Digital Sanskrit Buddhist Canon

३.मणिचूडावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
३ मणिचूडावदानम्।

अस्मिन्नद्भुतसर्गे मकराकरजायमानमणीवर्ते।
कोऽपि प्रकटितसुगतिः पुरुषमणिर्जायते (भव्यः)॥ १॥

अस्ति सौभिप्रभापूरकर्पूरपरिपाण्डुरम्।
साकेतं नाम नगरं सौभाग्यतिलकं भुवः॥ २॥

सेव्यैः प्रभासत्त्वमयैर्गङ्गाविमलमानसैः।
तीर्थैरिव स्थितं यत्र पवित्रः पुण्यकर्तृभिः॥ ३॥

यशःकुसुमिते यत्र पुण्यसौरभनिर्भरे।
रमन्ते सुकृतोद्याने नन्दने पुरवासिनः॥ ४॥

तत्राभूद् भूपतिर्भुरिगुणरत्नमहोदधिः।
भीतुर्यशःशशाङस्य मेहचूड इति श्रुतः॥ ५॥

सदा सदाश्रयार्हेण कलिकालापहारिणा।
कृतः कृतयुगेनेव येन धर्मधरो जनः॥ ६॥

महीपतिः क्षमाशक्तः श्रीवृतः करुणारतः।
वल्लभोऽभूत् प्रजानां यः प्रख्यातो विजितेन्द्रियः॥ ७॥

अमरासवसंपूर्णमहिंसासत्रदीक्षितः।
ददौ यः सर्वभूतानां पुण्यामभयदक्षिणम्॥ ८॥

निर्मदो यः प्रभावेऽपि विभवेऽपि प्रियंवदः।
क्षमाशीलः प्रभुत्वेऽपि यौवनेऽपि जितेन्द्रियः॥ ९॥

गम्भीरेणोन्नतिमता शूरेण शशिकान्तिना।
सत्पक्षेण क्षितिभृता येनातन्यत विस्मयः॥ १०॥

राज्ञस्तस्याद्वितीयस्य बभूवाभरणद्वयम्।
त्यागपूर्णं च कारुण्यं तारूण्यं सुकृतश्रियः॥ ११॥

पद्माकरस्य तस्याभूद्देवी कान्तिमती प्रिया।
प्रभातश्रीरिव सदा निर्दोषाभ्युदयोत्सवा॥ १२॥

नीतिः प्रभुगुणेवेन त्यागेन श्रीरिवोज्ज्वला।
रराज राजचन्द्रेण सा शीलेनेव चारुता॥ १३॥

सदानन्दनविख्यातयशःप्रसरया तया।
मेरूस्त्रिदिवलक्ष्म्येव बभौ भूमिभृतां वरः॥ १४॥

काले कल्याणनिलयं भर्तुः सा गर्भमादधे।
भूत्यै भुवनपद्मस्य दिवाकरमिवादितिः॥ १५॥

अरणिः पावकेनेव वेलेवाब्धेः सुधांशुना।
ब्रह्माब्जेनेव गोविन्दनाभिर्गर्भेण सा बभौ॥ १६॥

तस्या गर्भानुभावेन दोहदाभिमतं नृपः।
ददौ सर्वार्थिसार्थेभ्यो वाञ्छिताभ्यधिकं वसु॥ १७॥

पुनर्भूमिभुजा पृष्टा दोहदं शुभगर्भिणी।
सरस्वतीव सा चक्रे स्वयं सद्धर्मदेशनाम्॥ १८॥

पूर्णपुण्यमणिर्धर्मनिधिर्विधिसमुद्धृतः।
वुपद्विपुलदुःखेभ्यः सदा रक्षति रक्षितः॥ १९॥

कान्तारदुर्गेषु परिच्युतानां
तापातुराणां परलोकमार्गे।
स्निग्धः प्रवृद्धः फलपूरिताशः
छायातरुर्धर्मसमोऽस्ति नान्यः॥ २०॥

आलोकस्तिमिरे विपद्विषमणिः पाते करालम्बनं
याच्ञाकल्पतरुर्जगज्जयरथः पाथेयमन्थे पथि।
दुःखव्याधिमहौषधं भवभयोद्भान्ताशयाश्वासनं
तापे चन्दनकाननं स्थिरसुहृद्धर्मः सतां बान्धवः॥ २१॥

इत्यादि धर्मधवलं श्रुत्वा नृपवधूवचः।
धर्मैकशरणः श्रीमान् बभूव भुवने जनः॥ २२॥

ततः कालेन संपूर्णं द्यौरिवामृतदीधितिम्।
असूत दारकं देवी जगत्तिमिरदारकम्॥ २३॥

अजायतास्य सहजश्चूडालंकरणं मणिः।
प्राग्जन्मान्तरसंसक्तो विवेक इव निर्मलः॥ २४॥

स बभौ सुभगस्तस्य मूर्ध्नि पुण्यमयो मणिः।
यस्य प्रभाप्रभावेण यामिन्यो दिनताम् ययुः॥ २५॥

सोष्णीषस्य मणेस्तस्य पीयूषस्यन्दिबिन्दिवः।
नयन्ति हेमताम् लोहं दुरितं शमयन्ति च॥ २६॥

शिशोर्जातिस्मरस्याथ वचसा तस्य भूपतिः।
ददौ हेम सदार्थिभ्यः सर्वं मणिरसोद्भवम्॥ २७॥

पुष्परत्नध्वजच्छत्रपताकाव्यजनांशुकैः।
अपूरयन् पुरं व्योन्मस्तस्य जन्मनि देवताः॥ २८॥

सुप्रकाशोदिताशेषविद्याविद्योतितात्मनः।
मणिचूड इति ख्यातं नाम तस्याकरोन्नृपः॥ २९॥

स चकाराशयं हर्षपीयूषोच्छलितं पितुः।
अभिजातः सुतो जातः पारिजात इवोदधेः॥ ३०॥

पौलोमीव जयन्तेण जननी पूज्यजन्मना।
बभौ तेन कुमारेण कुमारेणेव पार्वती॥ ३१।

ततः कालेन सुकृतसोपानैः पृथिवीपतौ।
दिव्यधामसमारूढे मणिचूडोऽभवन्नृपः॥ ३२॥

अर्थिचिन्तामणेस्तस्य दानेन परिपूरिते।
लोके पुण्यसुखालोके नार्तोऽभून्न च याचकः॥ ३३॥

तस्य भद्रगिरिर्नाम बभूवं गजपुंगवः।
प्रभोरिवानुकारेण दानार्द्रकरपुष्करः॥ ३४॥

तं कदाचिन्महास्थानस्थितं भुवननायकम्।
भवभूतिः समभ्यायाद्भृगुवंशभवो मुनिः॥ ३५॥

दिव्यकान्यां समादाय लावण्यललिताननाम्।
मूर्तामिव प्रभालक्ष्मीमक्षीणस्य क्षपापतेः॥ ३६॥

कुचयोरविवेकेन रागेण चरणाब्जयोः।
नेत्रयोश्चापलेनेव सा जगत्यतिलज्जिता॥ ३७॥

तपःश्रियेव सहितं तं कन्यानुगतं मुनिम्।
अजयत् प्रजानाथः कृतासनपरिग्रहम्॥ ३८॥

कन्यापि नृपमालोक्य धीरं गम्भीरसुन्दरम्।
परपीडासु कारुण्यान्न्यस्तचापमिव स्मरम्॥ ३९॥

चूडारत्नस्य कीरणैर्दुरितक्षयकारिभिः।
लिखन्तं कुङ्कुमेनेव दिक्षु रक्षाक्षरावलिम्॥ ४०॥

विक्षेपक्षिप्तमरुता चामरेण विराजितम्।
सोच्छासेनेव सत्त्वेन जगत्संतारणं विना॥ ४१॥

रत्नोदारेण हारेण हृदयग्रहकारिणा।
पातालविपदां शान्त्यै शैषेणेव निषेवितम्॥ ४२॥

वहन्तं महता दोष्णा क्षमां चित्तेन च क्षमाम्।
प्रययौ साभिलाषस्य विस्मयस्य विधेयताम्॥ ४३॥

गृहीत्वा मुनिरुत्सङ्गे कुरङ्गतरलेक्षणाम्।
जीवनीं तामनङ्गस्य जगाद् जगतीपतिम्॥ ४४॥

उदितेन जगन्नेत्रशतपत्रविकाशिना।
भवता भाति लोकोऽयं देवेन च विवस्वता॥ ४५॥

अहो नु तव नास्त्येव विभूतिसुलभोद्भवः।
साधोरिव गुणद्वेषः संमोहोपचितो मदः॥ ४६॥

लोकनाथस्य ते लोककारुण्यपूर्णचेतसः।
राजन् मैत्रीजुषा कीर्तिः स्थिरा पारमिता परम्॥ ४७॥

अखेदसरलो दाता निर्व्याजसुकृतो भवान्।
अत एव विशेषेण माननीयो मनीषिणाम्॥ ४८॥

पद्मोदरसमुद्भूता कन्या कमललोचना।
होमावशेषपयसा वर्धितेयं मयाश्रमे॥ ४९॥

गृह्यतामग्रमहिषी पत्नीत्वे भवता नृप।
विष्णोः श्रीऱ्इव योग्येयं तवैव पुरुषोत्तम॥ ५०॥

यज्ञपुण्यफलं पूर्णं कालेन मम दास्यसि।
इत्युक्त्वा विधिना राज्ञे कन्यां दत्वा ययौ मुनिः॥ ५१॥

प्रियां पद्मावतीं राजा रतिं प्राप्येव मन्मथः।
अरंस्त रुचिरोद्याने सुकृते पुण्यवानिव॥ ५२॥

ततः कालेन सा पुत्रं वंशवल्लिव मौक्तिकम्।
असूत पद्मचूडाख्यं गुणानां दर्पणं पितुः॥ ५३॥

शक्रादिभिर्लोकपालैरनुल्लङ्घ्यमहोदयः।
संस्तूयमानचरितः स्वयं कमलजन्मना॥ ५४॥

यशःसौरभसंभारसंपूरितदिगन्तरः।
सर्वार्थिसार्थकल्याणकलनाकल्पपादपः॥ ५५॥

स्मृत्वा मुनेर्वचः काळे कर्तुं विपुलदक्षिणाम्।
अहिंसावसुसंपूर्णामाजहार महीपतिः॥ ५६॥

तस्मिन् यज्ञे समाजग्मुः सर्वकामैरनर्गले।
मुनयो भार्गवमुखा नृपा दुष्प्रसहादयः॥ ५७॥

वर्तमाने मखे तस्मिन् निःसंख्यवसुवर्षिणि।
रक्षोरूपः समुत्तस्थौ वह्निमध्यात् सुरेश्वरः॥ ५८॥

उपसृत्य स भूपालं कृशो विकृतविग्रहः।
क्षुप्तिपासार्दितोऽस्मीति ययाचे पानभोजनम्॥ ५९॥

शासनादथ भूभर्तुस्तस्मै विविधभोजनम्।
उपनिन्युः परिचिताः पानं च परिचारकाः॥ ६०॥

ततः किंचिद्विहस्यैव क्षितिपं प्राह राक्षसः।
नेदमस्मत्प्रियं राजन् वयं हि पिशिताशनाः॥ ६१॥

सद्योहतस्य मांसेन रुधिरेण च भूयसा।
तृप्तिरुत्पद्यतेऽस्माकं दीयतां यदभीप्सितम्॥ ६२॥

सर्वकामप्रदोऽसीति त्वमहं समुपागतः।
ददामीति प्रतिश्रुत्य न निषेधस्तवोचितः॥ ६३॥

इति रक्षवचः श्रुत्वा करुणकुलितो नृपः।
अहिंसानियमेनाभूदर्थिवैमुख्यदुःखितः॥ ६४॥

सोऽचिन्तयत्तदा दैवाज्जातोऽयं धर्मसंशयः।
न सहे दुःसहां हिंसां नं नैष्फल्यमर्थिनः॥ ६५॥

न च मांसं शरीरेभ्यो लभ्यते वैशसं विना।
नाहं पिपीलकस्यापि कायक्लेशलवं सहे॥ ६६॥

दत्वाहं सर्वभूतेभ्यः पुण्यामभयदक्षिणम्।
कथमस्मै प्रयच्छामि मांसं प्राणिवधोद्भवम्॥ ६७॥

इति संचित्य नॄपतिस्तमूचे करुणाकुलः।
स्वशरीरसमुत्कृत्तमसृङ्भांसं ददामि ते॥ ६८॥

इत्युक्ते भूमिपतिना बभूवाकुलितं जगत्।
न च देहव्ययोत्साहं सचिवास्तसय सेहिरे॥ ६९॥

प्रणयाद्वार्यमाणोऽपि भूपालैर्मुनिभिस्तथा।
ददौ स्वदेहमुत्कृत्य तस्मै मांसमसृग्वसाम्॥ ७०॥

आकण्ठं पीतरक्तेन राक्षसेन क्षितिप्रभोः।
भक्ष्यमाणेषु मांसेषु क्ष्ःअणं ख्षितिरकम्पतः॥ ७१॥

ततः पद्मावती देवी पतिं दृष्ट्वा तथागतम्।
विलपन्त्ळ् निपतिता मोहमूर्च्छाकुलाभवत्॥ ७२॥

मनुजेन्द्रस्य देवेन्द्रस्तद्दृष्ट्वा सत्त्वमूर्जितम्।
रक्षोरूपं परित्यज्य तमुवाच कृताञ्जलिः॥ ७३॥

अहो नु कर्मणा राजन् दुष्करेण तवामुना।
रोमाञ्चकञ्चुकाकीर्णः कायः कस्य न जायते॥ ७४॥

अहो पुण्यमसामान्यमहो सत्त्वमनुत्तरम्।
अहो धरियममर्यादं राजान् विरजसस्तव॥ ७५॥

दुःखिताः परदुःखेषु निर्लोभा दुर्लभेषु च।
विपक्षेषु क्षमावन्तः सन्तः सुकृतसेतवः॥ ७६॥

समुन्मिषति कोऽप्येष सत्त्वोत्साहो महात्मनाम्।
त्रैलोक्यं करुणार्द्राणां येन यात्यनुकम्प्यताम्॥ ७७॥

उक्त्वेति दिव्यौषधिभिस्तं कृत्वा स्वस्थविग्रहम्।
प्रसाद्य लज्जावनतः शक्रः स्वनिलयं ययौ॥७८॥

ततः समाप्ते विधिवद्यज्ञे राज्ञां महीपतिः।
चक्रे मुनिवराणां च पूजां त्रिदशपूजितः॥ ७९॥

स रत्नवर्षैर्यज्ञान्ते कन्याग्रामपुरप्रदः।
सहितं त्रिदशार्हेण हरिणा हेममालिना॥ ८०॥

ददरु राजगजं ब्रह्मरथाख्याय पुरोधसे।
योजनानां शतं तूर्णं एकेनाह्ना प्रयाति यः॥ ८१॥

तस्मै समर्पितं दृष्ट्वा राज्ञा ब्न्हद्रगिरिं गजम्।
अभूद्दुष्प्रसहो राजा तत्स्पृहाकृष्टमानसः॥ ८२॥

प्रयातेष्वथ भूपेषु विस्मितेषु मखश्रिया।
समर्पिते यज्ञफले भार्गवाय महीभुजा॥ ८३॥

तमुवाच समभ्येत्य स्वस्तिवादपुरःसरम्।
मरीचिशिष्यो वाहीकः प्राप्तपूजासनो मुनोः॥ ८४॥

राजन्नध्ययनस्यान्ते गुरुर्मे गुरुदक्षिणाम्।
ईहते परिचर्यार्थी सामान्यजनदुर्लभाम्॥ ८५॥

एकस्त्वमेव विधिना निर्मितो दुर्लभप्रदः।
बहवो जातु जायन्ते न लोके कल्पपादपाः॥ ८६॥

देवी पद्मावती पुत्रसहिता गुरवे मम।
तपःकृशाय वृद्धाय दीयताम् परिचारिका॥ ८७॥

इत्युक्ते मुनिना राजा दयिताविप्रयोगजाम्।
रुजं संस्तभ्य मनस तमूचे धैर्यभूधरः॥ ८८॥

प्रयच्छामि मुने तुभ्यमीप्सीताम् गुरुदक्षिणाम्।
सहितां युवजारेन जीविताभ्यधिकां प्रियाम्॥ ८९॥

इत्युक्त्वा ससुतां तस्मै ददौ पद्मावतीं नृपः।
स्वजीविते विनिस्नेहस्त्यागः सत्त्वमयात्मनाम्॥ ९०॥

आदाय राजदयितां विरहक्लेशकातराम्।
सपुत्रामाश्रमं गत्वा प्रददौ गुरवे मुनिः॥ ९१॥

अत्रान्तरे दुष्प्रसहः कुरुराजः क्षितीश्वरम्।
दृप्तो ययाचे दूतेन भूत्यै भद्रगिरिं गजम्॥ ९२॥

पुरोहितार्पितं राजा न ददौ द् विरदं यदा।
तदा विपुलसौन्येन स्वयं योद्धुं समाययौ॥ ९३॥

बलिना कुरुराजेन रुद्धेषु पुरवत्मसु।
बभूव भूमिपालस्य सैन्यं रणरसोद्भटम्॥ ९४॥

स वीरकुञ्जरहरिः शक्तोऽप्यरिविदारणे।
जनक्षयभयोद्विग्नः कारुण्यात् समचिन्तयत्॥ ९५॥

अहोऽनुकूलमित्रम् मे राजा दुष्प्रसहः परम्।
मातङ्गलोभमोहेन सहसा शत्रुतां गतः॥ ९६॥

स्नेहान्ताः सुजनैः स्नेहा निःस्नेहान्ताश्च मध्यमैः।
दुर्जनैर्घोरवैरान्ता भवन्ति प्राणहारिणः॥ ९७॥

अहो बिभवलिभेन क्षणक्षयिणि जीविते।
समुद्यमोऽयमस्माकं परप्राणनिपातने॥ ९८॥

हिंसयापप्रशान्तानाम् सक्तानां कलिकर्मसु।
रणरक्ताभिषिक्तानां भक्तार्थोऽयं समुद्यमः॥ ९९॥

सेवाविक्रीतजीवानां चण्डपिण्डार्थिनामयम्।
कलहो दुःसहः क्रुर्यपिशुनानां शुनामिव॥ १००॥

अहो विभवलुब्धानाम् परसंतापशीतलाः।
स्वसुखायैव धावन्ति नृशंसचरिता धियः॥ १०१॥

ये युधि सिद्धिसंनद्धा रक्तान्ताम् भुञ्जते श्रियम्।
कुतः क्रुरतरे तेषां हृदये करुणाकणः॥ १०२॥

एष दुष्प्रहसो राजा लुब्धो विबह्वमोहितः।
न वध्यः सापराधोऽपि कारुण्यायतनं मम॥ १०३॥

इति चिन्तयतस्तस्य काऱ्उण्यात काननैषिणः।
प्रत्येकबुद्धाश्चत्वारः स्वयं व्योम्ना समाययुः॥ १०४॥

प्रातपूजासनाः श्रुत्वा सर्वज्ञास्तत्समीहितम्।
राज्ञः प्रशमशीलस्य प्रसन्नास्तत्त्वमूचिरे॥ १०५॥

संमोहपटलान्धेषु संसारिषु दयालुता।
शोभते तव भूपाल सत्त्वलोकविवेकिनः॥ १०६॥

क्रियतामीप्सितं राजन् बोधौ बुद्धिर्निधीयताम्।
संप्रति प्रतिरोधेऽस्मिन् वनमेव विगाह्यताम्॥ १०७॥

स्वैरनिर्ज्नरज्नङ्कारकीर्णसंतोषशीकराः।
विविक्तकाननोद्देशाः शमिनामेव वल्लभाः॥ १०८॥

इत्युक्त्वानुग्रहधिया विधायास्य वियद्गतिम्।
प्रभाप्रसाधितदिशस्ते तेन सहिता ययुः॥ १०९॥

यातेषु स्वपदं तेषु हिमवत्तटकाननम्।
संप्राप्य पृथिवीपालः प्रयतप्रशमोऽभवत्॥ ११०॥

विवेकविमलास्तस्य धियः सत्त्ववतामिव।
बभुः प्रियनिवुः पूर्णनिर्वाण्यो ?वनभूमयः॥ १११॥

भूधरान्तरिते तस्मिन् सहसा भूपभास्वति।
शुशुचुर्मोहतिमिरप्राप्तशोकप्रजाः प्रजाः॥ ११२॥

ततस्तत्सचिवा जग्मुर्मरीचं मुनिमाश्रमे।
शक्तं राज्यस्य रक्षायै राजपुत्रैं ययाचिरे॥ ११३॥

मुनिना निर्विकारेक दत्तमादाय मन्त्रिणः।
सुभटाग्रेसरह् प्राप कुरुराजं रणाजिरे॥ ११५॥

स तेन हतविध्वस्तभग्नस्यन्द्नकुञ्जरह्।
पलायनपरित्राणः प्रययौः हस्तिनापुरम्॥ ११६॥

बलिना राजपुत्रेण जिते दुष्प्रसहे युधि।
मन्त्रिभिस्तद्भुजन्यस्ता भूमिः शेषधृतिं ययौ॥ ११७॥

राग़्यो दुष्प्रसहस्याथ कालेन कलुषात्मनह्।
बभूवावृष्टिदुर्भिक्षमरकोपल्पवः पुरे॥ ११८॥

स विचिन्त्यानुतापार्तस्तीब्रां जनपदापदम्।
न विवेद परित्राणं विफलस्वस्तिकक्रियः॥ ११९॥

पृष्ठा विपत्प्रतीकारं तेनामात्यास्तमूचिरे।
दुःसहोऽयं महाराज प्रजानां व्यसनोद्भवः॥ १२०॥

मणिचूडस्य भूभर्तुर्यदि चूडामणिः प्रभो।
लभ्यते स सुधास्यन्दी तेनेयं तीर्यते विपत्॥ १२१॥

चारेभ्यः श्रुतमस्माभिः स राजा हिमवत्तटे।
स्थितः संसारवैमुख्यविवेकविमलाशयः॥ १२२॥

अर्थितः स ददात्येव विश्वचिन्तामणिर्मणिम्।
पुत्रदारशरीरादि नादेयं तस्य किंचन॥ १२३॥

इति मन्त्रिवचः श्रुत्वा तथेत्याधार्य चेतसि।
स द्विजान् मणियाच्ञायौ विससर्ज तदन्तिकम्॥ १२४॥

अस्मिन्नवसरे राजा मणिचूषश्चरन् वने।
मरीचेराश्रमोपान्तमवाप विपुलं मुनेः॥ १२५॥

देवी पद्मावती तत्र फलमूलधृतव्रता।
व्रजन्ती विजने भीता विपुने मुनिशासनात्॥ १२६॥

शबरैर्मृगयायातैर्दृष्ट्वा कष्टदशां श्रिता।
जुघृक्षुभिः कम्पमान् आचुक्रोश करुणस्वरम्॥ १२७॥

आकर्ण्य करुणाक्रन्दे कुररूकूजितोपमम्।
हा राजन् मणिचूडेति त्रायस्वेति सुदुःसहम्॥ १२८॥

सहसाभिद्रुतः कान्ताम् ददर्श नृपतिर्निजाम्।
राहुसंत्रासितस्येन्दोर्द्युतिं निपतितामिव॥ १२९॥

वीतरागाङ्गवसनां निरञ्जनपरिग्रहाम्।
वदन्तीमिव संभोगसंयोगानामनित्यताम्॥ १३०॥

तां राजहंससुगताम् विहारस्तनमण्डलाम्।
अश्रुकाषायनयनां विलोक्य करुणावनीम्॥ १३१॥

संसारचरिताश्चर्यविचारेष्वपि कर्कशम्।
कृपाक्ऱ्इपाणीनिर्लूनमिवासीर्भूपतेर्मनः॥ १३२॥

एकाकीनं वने देवी विगतच्छत्रचामरम्।
दृष्ट्वा नाथमनाथैव लोकनाथं तथागतम्॥ १३३॥

तद्वियोगविषाक्रान्ता तद्दर्शनरसाकुला।
शोकहर्षसमाकीर्णा बभूव भृशविह्वला॥ १३४॥

सा नीता शबरा राज्ञा शापभीताः प्रदुर्द्रुवुः।
न नामाभ्युदये भानोर्दृष्टं सप्रतिभं तमह्॥ १३५॥

अत्रान्तरे शमद्वेषी सर् वभूताशयाशयः।
मारः पुरुषरूपेण समेत्य नॄपमब्रवीत्॥ १३६॥।

राजन् राजीवनयनां प्रियां प्रणयिणीमिमाम्।
न त्यक्रुमर्हस्यजने वने वनजलोचन॥ १३७॥

इयं हि ते मनोवृत्तिरिव निःसुखतां गता।
वर्जिता राज्यभोगेन राजराज न राजते॥ १३८॥।

एतदार्कर्ण्य नृपतिस्तं विज्ञाय मनोभवम्।
अन्तरायं विवेकस्य प्रत्यभाषत सस्मितः॥ १३९॥

जानामि त्वामहं काममकामं शमसंयमे।
संतोषवताम् को नाम भवता न विमोहितः॥ १४०॥

इतिवादिनि भूपाले सहसान्तरिते स्मरे।
बभूव विक्लवा देवी तप्ता विरहवह्निना॥ १४१॥

दुःखितां तामार्तदुःखां पतिभोगवियोगिनीम्।
उवाचाश्वासयन् राजा जायां जितमनोभवः॥ १४२॥

देवि धर्मक्रियायुक्ता न शोकं कर्तुमर्हसि।
दुःखावसानी विरसः सर्वोऽयं भोगचिभ्रमः॥ १४३॥

देहिनां यदितासङ्गास्तरङ्गतरलायुषाम्।
लोलपद्मपलाशाग्रस्खलज्जललवाकुलाः॥ १४४॥

इमा मुहूर्तनर्तक्यः कालमेघतडिल्लताः।
संसारसर्परसना विलासचपलाः श्रियाः॥ १४५॥

भोगक्षणेनैव वियोगरोगो
विभूतयः स्वप्नविवाहतुल्याः।
वाताहता दीपशिखा सुखश्री-
रुन्मत्तनॄत्यं भववृत्तमेतत्॥ १४६॥

सर्वोपजीव्या करुणा न लक्ष्मीः
धर्मः प्रकाशः सततं न दीपाः।
यशांसि रम्याणि न यौवनानि
स्थिराणि पुण्यानि न जीवितानि॥ १४७॥

सत्यव्रतस्तामिति सान्त्वयित्वा
विसृज्य जायां निलये महर्षेः।
चचार संसारपराङ्भुखानां
संतोषपुण्येषु तपोवनेषु॥ १४८॥

तदागतास्ते त्वरया विसृष्टाः
पञ्च द्विजा दुष्प्रसहेन राज्ञा।
तमर्थिनामकमकालबन्धु
विशुद्धसत्त्वं ददृशुर्वनान्ते॥ १४९॥

ते स्वस्तिवादं शनकौर्विधाय
विशस्तधैर्या इव साध्वसेन।
तमूचिरे सूचिततीव्रतपाः
दीर्घोष्णनिश्वाससमीरणेन॥ १५०॥

राजन् पुरे दुष्प्रसहस्य राज्ञः।
क्रूरोपसर्गौर्हतशान्तवर्गः।
जनः कृतः कृत्तसमस्तकामः
प्रकाममार्तस्वनमात्रशेषः॥ १५१॥

अशोषदोषप्रशमैकहेतुः
त्रैलोक्यरक्षाप्रथितप्रभावः।
चूडामणिर्देव भवद्वितीर्णः
करोति तस्योपनिपातशान्तिम्॥ १५२॥

दयायुषश्चन्दनपल्लवार्द्राः
स्वच्छाशयाश्चन्द्रमणिप्रकाशाः।
संतापकाले शरणं जनानां
भवद्विधा एव भवे भवन्ति॥ १५३॥

इत्यर्थितस्तैरविलुप्तसत्त्वः
संपूर्यमाणः करुणारसेन।
उवाच संचिन्त्य जनोपतातं
संक्रान्तमन्तः श्रुतिवर्त्मनेव॥ १५४॥

अहो स राजा सहते कथं नु
देवोपघातेन निपीडितानाम्।
विदारितान्तःकरणं प्रजानां
वियोगःदुःखोद्भवमार्तनादम्॥ १५५॥

अयं मणिर्मस्तकमूलजन्मा
निष्कृत्त्य तूर्णं प्रतिगृहृतां मे।
धन्योऽस्मि यद्यर्थिजनस्य दुःख-
क्षये क्षणं कारणतां व्रजामि॥ १५६॥

इत्युक्तमात्रे वसुधाधिपेन
धराधराम्भोधिमहीधरित्री।
चिरं चकम्पे चकितेव तस्य
शिरस्तटोत्पाटनतीव्रदुःखात्॥ १५७॥

ततः कृपाकोमलचित्तवृत्तेः
सुतीक्ष्णशस्त्रादपि तीक्ष्णचित्तः
स्वयं शिरः पाटयितुं प्रवृत्तः॥ १५८॥

तद्दुष्करं कर्म नरेश्वरस्य
व्योम्नि विमानैर्नलिनासनाद्याः।
सुराः सविद्याधरसिद्धसाख्याः
समाययुद्रष्टुमलुप्तसत्त्वम्॥ १५९॥

विपाट्यमाने शिरसि प्रसह्य
रत्नप्रभाविभ्रममादधानैः।
स रक्तपूरैरभिक्षिक्तकायः
सेहे व्यथामर्थिसुखे प्रवृत्तः॥ १६०॥

विल्प्क्य तं सत्त्व निबद्धधैर्यं
तीव्रव्यथावेगनिमीलिताक्षम्।
ययुर्विरामं न नृशंसवृत्ते-
र्विप्राः क्षणं राक्षसतामवाप्ताः॥ १६१॥

विचार्य राजा श्वशरीरदुःखं
संसारिणां क्लेशमयं शरीरम्।
एवंविधैर्दुःखसहस्रलक्षैः -
राक्रान्तमित्यार्ततरो बभूव॥ १६२॥

सोऽचिन्तयद्देहनिबद्धरत्न-
दानेन यत्पुण्य्फलं मयाप्तम्।
तेनोग्रदुःखं कलयामि मा भू-
दपुण्यपाके नरके नराणम्॥ १६३॥

समुद्धृते रक्रवसवसिक्ते
तस्मिन्मणौ निश्चलतालुमूलात्।
मूर्च्छाकुलोऽपि प्रययौ सहर्षं
संपूरणेनार्थिमनोरथस्य॥ १६४॥

स कम्पमानाङ्गुलिपल्लवेन
दत्वा स्वहस्तेन मणिं द्विजेभ्यः।
निमीलयन् सम्तमसेन लोकं
पपात तिग्मांशुरिवातिरक्तः॥ १६५।

अलुप्तसत्त्वे पतिते पृथिव्यां
तस्मिन् सुराणां सह पुष्पवर्षैः।
मणिं समादाय ययुर्द्विजास्ते
तूर्णं पुरं दुष्प्रसहस्य राग़्यः॥ १६६॥

स तेन् असद्यः शमितोपसर्गः
स्वर्गोचितासादितभोगवर्गः।
तद्बोधिसत्त्वस्य समस्तसत्त्व-
संतारणार्हं प्रशशंस सत्त्वम्॥ १६७॥

अत्रान्तरे किंचिदवाप्तसंज्ञं
नरेश्वरं विश्रुतरत्नदानम्।
समाययुर्भार्गवगौतमाद्या
मरीचिमुख्या मुनयो वनेभ्यः॥ १६८॥

मरीचिमेवानुगता च देवी
पद्मावती वीक्ष्य परिक्षतं तम्।
संमोहवेगाभिहता पपात
क्षणं क्षितौ बाललतेव लूना॥ १६९॥

दिगन्तसंचारिणी चारणानां
नभश्चराणां नृपसाधुवादे।
सराजपुत्राः सह मन्त्रिमुख्यैः
प्रजाः प्रजानाथमथोपजग्मुः॥ १७०॥

वीक्ष्यः क्षितीशं क्षतजोक्षिताङ्ग-
मक्षीणसत्त्वं पतितं पृथिव्याम्।
पृथव्यथाक्लेशजुषं जनाना-
मभूदभूतार्थविकल्पजल्पः॥ १७१॥

कुठारिकैः कैश्चिदहो दयार्द्रः
सर्वार्थिसेव्यः सरलः सुवृत्तः।
दुरात्मभिः स्वार्थलवाभियुक्तैः
छायातरुः कष्टमयः निकृत्तः॥ १७२॥

अहो परार्थोज्झितजीवितोऽयं
परां चमत्कारदशां प्रयातः।
ससौरभच्छिन्नतनुर्गतात्मा
भवत्युदारः सहकार एव॥ १७३॥

लुब्धस्य न स्वः स्वजनोऽपि जन्तोः
न कामकामस्य धनेऽनुरोधः।
सर्वात्मना सत्त्वहितोद्यतस्य
देहोऽपि न स्नेहपदं दयालोः॥ १७४॥

येषां कृते दैन्यमयं प्रयाति
सर्वात्मना चार्थिजनोऽर्थिभावम्।
त एव दीनोद्धरणव्रतानां
प्राणाः परित्राणपणे तृणानि॥ १७५॥

इति प्रवादे विविधानुभावे
विजृम्भमाणे मुनिमण्डलस्य।
भूपालमभ्येत्य सबाष्पचक्षु-
र्मुनिर्मरीचिः प्रणयादुवाच॥ १७६॥

अहो नु निष्कारणबन्धुभाव -
मालम्ब्य राजन् दयया जनस्य।
प्रजापरित्राणविधानभूमि-
स्तनुस्तवेयं तृणवद्वितीर्णा॥ १७७॥

क्षयः प्रवृत्तो निरपेक्षवृत्ते-
स्तवार्थिबन्धोर्निजजीवितेऽपि।
यदेष कामं कमलानिकायः
कायस्त्वयापायपदे नियुक्तः॥ १७८॥

अप्यस्ति राजन् सुकृतव्रतेऽस्मिन्
फलस्पृहा प्राणपणेऽपि काचित्।
अस्थार्थिहेतोस्तव पालुभेद-
खेदाद्विकारं भजते न चेतः॥ १७९॥

इत्यद्भुताविष्कृतमानसेन
मुनीन्द्रमध्ये मुनिना स पृष्टः।
उवाच संस्तभ्य रुजं प्रयत्ना-
द्रक्ताभिषिक्तं वदनं प्रमृज्य॥ १८०॥

फलस्पृहा नास्ति मुने ममान्या
किं त्वेक एव प्रचुरोऽभिलाषः।
यद्धोरसंसारनिमग्नजन्तु-
संतारणायैव भवे भवेयम्॥ १८१॥

अर्थिप्रिये देहविदारणेऽस्मिन्
नैवास्ति मे कोऽपि विकारलेशः।
यद्येष सत्यः समयो मयोक्त-
स्तदस्तु मे स्वस्थमिदं शरीरम्॥ १८२॥

इत्युक्तमात्रे सहजानुभावे
सत्त्वोचिते स त्यधनेन राज्ञा।
अभूद्वपुः सत्यबलेन तस्य
रूढव्रणं तत्क्षणजातरत्नम्॥ १८३॥

ततः सुरैः शक्रविरिञ्चिमुख्यै -
र्नातप्रहर्षैर्मुनिभिश्च सर्वैः।
अभ्यर्थितोऽपि क्षितिपालनाय
भोगाभिलाषी न बभूव भूपः॥ १८४॥

अवाप्तसंज्ञा मुनिना प्रयुक्ता
पद्मावती राजसुतेन सार्धम्।
पतिं ययावे विरहोपशान्त्यै
सिंहासनाक्रान्तिसुखं प्रजानाम्॥ १८५॥

ततस्तमभ्येत्य कृपाकुलास्ते
प्रत्येकबुद्धा जगतो हिताय।
देहप्रभापूरितदिग्विभागा
बभाषिरे हर्षमिवोद्गिरन्तः॥ १८६॥

चिरादवाप्ते विरहावसाने
पुनः परित्यागदशामसह्याम्।
न राजपुत्रः सहते न देवी
दुःखानुबन्धो ह्यसमृन्निपातः॥ १८७॥

स्वमर्थिने यः रददाति देह -
मापन्नदुःखप्रशमैकहेतुः।
कथं स कुर्यात् स्वजनेऽप्युपेक्षां
धर्मोऽप्ययं यस्य परार्थ एव॥ १८८॥

इत्युक्तमाकर्ण्य नरेश्वरस्तै-
स्तथेति निश्चित्य धिया कथंचित्।
व्योम्ना विमानैः स्वपुरीमवाप्य
भेजे निजं राज्यपदं सपुत्रः॥ १८१॥

इति स विपुलसत्त्वः सत्यवान् बोधिसत्त्वः
सुचिरविहितराज्यः सौगतं धाम भेजे।
जिनपुरमणिचैत्यच्छत्ररत्नप्रदीप-
प्रकटितविविधश्रीर्लक्षणाभ्यस्तबोधिः॥ १९०॥

इत्याह भगवान् बुद्धः स्ववॄत्तान्तनिदर्शने।
दानोपदेशे भिक्षूणां सम्यक्संबोधिसिद्धये॥ १९१॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां
मणिचूडावदानं नाम तृतीयः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project