम्॥ १४८॥

सुप्रियश्चन्द्रकिरणैः पूर्यमाणतनुः क्षणम्।
निद्रां कार्यसमुद्रोर्मिक्षोभमुद्रामवाप्तवान्॥ १४९॥

क्षपायाम् क्षीयमाणायां गुणदाक्षिण्यसादरा।
जगाद देवता स्वप्ने महेशाख्या समेत्य तम्॥ १५०॥

अहो बत महासत्त्व सत्तत्त्वाभिनिवेशिना।
परार्थे विपुलः क्लेशः कृतः सुकृतिना त्वया॥ १५१॥

अल्पशेषे प्रयासेऽस्मिन् नोद्वेगं कर्तुमर्हसि।
अपर्युषितसत्त्वानां स्वाधीनाः सर्वसिद्धयः॥ १५२॥

हैमं यदेतन्नगरं त्रीणि चान्यान्यतः परम्।
सन्ति रत्नपुराण्यत्र विचित्राण्युत्तरोत्तरम्॥ १५३॥

तेभ्यो निर्यान्ति किन्नर्यश्चतश्रोऽष्टौ च षोडश।
द्वात्रिंशच्च क्रमेणैव त्वया द्वारि विघट्टिते॥ १५४॥

जितेन्द्रियस्य भवतस्तत्प्रमादमवेदिनः।
किमन्यदचिरेणैव् वाञ्छिताप्तिर्भविष्यति॥ १५५॥

इत्युक्तः सादरं देव्या प्रतिबुद्धोऽथ सुप्रियः।
जघान नगरद्वारं त्रिः समभ्येत्य पाणिना॥ १५६॥

ततश्चतस्रः क् इन्नर्यो निर्ययुस्तरलेक्षणाः।
आश्चर्यतरुमञ्जर्य इव लीलानिलाकुलाः॥ १५७॥

मानसिल्लासकारिण्यो नयनामृतवृष्टयः।
वदनेन्दुसमुद्योतैर्दिवापि कृतचन्द्रिकाः॥ १५८॥

ताः संपूज्य स्मरोदारं सुप्रियं प्रियदर्शनाः।
तस्याभिलाषप्रणयैरातिथ्यमिव चक्रिरे॥ १५९॥

चन्द्रकान्तसमासीनं कृतासनपरिग्रहाः।
जीवनौषधयो जाताः स्मरस्येव सविग्रहाः॥ १६०॥

तास्तमूचुः समुन्मीलद्विलासहसितत्विषः।
ददत्य इव कर्पूरं प्रेमोपायनताम् पुरः॥ १६१॥

अहो धन्या वयं यासां सद्गुणालकृताकृतिः।
स्वयम्वाभिगम्योऽपि भवानद्यागतो गृहम्॥ १६२॥

विधेषः कस्य पीयूषे चन्दने कस्य वारुचिः।
इन्दौ मन्दादरः को वा साधुः कस्य न संमतः॥ १६३॥

स्त्रीणां यद्यपि सौभाग्यभङ्गाय प्रणयः स्वयम्।
क्रमस्त्वद्दर्शनेनैव तथापि मुखरीकृताः॥ १६४॥

इदं च किन्नरपुरं वयं च प्रणयार्पिताः।
रत्नं च सौभाषणिकं साधो स्वाधीनमेव ते॥ १६५॥

इति तासां वचः श्रुत्वा सुप्रियः प्रणयोचितम्।
उवाच सत्त्वधवलां दिशन् दशनचन्द्रिकाम्॥ १६६॥

बहुमानास्पदं कस्य नेदं संभाषणामृतम्।
आत्मनोऽप्यादरस्थानम् बह्वतीभिः कृतादरः॥ १६७॥

श्लाघ्यं दर्शनमेवेदं तत्राप्ययमनुग्रहः।
मुक्तालतास्तापहराः किं पुनश्चन्दनोक्षिताः॥ १६८॥

एवं विधानाम् स्वच्छानामैन्दवीनामिव त्विषाम्।
आकृतीनाम् समुचिता रुचिरा लोकवृत्तयः॥ १६९॥

औचित्यचारुचरितं प्रसादविशदं मनह्।
वात्सल्यपेशला वाणी न कस्यादरभूमयः॥ १७०॥

गृहीतोऽस्माभिराचारः पूजापरिकरोचितह्।
आत्मार्पणं कुलान्तं वः परायत्ता हि योषितः॥ १७१॥

कन्याभावादपक्रान्ता यूयं परपरिग्रहाः।
विश्रम्भेण भगिण्यो मे जनन्यः स्नेहगौरवात्॥ १७२॥

परवित्तं विषं येषां जनन्यश्चान्ययोषितः।
परहिंसात्महिंसौव पक्षास्तेषां निरत्ययाः॥ १७३॥

पौशुन्यासत्यपारुष्यभिन्नवादोज्झितं वचः।
सदैव वदने येषाम् तेषाम् सर्वाशिषा दिशः॥ १७४॥

अभिध्यारहितं चेतो व्यापारपरिवर्जितम्।
मिथ्यादृष्टिविहीनं च येषां ते सत्पथं श्रिताः॥ १७५॥

दशाकुशलमार्गेभ्यो निर्गतानां निसर्गतः।
एते कुशलवर्गस्य मार्गाः स्वर्गे निरर्गलाः॥ १७६॥

धीरेव धन्यं धनमुन्नतानां
विद्यैव चक्षुर्विजितेन्द्रियाणाम्।
दयैव पुण्यं पुरुषोत्तमानां
आत्मैव तीर्थं शुचिमानसानाम्॥ १७७॥

एवंविधोऽयं गुणसंनिवेशः
शीलेन वैमल्यमुपैति पुंसाम्।
सद्रत्नमुक्तानिकरातिरितं
शीलं सतामाभरणं वदन्ति॥ १७८॥

इत्युक्तमाकर्ण्य गुणानुरूपं
सत्त्वार्थिना तेन जितेन्द्रियेण।
तुष्टास्तमूचुर्भुवि चन्द्रलोकं
ताः कौतुकायैवमुखैः सृजन्त्यः॥ १७९॥

मणेरिवानर्घगुणोज्ज्वलस्य
दृष्टैव साधोरुचिता रुचिस्ते।
ययैव मौलौ हृदये श्रुतौ च
सद्भिः सदैवाभरणीकृतोऽसि॥ १८०॥

मणिर्महार्हः प्रथितप्रभावः
प्रगृह्यतामात्मसमस्त्वयायम्।
ध्वजार्पितो वर्षति योजनानां
सहस्रमेवार्थिसमीहितं यः॥ १८१॥

उक्त्वेति रत्नप्रवरं तरुण्य-
स्तस्मे ददुर्मूर्तमिव प्रसादम्।
आदाय तं च प्रणयोपचारं
सोऽपि द्वितीयं पुरमाप रौप्यम्॥ १८२॥

तत्रादरात्तद्द्विगुणाभिरेव
स पूजितह् किन्नरकामिनीभिः।
क्रमेण तेनैव विशुद्धबुद्धिः -
र्लेभे मणिं तद्द्विगुणप्रभावम्॥ १८३॥

* * * *
* * * *
* * * *
* * * *॥ १८४॥

प्राप्तश्च तं रत्नमयं चतुर्थं
पुरं ततः सर्वपुराधिकश्चि।
सोऽभ्यर्थितस्तद्द्विगुणाभिरग्रे
गुणाधिकः किन्नरसुन्दरीभिः॥ १८५॥

तथैव सद्धर्मकथाप्रसङ्गै -
स्तातोषितास्तेन सुसंयतेन।
उत्फुल्लनीत्पलदामदीर्घ-
कटाक्षविक्षिप्तकरास्तमूचुः॥ १८६॥

भ्रातास्ति नः किन्नरराजवंश-
रत्नाकरेन्दुर्बदराभिधानः।
तस्यास्पदं द्वीपमिदं महार्हं
स्वनामचिह्नं प्रथितं समृद्ध्या॥ १८७॥

रत्नं चेदम् नियमविधिना पोषधाख्यव्रतेन
न्यस्तं भास्वत्किरणनिकरं पुण्यभाजां प्रयत्नात्
वर्षत्येव स्थिरपरहितव्याप्तये गृह्यताम् तत्॥ १८८॥

इत्युत्पाट्यामरतरुफलं सादरं सुन्दरीभिः
प्रेमोद्दामप्रणयसुभगं दत्तमासाद्य रत्नम्।
बालाहाख्यं विजितपवनं तं प्रकृष्टं तुरङ्गं
सोऽप्यारुह्य स्वनगरमगाल्लब्धमार्गोपदेशः॥ १८९॥

तस्मिन् काले विपुलकुशलैः स्वर्गमार्गं प्रयाते
वाराणस्यां विशदयशसि क्ष्मापतौ ब्रह्मदत्ते।
श्रीमान् सर्वप्रणयिफलदः सुप्रियः पौरमुख्यै-
र्लोकत्राणे विनिहितमतिर्धर्मराज्येऽभिषिक्तः॥ १९०॥

ततः शिरःस्नानविधिक्रमेण
तत्पञ्चदश्याम् ध्वजमूर्ध्नि रत्नम्।
स पोषधोपोषित एव धृत्वा
चकार विश्वं परिपूर्णकामम्॥ १९१॥

कृत्वा यात्राम् परहितफलां वत्सराणाम् शतेन
स्थित्वा राज्ये महति निखिलं पूरयित्वा च लोकम्।
पुत्रं ध्ऱ्इत्वा नरपतिपदे प्राप्य सर्वोपशान्तिं
तत्त्वज्ञोऽसौ किमपि परमं ब्रह्मभावं जगाम॥ १९२॥

स्युरेते दस्यवः सर्वे पूर्वं ये पूरिता मया।
रत्नद्रीपाभिगमने तस्मिन् सुप्रियजन्मनि॥ १९३॥

इति शास्ता स्ववृत्तान्तकथया विदधे विभुः।
दानवीर्योपदेशेन भिक्षूणामनुशासनम्॥ १९४॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां
बदरद्वीपयात्रावदानं नाम षष्ठः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project