Digital Sanskrit Buddhist Canon

४.मान्धात्रवदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
४ मान्धात्रवदानम्।

शोभन्ते भुवनेषु भव्यमनसां यन्नाककान्ताकर-
प्रौढोदञ्चितचारुचामरसितच्छत्रस्मिताः संपदः।
यच्चोत्सर्पति तर्पितश्रुति यशः कर्पूरपूरोज्ज्वलं
स्वल्पं दानकणस्य तत् फलमहो दानं निदानं श्रियः॥ १॥

अभूदुपोषधो नाम भूभृध्यस्य विभावतः।
विबुधाभिमता कीर्तिः सुधा दुग्धोदधेरिव॥ २॥

वसुधामवतो यस्य वसुधामवतः पुरः।
ननाम प्रणतौ कस्य न नाम नृपतेः शिरः॥ ३॥

शुद्धा धीरिव धर्मेण दानेनेव दयालुता।
विभूतिर्विनयेनेव भूषिता येन भूरभूत्॥ ४॥

गुणिनः प्रांशुवंशस्य बभूवेन्दुद्युतेः स्थितिः।
यस्य सर्वातपत्रस्य मूर्ध्नि सर्वमहीभृताम्॥ ५॥

यस्येश्वरशिरःस्थायि शुभं गङ्गाजलोज्ज्वलम्।
भ्रमत्यदभ्रं लोकेषु भुवनाभरणं यशः॥ ६॥

कर्तु क्रतुसहस्राणां सहस्राक्षाधिकश्रियः।
यस्य षष्टिसहस्राणि कलत्रं सुदृशामभूत्॥ ७॥

कदाचिन्मुनिरक्षायै रक्षःक्षयकृतक्षणः।
विचचाराश्वमारुह्य स तपोननभूमिषु॥ ८॥

तत्र राजर्षिभिः कैश्चित्पुत्रेष्टिकलशं धृतम्।
दूराध्वश्रमसंतप्तः स पयःपूर्णमापपौ॥ ९॥

विजनासादितं पीत्वा स मन्त्रकलशात् पयः।
राजधानीं समासाद्य गर्भं लेभे विभुर्भुवः॥ १०॥

स्वप्नमायेन्द्रजालादि यस्याः कौतुकविप्रषुः।
जयत्यद्भुतसंभारभूमिः सा भवितव्यता॥ ११॥

विधेर्विविधवैचित्र्यचित्रकर्मविधायिनः।
आश्चर्यरेखाविन्यासं कः परिच्छेत्तुमीश्वरः॥ १२॥

कालेन तस्य मूर्धानं भित्त्वा बालोंऽशुमानिव।
रूढव्रणस्य सहसा दिव्यद्युतिरजायत॥ १३॥

तं राजजाया जगृहुर्जगत्साम्राज्यलक्षणम्।
वात्सल्यप्रस्रुतक्षीराः पुण्यंमूर्तिमिवाश्रितम्॥ १४॥

मां धारयिष्यति शिशुः श्लाघ्योऽयं जननीपदे।
इति तासां मिथो वाक्यैर्मान्धाताभून्नृपात्मजः॥ १५॥

तस्य प्रवर्धमानस्य बालक्रीडाविलासिनः।
षडिन्द्रः प्रययौ कालः पुण्यक्रीडक्षयायुषः॥ १६॥

नवयौवनमारूढः सर्वविद्यासु पारगः।
स याते पितरि स्वर्गं भेजे राज्यं क्रमागतम्॥ १७॥

यक्षो दिवौकसो नाम सुकृतेर्दासताम् गतः।
अभिषेकोपकरणं दिव्यं तस्योपनीतवान्॥ १८॥

स स्वर्णैर्बद्धमुकुटः कल्पितोष्णीषशेखरः।
श्रदभ्रावतंसस्य मेरोः शोभामवाप्तवान्॥ १९॥

सप्त रत्नानि तस्याथ प्रादुर्भूतानि तक्षणे।
चक्राश्वमणिहस्तिश्रीगृहसेनाग्रगाण्यपि॥ २०॥

बभुव चास्य पुत्राणां तुल्यरूपबलौजसाम्।
सहस्रं विजितारातेर्भुजानामिव भूभुजः॥ २१॥

वसुंधरां समस्ताब्धुवेलाकलितमेखलाम्।
निखिलां विदधे दोष्णि शेषविश्रान्तिर्निर्वृताम्॥ २२॥

भुवनत्राणसंसद्धह् प्रत्यग्रकमलाश्रयः।
चक्रवर्ती स सुकृतेर्विष्णोः कर इवाबभौ॥ २३॥

त्रिजगज्जाह्नवी कीर्तिः प्रभावाभरणाः श्रियः।
सोऽयं सुकॄतवल्लीनां प्रथमं कुसुमोद्गमः॥ २४॥

स कदाचिद्द्वनान्तेषु विकाशिकुसुमश्रियः।
रुचिरं सचिवैः सार्धं विचचार विलोकयन्॥ २५॥

ददर्श तत्र निष्पक्षान् विहगान् पादचारिणः।
व्योममार्गगतिं स्मृत्वा प्रयातान् कृशतामिव॥ २६॥

पक्षहीनानगतिकान् वृत्तिक्षीणान्निरम्बरान्।
दरिद्रानिव तान् वीक्ष्य प्रोवाच कृपया नृपः॥ २७॥

अहो वराकौर्विहगैः किमेतैः कुकृतं कृतम्।
यदेते पक्षविकलाः कृच्छ्रचरणचारिणः॥ २८॥

इत्युक्ते भूमिपतिना करुणाकुलितात्मना।
पुरःस्थितो महामात्यः सत्यसेनस्तमब्रवीत्॥ २९॥

श्रुतमेतन्मया देव कथ्यमानं वनेचरैः।
कारणं पक्षपतने यदभूत् पक्षिणामिह॥ ३०॥

सन्ति पञ्च शतान्यत्र पुण्यधाम्नि तपोवने।
तपःस्वाध्यायसक्तानां मुनीनां दीप्ततेजसाम्॥ ३१॥

तेषामद्ययनध्यानजपविघ्नविधायिनः।
एते लोकाहलं चक्रुः खगास्तरूवने सदा॥ ३२॥

तस्मै विहगसंघाय कर्णापायकृते परम्।
अतिसंवर्धमानाय चुकोप मुनिमण्डलम्॥ ३३॥

तदुर्भूतमहाशापतापल्पोषेण सर्वतः।
क्षणेन पक्षिणां पक्षा व्यशीर्यन्त कृतागसाम्॥ ३४॥

त एते विहगाः पक्षरहिताः कृच्छ्रवर्तिनः।
त्वद्विपक्षा इव वने श्रान्ताश्रचरणचारिणः॥ ३५॥

महामात्येन कथितं निश्मैतन्महीपतिः।
उवाच करुणाक्रान्तस्तप्तः शापेन पक्षिणाम्॥ ३६॥

अहो तेजः परिणतं शान्तानामपि कानने।
अङ्गाराणां मुनीनां च दहत्येवानिवारितम्॥ ३७॥

मिथ्यातपस्विभिः किं तैः स्वसुखाय न यैः कृतः।
मनसः कोपतप्तस्य परिषेकः क्षमाम्बुभिः॥ ३८॥

प्रसन्ना धीर्मणो मैत्रं दया दानं दमह् क्षमा।
येषां तेषां तपः श्लाध्यं शेषाणां कायशोषणम्॥ ३९॥

किं तपोभिः सकोपानां विल्पुतानां वनेन किम्।
विभवैः किं सलोभानां दुर्वृत्तानां श्रुतेन किम्॥ ४०॥

एवं कलुषचित्तास्ते तीब्रमन्युपरायणाः।
दुःसहा एव मुनयः प्रयान्तु विषयान्मम॥ ४१॥

इत्युक्त्वा प्राःइणोत्तेभ्यः संदेशं पुरुषैर्नृपः।
यावती मद्वशा भूमिस्तावती त्यज्यतामिति॥ ४२॥

विहंगपक्षपातेन कुपितस्य महीपतेः।
संदेशं मुनयः श्रुत्वा विलक्षाः समचिन्तयन्॥ ४३॥

चतुःसमुद्रपरिखामेखलायाः क्षितेः पतिः।
नरेन्द्रोऽयं क्क्व गच्छामः को देशोऽस्य वशे न यः॥ ४४॥

इति संचिन्त्यं मुनयः पार्श्वं कनकभूभृतः।
सुरसिद्धसमाकीर्णं जम्बूखण्डान्तिकं ययुः॥ ४५॥

अथ तस्य महीभर्तुः प्रब्ःआवेण महीयसा।
अभूददृष्टशस्या भूद्याश्च रत्नाम्बरप्रसूः॥ ४६॥

पाकशासनवैलक्ष्यकरणास्तस्य शासनात्।
सप्ताहं हेम ववृषुर्मेघाः संग्ःआतवर्षिणः॥ ४७॥

स प्रभावेण महता सह सैन्यैर्नभोगतिः।
चक्रे पूर्वविदेहाख्यं द्वीपं दिव्यजनं वशे॥ ४८॥

बभूवुरग्रे सौन्यानि स्फीटशौर्यबलौजसां।
भटानां व्योमगमने तस्याष्टादशकोटयः॥ ४९॥

गोदानीयं ततो द्वीपमथोत्तरकुरूनपि।
पार्श्वानि स सुमेरोश्च शशासासतशासनः॥ ५०॥

सुखं विहरतस्तस्य मेरोः कनकसानुषु।
बहुशक्रो ययौ कालश्चतुर्द्वीपमहीपतेः॥ ५१॥

स कदाचित् सुरान् द्रष्टुं व्याम्ना गच्चन् सुरोपमः।
चकार नीलजलदैर्व्याप्ता इव गजैर्दिशः॥ ५२॥

अथ तेषां निरस्तानां मेरुपार्श्वे तपस्यताम्।
मुनीनामपतन् मूर्ध्नि तद्गजाश्वशकृद्दिवः॥ ५३॥

ततस्ते क्रोधसंतप्तदृशा व्योमावलोकिनः।
चक्रुः पिङ्गपर्भावल्लिकलापकपिला दिशः॥ ५४॥

कोपात्किमेतदित्युक्त्वा शापाग्निविसिसृक्षता।
अभ्येत्य देवदूतस्तान् प्रहर्षाकुलितोऽवदत्॥ ५५॥

एषा निःशेषभूपालमौलिविश्रान्तशासनः।
पाकशासनतुल्यश्रीर्मान्धाता पृथिवीपतिः॥ ५६॥

नभसा नरदेविऽयं सह सैन्यैः प्रसर्पति।
यस्य कीर्तनधन्येयं वाणी पुण्याभिमानिनी॥ ५७॥

न दृष्टो यस्य निर्दिष्टसर्वलोकसुखश्रियः।
मोहः संबिन्मयस्येव विभवप्रभवो मदः॥ ५८॥

कौबेरं धनदव्यक्त्या कौमारं शक्तिमत्तया।
ऐश्वरं वृषसंयोगाद्वैष्णवं श्रीसमागमात्॥ ५९॥

प्रतापप्रसरात् सौरमैन्दवं जननन्दनात्।
ऐन्द्रं दृप्तबलच्छदाद्दिव्यं रूपं बिभर्त्ययम्॥ ६०॥

बलिः प्रयातः पातालं दधीचोऽप्यस्थिशेषताम्।
अस्य त्यागेन जलधिः क्षोभमद्यापि नोज्झति॥ ६१॥

श्रुत्वेति देवदूतस्य वचनं मुनिमध्यगः।
ससर्ज दुर्मुखो नाम मुनिः शापजलं दिवि॥ ६२॥

प्रहसन्नथ तं प्राह सेनानां परिणायकः।
महर्षे संहर रूषं मा कृथास्तपसः क्षयम्॥ ६३॥

वैफल्यलज्जां शापोऽथं यास्यत्यग्रे महीपतेः।
नैते बत खगा येषां यूयं पक्षक्षयक्षमाः॥ ६४॥

इत्युक्ते सौन्त्यपतिना शापस्तब्धामनीकिनीम्।
दृष्ट्वाग्रे विस्मयादूचे किमेतदिति भूपतिः॥ ६५॥

संरब्धोऽथ समभ्येत्य सेनापतिरुवाच तम्।
तेषां देव महर्षीणां शापात् सैम्यं न सर्पति॥ ६६॥

इदं च चक्ररत्नं ते व्योम्नि शापविघूर्णितम्।
धत्ते जलदसंरुद्धतिग्मदीधितितुल्यताम्॥ ६७॥

एतदाकर्ण्य नृपतिर्दृष्टा चाग्रे तथैव तत्।
दृशैव दिवधे शापं विफलोच्चण्डविल्पवम्॥ ६८॥

देहक्षयं महर्षीणां परिरक्षन् कृपाकुलः।
जटा न्यपातयद् भूमौ स लीलालसशासनः॥ ६९॥

अजितक्रोधमोहानां भारभूता वृथा वयम्।
इतीव लज्जया तेषां लीनाः क्षितितले जटाह्॥ ७०॥

अथ मेरुशिरः प्राप्य नृपः सुरनिकेतनम्।
पुरं सुदर्शनं नाम दर्दर्श प्रियदर्शनम्॥ ७१॥

नागास्तत्र कृतारक्षाः प्रख्यातोदकनिःसृताः।
करोटपाणयो यक्षाः सुरा मालाधराभिधाः॥ ७२॥

सदामत्तास्तथा देवाः क्रोधोत्तम्भितसैनिकाः।
महाराजकायिकाख्यास्त्रिदशा बलवत्तराः॥ ७३॥

महाराजाश्च चत्वारः संनद्धकवचायुधाः।
जित्वा राज्ञा प्रभावेण निजसेनाग्रगाह् कृताः॥ ७४॥

ततः कल्पद्रुमोदारकोचिदारमनोहरम्।
ददर्श पारिजाताख्यं संश्रयं त्रिदिवौकसाम्॥ ७५॥

मेरोर्मूर्ध्नि ततः शुभ्रप्रभां मालामिवामलाम्।
सुधर्माख्यां सभां प्राप स्वभासोद्भासिताम्बराम्॥ ७६॥

हेमविद्रमवैदूर्यस्तम्भसंब्ःआरभास्वरः।
प्रासादो वैजयान्ताख्यः प्रख्यातो यत्र राजते॥ ७७॥

यत्राब्जेर्वदनैर्भृङ्गैरलकैस्तुल्यतां गताः।
पद्मिन्यः सुरनारीणां पद्मिनीनां सुराङ्गनाः॥ ७८॥

बिम्बतैस्त्रिदशैर्यत्र मणिभूस्तम्भभित्तिषु।
सुरलोको बिभर्त्येकोऽप्यनेकसुरलोकताम्॥ ७९॥

रत्नतोरणहर्म्यांनिवहैर्यत्र चित्रिताः।
व्याप्ता विभान्ति ककुभः शक्रायुधशतैरिव॥ ८०॥

यत्र बालानिलालोलकल्पपादपपल्लवैः।
नृत्यद्धस्ता इवाभान्ति नन्दिन्यो नन्दनश्रियः॥ ८१॥

यत्र चैत्ररथं नाम देवोद्यानं मनोरमम्।
धत्ते नित्योत्सवं प्रेमिकामं कामवसन्तयोः॥ ८२॥

सर्वकामं सर्वसुखं सर्वर्तुकुसुमोज्ज्वलम्।
सर्वातिशयितं दृष्ट्वा देवानाम् सदनं नृपः॥ ८३॥

मुहूर्तविसम्यास्पन्दसानन्दस्निग्धलोचनः।
अच्नितयत् सुकृतिनामिमास्ताह् फलभूमयः॥ ८४॥

ऐरावणं सुरपतेर्लोलालिवलयाकुलम्।
ददर्श तत्र सामोदं साकारमिव नन्दनम्॥ ८५॥

पुरंदरस्ततो ज्ञात्वा प्राप्तं भूमिपुरंदरम्।
प्रत्युद्ययौ प्रमुदितः सह सर्वैर्मरुद्गणैः॥ ८६॥

पूजितः सुरराजेन रत्नराजिविराजितां।
राजराजह् सभाभूमिं भेजे विरजसां वरह्॥ ८७॥

त्रिदशेषूपविष्टेषु रत्नपर्यङ्कपङ्क्तिषु।
उपाविशन्नृपः श्रीमानासनार्धे शतक्रतोः॥ ८८॥

एकासनजुषोस्तत्र सुरेन्द्रमनुजेन्द्रयोः।
रूपं गुणगणोदारम् निर्विशेषमदृश्यत॥ ८९॥

ततह् सर्वसुरोत्सृष्टस्पष्टलोचनषट्पदैः।
पीयमानमुखाम्भोजं व्याजहार हरिर्नृपम्॥ ९०॥

अहो उदयः श्लाध्यस्ते तेजसा तेजसां निधे।
भवता भूषिता भूमिर्द्यौश्च देवेन भास्वता॥ ९१॥

अभ्युन्नतप्रभावोऽयं लसत्सितयशोंशुकः।
भ्राजते ते त्रिभुवने साम्राज्यविजयध्वजः॥ ९२॥

त्वत्कथामृतपानस्य त्वद्दर्शनरसस्य च।
प्रेर्यते श्रोत्रनेत्रेण सुखाख्याने सरस्वती॥ ९३॥

स्थिरीकृतस्त्वयैवायं सुकृताप्तविभूतिना।
कर्मणां फलवादस्य निश्चरश्छिन्नसंशयः॥ ९४॥

अत एवेन्द्रियग्रामे चक्षुरेव स्पृहास्पदम्।
पुण्यैः पुण्योचिताचारा दृश्यन्ते यद्भवद्विधाः॥ ९५॥

इत्युक्ते त्रिदशेन्द्रेण मान्धाता यशसां निधिः।
त्वत्प्रसादप्रभावोऽयमित्युवाच नताननः॥ ९६॥

इत्येवं पूज्यमानस्य तस्य नित्यादरैः सुरैः।
षडिन्द्रः प्रणयौ कालस्त्रिदिवे वसतः सतः॥ ९७॥

तत्पराक्रमविध्वस्तसमस्तासुरमण्डलः।
बभूव सुरराजस्य निरपायोदयो जयः॥ ९८॥

दीप्तदानवसंग्रामे तस्य शौर्यमहातरोः।
विश्रान्तिं भेजिरे देवा भुजच्छायोपजीविनः॥ ९९॥

तस्य पुण्यपणक्रीतं भिञ्जानस्याक्षयं सुखम्।
कालप्रवाहे महति प्रययुः षट् पुरंदराः॥ १००॥

सत्कर्मफलभोगस्य लाञ्छनं विमलं मनः।
कालुष्याज्जायते तस्य प्रत्यासन्नः परिक्षयः॥ १०१॥

अथ कालेन कालुष्यकलितस्य मनोरथः।
अभूल्लोभाभिभूतस्य भूतपेरभिमानिनः। १०२॥

त्रिदशानामियं लक्ष्मीर्मद्बाहुबलपालिता।
तदिमां न सहे तावदर्धासनविडम्बनाम्॥ १०३॥

अहमेकः सुरपतिः प्रभावान्न भवामि किम्।
अयं मम भुजः सर्वजगद्भारभरक्षमः॥ १०४॥

च्यावयित्वा सुराशीशं स्वर्गसाम्राज्यसंपदम्।
एकातपत्रतिलकां स्वयंग्राहोचितां बह्जे॥ १०५॥

इति चिन्तयतस्तस्य शक्रद्रोहाभिलाषिणः।
शुभ्रप्रभा प्रभावश्रीर्मालेव म्लानताम् ययौ॥ १०६॥

घनोदयसमुत्सिक्ता सौजन्यतटपातिनी।
लोलं कलुषयत्येव मानसं श्रीतरङ्गिणी॥ १०७॥

प्रमादो विपदां दूतो दुःसहो महतामपि।
कुशलोन्मूलनायैव किल्बिषाकुलिता मतिः॥ १०८॥

पापसंकल्पमात्रेण क्षितौ क्षितिपतिः क्षणात्।
पपात विस्रस्तफलश्छिन्नमूल इव द्रुमः॥ १०९॥

हन्ति विद्यामनभ्यासः श्रियं हन्ति मदोदयः।
विद्वेषः साधुताम् हन्ति लोभः समुन्नतिम्॥ ११०॥

अहो बत महोत्कर्षशृङ्गारोहो महोदयः।
विभवोद्भवमत्तानां सहसैव पतत्यधः॥ १११॥

तेन सर्वविभुर्नाम पूजितः पूर्वजन्मनि।
तत्फलादाप्तवान् राज्यं स्पृहणीयं मरूत्पतेः॥ ११२॥

सुराधिपाधिकः कोऽपि प्रभावो विस्मयावहः।
अनल्पपिण्डस्तस्याभुत् पात्रदानांशसंभवह्॥ ११३॥

द्बन्धुमत्यभिधानायां नगर्यामुषितः शुचिः।
वणिगुत्करिको नाम सोऽभवत् पूर्वजन्मनि॥ ११४॥

विपश्यी नाम भिक्षायै सम्यक्संबुद्धां गतः।
विवेश त द्गृहं सर्वसत्त्वसंतारणोद्यतः॥ ११५॥

पात्रे तस्य च चिक्षेप मुद्गमुष्टिं प्रसन्नधीः।
फलानि तत्र चत्वारि पेतुः शेषाणी भूतले॥ ११६॥

तेन दानप्रभावेण मान्धाता पृथिवीपतिः।
सर्वद्वीपपतिर्भूत्वा शक्रार्धासनमाप्तवान्॥ ११७॥

मुद्गशेषश्च्युतो यस्माद् भूतौ तस्यान्यचेतसः।
तदसौ फलपर्यन्ते पतितस्त्रिदशालयात्॥ ११८॥

लुठति विकलकल्पा यत्र संकल्पमाला
स्फुरन्ति न च कदाचित् स्वप्नमायान्तरे या।
भवति विभवभोगाभोगिनी भाग्यभाजा-
मतुलफलततिः सा दानकल्पद्रुमाणाम्॥ ११९॥

इत्याह भगवान् बुद्धः प्रीत्या दानफलश्रियम्।
निजजन्मान्तराख्याने भिक्षूणामनुशासने॥ १२०॥

इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायां
मान्धात्रवदानं नाम चतुर्थः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project