Digital Sanskrit Buddhist Canon

२.श्रीसेनावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
२। श्रीसेनावदानम्।

ते जयन्ति जगत्यस्जिन् पुण्यचन्दनपादपाः।
छेदनिर्घर्षदाहेऽपि ये परार्थेषु निर्व्यथाः॥ १॥

गणनीया गुणगणैरस्त्यरिष्टाभिधा पुरी।
स्पर्धया शक्रनगरी यस्या न स्याद्गरीयसी॥ २॥

तस्यां बभूव भूपालः श्रीसेन इति विश्रुतः।
समग्रगुणरत्नानां रत्नाकर इवाकरः॥ ३॥

परोपकारशक्तस्य चतुरस्य प्रभावतः।
अनुरक्ता दिशः सर्वाः सूर्यस्येव प्रभावतः॥ ४॥

यशोभि शोभितं येन धनदानसुगन्धिभिः।
गजैश्च भूतिधवलैर्जगत्कल्पद्रुमैरिव॥ ५॥

कलालयोऽपि सरलः सरलोऽपि महामतिः।
यो बभूव प्रजापुण्यैर्मतिमानप्यवञ्चकः॥ ६॥

यावत्तपति तिग्मांशुर्यावद्वहति मारुतः।
तावदाज्ञा च कीर्तिश्च यस्याप्रतिहताभवत्॥ ७॥

शमव्यायामविदुषां षस्ङ्गुणज्ञानचक्षुषाम्।
यं द्वादशसहस्राणि मन्त्रिणां पर्युपासते॥ ८॥

तस्मिन्धर्मपरे राज्ञि बभूव सुकृती जनः।
भर्तृतुल्या भवन्त्येव गुणैः स्त्रिय इव प्रजाः॥ ९॥

तस्य पुण्याधिवासेन जनास्त्रिदिवगामिनह्।
विमानैः शक्रनगरीं निःसंचाराः प्रवक्रिरे॥ १०॥

दृष्ट्वा मनुजलोकेन सुरलोकसमावृतिम्।
जातवैरः क्षितिपतौ शतक्रतुरचिन्तयत्॥ ११॥

सेनेव लक्ष्मी वसुधेषु चार-
स्याश्चर्यकर्तव्य च दत्तनित्यम्।
कल्याणशीलेन च स र्वचेत-
न्यप्रव्यहासामन अस्मकाश्च (?)॥१२॥

तस्याखण्डितचेतसः दद्धिद्वल्यानुभावपाम् (?)।
कर्तव्या धैर्याजिज्ञासा मया मायाविधायिना॥ १३॥

इति संचिन्त्य सुचिरं सर्वैरनुगतः सुरैः।
रूपं शक्रः परावर्त्य मर्त्यलोकमवातरत्॥ १४॥

अत्रान्तरे प्रजाकार्यपर्यालोचनतत्परः।
राज्यरक्षागुरुर्मन्त्री नृपमूचे महामतिः॥ १५॥

राजन् विरजसा राज्यराजमानेन निर्जितः।
निर्व्याजदानैर्भवता लज्जते त्रिदशेश्वरः॥ १६॥

परस्य पूर्णगुणतामात्मनस्तद्विहीनताम्।
दृष्ट्वा को नाम नायाति मात्सर्यस्य विधेयताम्॥ १७॥

ईर्ष्यालवः परोत्कर्षसंघर्षस्य जुषो जनाः।
प्रायेणोद्वेगमायान्ति महताम् सुकृतेष्वपि॥ १८॥

सर्वस्वदानमर्यादादानव्यसनिनोऽस्तु ते।
पुत्रदारात्मदाने तु संकल्पो ह्यतिसाहसः॥ १९॥

दृश्यन्ते दारुणास्ते ते स्वप्नाः साध्वसहेतवः।
जगतः सूच्यते तीव्रं यैश्चूडामणिखण्डनम्॥ २०॥

दैवज्ञानां प्रवादश्च श्रूयते तत्त्ववादिनाम्।
शरीरं पृथिवीपालो दास्यतीति सुदुःसहः॥ २१॥

शरीरदानं सर्वार्थिसार्थनैष्फल्यकारणम्।
सर्वप्रदो भवत्येव तिष्ठन् कल्पमहीरुहः॥ २२॥

तस्मादस्मान्महीपाल विरम त्यागसाहसात्।
रक्षारत्नं हि जगतः प्रजायत्तं वपुस्तव॥ २३॥

इति मन्त्रिरेणोक्तमाकर्ण्य वसुधाधिपः।
तमूचे सत्त्वधवलस्मितघौताधरद्युतिः॥ २४॥

उक्तं हितं म्हामात्य भवता सचिवोचितम्।
किं त्वर्थिनवैमुख्यसंतापं नाहमुत्सहे॥ २५॥

देहीति वादिषु गिरो निषेधपरुषाक्षराः।
स्फुरन्ति वदने येषां सजीवास्ते गतासवः॥ २६॥

इदमस्मादवाप्स्यामीत्याधाय हृदि याचकः।
प्राप्यः प्रयाति वैमुख्यं यस्मिन् किं तेन जीवता॥ २७॥

धिग्जन्म पुण्यहीनस्य तस्य निष्करुणात्मनः।
यस्यार्तजनसंतापश्रवणे शीतलं मनः॥ २८॥

एतदर्थमयं कायः सापायोऽपि सतां प्रियः।
यत्कस्यचित् क्कचिद् याति कदाचिदुपकारिताम्॥ २९॥

श्रुत्वेति नृपतेर्वाक्यममात्यः सत्त्वशालिनः।
नोवाच किंचिदचलां विचिन्त्य भवितस्यताम्॥ ३०॥

ततः कदाचिद्भूभर्तुस्तस्य लीलाविहारिणः।
जायां जयप्रभां नाम रतिं रतिपतेरिव॥ ३१॥

दूराद् यदृच्छयायातां चित्तसासङ्गवागुराम्।
मुनिरध्यापकः कान्ताम् ददर्श विनिमेषदृक्॥ ३२॥

प्राग्जन्माभ्याससंबन्धस्नेहात्परिचितामिव।
तां दृष्ट्वा स धृतेः प्राप धैर्यराशिरनीशताम्॥ ३३॥

तस्य वीतस्पृहस्यापि वासनोल्लसितं मनः।
उत्सृज्य भववैमुख्यमभिलाषभुवं ययौ॥ ३४॥

इयं हि सततस्यूता संततप्रीतितन्तुभिः।
नापैति सर्वजन्तूनां प्राग्जन्माभ्यासवासना॥ ३५॥

तदाश्रमपदं प्राप्तः समाप्ताध्ययनव्रतः।
शिष्यो माणवकः प्राह दक्षिणा गृह्यतामिति॥ ३६॥

स तमूचे न मे वत्स वने वृत्तिः प्रयोजनम्।
तथापि यदि निर्बन्धः श्रूयतां यदभीप्सितम्॥ ३७॥

श्रीसेनस्य क्षितिपतेयदि देवी जयप्रभा।
लभ्यते भवता दातुं तदसौ मम दक्षिणा॥ ३८॥

इत्युक्तं गुरुणा श्रुत्वा शिष्यः कम्पितमानसः।
अशक्यप्रार्थनालाभे संशयाकुलितोऽभवत्॥ ३९॥

स गत्वा सततस्वेच्छाविवृतद्वारमर्थिनाम्।
विवेश स्वैरविश्रम्भभवनं भूभृतां प्रभोः॥ ४०॥

अलभ्यार्थार्थनादैन्यचिन्तातिक्लिष्टमानसः।
नम्राननोऽतिवैलक्ष्याद् वीक्षमाण इव क्षितिम्॥ ४१॥

तं दृष्ट्वार्थिनमायातं प्रहृष्टोऽभून्महीपतिः।
सुधाप्रदानसन्नद्धसमुद्भूतिरिवाम्बुधिः॥ ४२॥

किं तवेप्सितमित्युक्त्वा पूजितः स महीभुजा।
उवाचानुचिताख्यानवैलज्जस्खलिताक्षरः॥ ४३॥

अनर्थितपरः पूर्वमर्थिकल्पतरोस्तव।
गर्वर्थमर्थितां यातः सुदुर्लभपदेऽप्यहम्॥ ४४॥

मम विद्याव्रते पूर्णे दक्षिणाभिमता गुरोः।
राजन् जयप्रभा देवी दीयता यदि शक्यते॥ ४५॥

इत्युक्रे मुनिशिष्येण सहसैव महीपतेः।
स्नेहदानसाविद्धं द्विधाभूतमभून्मनः॥ ४६॥

स जगाद् विजं दन्तज्योतिषाग्रविसारिणा।
गृह्यतां दयिता स्वच्छवाससाच्छादयन्निव॥ ४७॥

अविचार्य मया देयमीप्सितं तव यद्गुरोः।
वियोगचकितं चेतः सत्यं न गणयाम्यहम्॥ ४८॥

इत्युक्त्वाहूय दयिताम् राजा राजीवलोचनाम्।
सदा हृदयसंसक्ताम् जीववृत्तिमिवापराम्॥ ४९॥

निवारितोऽपि गुरुणा वियोगव्यसनाग्निना।
निषिद्धोऽप्यतिवृद्धेन स्नेहेन स्मरबन्धुना॥ ५०॥

प्रददौ मुनिशिष्याय सहसा हरिणीमिव।
किमेतदिति सायाससंत्रासतरलेक्षणाम्॥ ५१॥

दत्तायां त्यागशीलेन प्रियायां पृथिवीभुजा।
चकम्पे त्यागभीतेव भूमिर्लोलाब्धिमेखला॥ ५२॥

यत्कृते दुर्दशां देहे सेहिरे दुःसहामपि।
इन्द्रचन्द्रादयो देवास्ताह् प्रियाः कस्य न प्रियाः॥ ५३॥

शीलं केचिद्धनं केचिद्धर्मं केचित्तपः परे।
लज्जां केचित्तनुं केचित्त्यजन्ति योषितां कृते॥ ५४॥

यदेव रागसर्वस्वं पुंसां जीवितजीवितम्।
तदेव स्फीटसत्त्वानाम् दाने तृणलवायते॥ ५५

तामादाय गते तस्मिन् विरहाकुलितो नृपः।
विरहेण सुखद्वेषी मनोभव इवाभवत्॥ ५६॥

शिष्येण मुनिरानीताम् दृष्ट्वा भूपतिवल्लभाम्।
रहितां जीवितेनेव परलोकभुवं गताम्॥ ५७॥

गाढानुशयसंतप्तः परं लज्जानिमीलितः।
अचिन्तयदनौचित्यमात्मनः कर्मवुप्लवात्॥ ५८॥

अहो नु बालकेनेव मया केवलचापलात्।
निःशन्कमयशःपङ्के स्वयमात्मा निपतितः॥ ५९॥

इयं प्रजानां जननी भर्म्याणां धर्मकारिणा।
वर्णाश्रमगुरोर्जायाम् मया दुःखानलेऽर्पिता॥ ६०॥

किं तु नाकलितं शीलं न स्मृतः संयमो मया।
गणितं नैव वैराग्यं विवेको नावलोकितः॥ ६१॥

अहो।त्र निर्विचाराणां सन्मार्गविमुखं मनः।
असंयमासवक्षीबमपथेष्वेव धावति॥ ६२॥

इति संचित्य स मुनिर्वैलक्ष्यक्षपितद्युतिः।
अभ्येत्य राजदयितामुवाच विनताननः॥ ६३॥

समाश्वसिहि हे मातर्न शोकं कर्तुकर्हसि।
भवितव्यतयैवायं क्लेशस्ते दुर्नयश्च मे॥ ६४॥

त्यक्त्वा हि श्रमसंतापमस्य तीरतरोरधः।
अधुनैव निजं धाम सहास्माभिर्गमिष्यसि॥ ६५॥

इत्युक्ते मुनिना देवी सीक्तेवामृतवृष्टिभिः।
अवाप्तजीवितधृतिस्तत्याज भयसंभ्रमम्॥ ६६॥

श्रुत्वैतत् त्रिदिवव्यापि दातुश्चरितमद्भुतम्।
राज्ञः सत्त्वदयाम् ज्ञातुं वासवः समुपाययौ॥ ६७॥

भक्षिताधःशरीरार्धो व्याघ्रेण विजने वने।
पुत्रैश्चतुर्भिराक्रन्दैर्गृहीतो ब्राःमणाकृतिः॥ ६८॥

प्रस्रवद्भूरिरूधिरो लम्बमानान्त्रमण्डलह्।
कृच्छेष्वपगतप्राणः पापैरिव दृढीकृतः॥ ६९॥

प्रत्यग्रामिष्यागन्धेन क्रव्यादैर्भृशमन्वितः।
लुब्धपार्थिवचौरोत्थैरनर्थैरर्थवानिव॥ ७०॥

नगरान्तरमासाद्य स ययौ पुरवासिनाम्।
कारुण्यदैन्यदुःखार्तो स्मयाविस्मयहेतुताम्॥ ७१॥

स शोक इव साकारः स त्रास इव दुःसहः।
विदधे साध्वसायासं सहसा पौरयोषिताम्॥ ७२॥

सोऽर्थिसंदर्शनस्थानस्थितस्याथ महीपतेः।
पुत्ररूपैश्चतुर्भिस्तैर्न्यस्तोऽग्रे मञ्चिकार्पितह्॥ ७३॥

तं दृष्ट्वा वैशसावेशविषमक्लेशविह्वलम्।
निष्कूणिताननवनो जनोऽभून्मीलितेक्षणह्॥७४॥

स कम्पविह्वलं वक्षो मुक्तमुद्यम्य दक्षिणम्।
भुजं जगाद भूपालं व्यथाशिथिलिताक्षरः॥ ७५॥

स्वस्ति तुभ्यं महीपते ब्राह्मणोऽहमिमां दशाम्।
तीव्रपाप इव प्रातः पश्य मां करुणानिधे॥ ७६॥

संसारेघोरगहने वने व्याघ्रेण भक्षितः।
जीवाम्यवश्यभोग्यत्वाद्दुःखस्यास्य गरीयसः॥ ७७॥

अस्मिन्नपि विपत्तापे तीव्रक्लेशसहिष्णवः।
विमुञ्चन्ति न मां प्राणाः सहृदः सज्जना इव॥ ७८॥

ददाति यदि ते कश्चित् छित्त्वा देहार्धमात्मनः।
तत्ते जीवितमस्तीति मामूचे व्योमदेवता॥। ७९॥

को ददाति जगत्यस्मिन् जीवितं करुणानिधे।
प्रायेण स्वसुखान्वेषी परार्थविमुखो जनः॥ ८०॥

सर्वदा सर्वदातारं दीनव्यसनबान्धवम्।
देहदानेऽप्यविमुखं त्वामस्मि शरणं गतः॥ ८१॥

एकस्त्वमेव लोकेऽस्मिन् जातः सुकृतपादपः।
निर्व्याजमादरोदारं दानं यस्य फलोद्गतिः॥ ८२॥

किमन्यैर्वा वदान्यस्य कीर्तितैर्भवतो गुणैः।
दानमेवाहतो यस्य लोके सुकृतडिण्डिमः॥ ८३॥

आपन्नार्तिपरित्राणपवित्रचरितव्रताः।
प्रायन्ते पुण्यपण्येन विपत्काले भवद्विधाः॥ ८४॥

अमन्दानन्दसुहृदो हरिचन्दनशीतलाः।
हरन्ति सन्तः संतापं दक्षिणाः पवना इव॥ ८५॥

पूर्णेन्दुसुन्दरादस्मादुदिता वदनात्तव।
ज्योप्त्स्नेव जीवयत्येव वाणी पीयूषवर्षिणी॥ ८६॥

इत्युक्तस्तेन सहसा हृदि संक्रान्ततद्व्यथः।
संमोहमूर्च्छितं राजा तमूचे वाचमाकुलम्॥ ८७ ॥

समाश्वसिहि मुञ्च त्वं बह्यं प्राणवियोगजम्।
प्रयच्छामि शरीरार्धमविचार्यैव ते द्विज॥ ८८॥

धन्यस्य् अयात्ययं कायः परोपकृतये क्षतिम्।
क्षणक्षयी हि देहोऽयं रक्ष्यमाणोऽपि नाक्षयः॥ ८९॥

इत्युक्तवति भूपाले समुत्कम्पितमानसः।
वज्राहत इवोवाच महामात्यो महामतिः॥ ९०॥

अहो नु साहसाभ्यासादायासव्यसनी प्रभुः।
हितं न गणयत्येव प्रजापुण्यपरिक्षयात्॥ ९१॥

प्रजानां भूतये शक्तः कोऽन्यस्त्वत्सदृशो गुणी।
यद्भक्तिमुखरो भृत्यः श्रोता कर्ता च भूपतिः॥ ९२॥

न करोति हितं स्वामी गजलीलानिमीलितः।
गणनीयाः सुभृत्यानामियत्यो भोगसंपदः॥ ९३।

भान्ति त् ए सुचिरं कर्णे यैः कृता मधुमञ्जरी।
कल्याणकर्णिकाकीर्णा वाणी विनयवादिनाम्॥ ९४॥

राक्षसोऽयं पिशाचो च छद्मना ब्राह्मणाकृतिः।
रक्षारत्नस्य जगतां शरीरैरर्थिताम् गतह्॥ ९५॥

यदि नाम न मायेयं कृता तेन महीयसी।
तत्कथं कृत्तदेहस्य क्षणमप्यस्ति जीवितम्॥ ९६॥

अविचार्यैव सुकृतं क्रियते दुर्ग्रहेण यत्।
तदात्मपीडापरुषं परलोकेऽपि निःसुखम्॥ ९७॥

शक्यमेव सदा दद्यादशक्यं दीयते कथम्।
सर्वस्वदेहदानादिप्रवाद एव शोभनः॥ ९८॥

कर्णामृतमिदं दूराद्यन्महार्थिमणिप्रदः।
संप्राप्तानां पुनस्तत्र पानमस्यान्यतोऽर्थिनाम्॥ ९९॥

रक्ष्यः सर्वप्रयत्नेन परेषामपि जीवितैः।
प्रजानां जीवितं राजन्नर्थिचिन्तामणिर्भवान्॥ १००॥

प्रसीद दयस्वास्मासु देव मा साहसं कृथाः।
न् अकाचशकलस्यार्थे क्रियते चात्मविक्रयः॥ १०१॥

इत्युक्त्वा पादयोः पत्युः पपातामात्यपुंगवः।
शरीरदानसंकल्पान्नोच्चचाल च भूपतिः॥ १०२॥

सोऽवदत् प्रणयस्मेरचिकसद्दशनद्युतिः।
जीवितस्नेहसंमोहतमह् परिहरन्निव॥ १०३॥

केवलं भक्तिसंयुक्तमुक्तं व्यक्तमिदं त्वया।
न सहेऽहं महामात्य विप्रस्य प्राणसंशयम्॥ १०४॥

हारैस्तुषारैः कमलैर्मृणालैरिन्दुचन्दनैः।
निवर्ततेऽन्तःसंतापो नार्थिवैमुख्यदुःखजः॥ १०५॥

सर्वथा सर्वदुःखार्तिहरणोद्यतचेतसः।
न बोधेरन्तरायं मे सुमते कर्तुमर्हसि॥ १०६॥

जन्मान्तरेऽपि ददतो देहं मे न व्यथाभवत्।
स्मराम्यतीतवृत्तस्य सम्यक्संबोधिचेतसा॥ १०७॥

पुरा दृष्ट्वोद्यताम् व्याघ्रीं क्षुत्क्षामां पोतभक्षणे।
तद्रक्षायै मया दत्तं शरीरमविक्षरिणा॥ १०८॥

शिबिजन्मनि चान्धाय दत्तं नेत्रयुगं मया।
रक्षितश्च स्वदेहेन कपोतः श्येनकाद्भयात्॥ १०९॥

चन्द्रप्रभावतारे च रौद्राक्षायार्पितं शिरः।
सर्वस्वपुत्रदारादि दत्तं चान्येषु जन्मसु॥ ११०॥

इत्युक्ते बोधिसत्त्वेन् अभूभुजामात्यपुंगवः।
न सजीवो न् अनिर्जीव इवाभूद्व्यथितेन्द्रियः॥ १११॥

अलङ्घ्यशासनेनाथ राज्ञा क्रकचधारया।
नियुक्तौ पलगण्डाख्यौ शरीरच्छेदकर्मणि॥ ११२॥

तौ तीव्रशोकविवशौ शक्रमायाविमोहितौ।
कथंचिदिव भूभर्तुर्देहच्छेदे समुद्यतौ॥ ११३॥

नृपतेर्निर्विकारस्य क्रूरक्रकचधारया।
विदार्यमाणे देहार्धे पृथिवी समकम्पत॥ ११४॥

भ्रष्टोल्का रक्तवसना विर्घातच्युततारका।
द्यौः सशब्दं रुरोदेव कीऱ्णाश्रुकणसंततिः॥ ११५॥

वैशसालोकनेद्भूतत्ळ्व्रदुःखासहिष्णुना।
तूर्णं रजःपटेनेव रविणा पिहितं मुखम्॥ ११६॥

तस्मिन् प्रजाह् प्रजानाथे क्रकचाक्रान्तविग्रहे।
चक्रन्दुः पूरिताक्रन्दा दिग्वधूमिः प्रतिस्वनैः॥ ११७॥

अक्षुब्धसत्त्वमालोक्य नृपं शक्रो द्विहाकृतिः।
विस्मयानुशयाक्रान्तचित्तश्चिरमचिन्तयत्॥ ११८॥

अहो महामतेरस्य करुणाकोमलं मनः।
प्राप्तं परार्थपीडासु वज्रादपि कठोरताम्॥ ११९॥

सागरादपि गम्भीरं मेरोरपि समुन्नतम्।
त्रिदिवादपि साश्चर्यमहो वृत्तं महात्मनाम्॥ १२०॥

अहि प्राणप्रवासेऽपि सत्त्वं सत्त्वमहोदधेः।
साधोरिव विपत्पाते महत्त्वं नावहीयते॥ १२१॥

इति चिन्तयति क्षिप्रं सहस्राक्षे क्षितिप्रभोः।
नाभेरधःशरीरार्धं निकृत्तमपतत् क्षितौ॥ १२२॥

स द्विधाभूतदेहोअपि हर्षोत्साहमयोऽभवत्।
सर्वभूतपरित्राणसत्त्वेन धृतजीवितः॥ १२३॥

तदाज्ञया शरीरार्धे श्लेष्टे संपूऱ्णविग्रहः।
स्वस्थक्षतिः समुत्थाय ब्राःमणस्तमभाषत॥ १२४॥

अहो विराजसे राजन् पून्जं विरजसस्तव।
निर्व्याजदेहदानेन विशेषं तु ब्न्हवद्यशः॥ १२५॥

त्वन्मनोमणिवैमल्यतुल्यं किंचिदकुर्वतः।
उपमानेन दारिद्य्रमहो मुग्धस्य वेधसः॥ १२६॥

कृत्तः सुवृत्तः सरलः परार्थे मधुराशयः।
सहसे दुःसहां पीडामिक्षुकाण्ड इवोन्नतः॥ १२७॥

इत्युक्त्वा ब्राह्मणाकारः शक्रस्त स्मृतिजन्मभिः।
संजीवनैषधिजातैः सुधास्यन्दैरपूरयत्॥ १२८॥

ततः प्रकटिताकारः परितोषात्पुरंदरः।
सुश्लिष्टनिजदेहार्धं प्रशशंस महीपतिम्॥ १२९॥

अथाब्मरान्निपतितः सितकुसुमसंचयः।
तत्कालोल्लासितक्षोणीहर्षहास इवाबभौ॥ १३०॥

अत्रान्तरे मुनिस्तस्मौ प्रियां जायां जयप्रभाम्।
आदायाभ्येत्य तद्वृत्तं जाताश्चर्यो न्यवेदयत्॥ १३१॥

पूतया संगतः पत्नया स्वकीर्त्येव विशुद्धया।
उवाच पृष्टः शक्रेण निकारे निर्विकारितह्॥ १३२॥

ततः सिंहासने दिव्य विश्वकर्मविनिर्मिते।
रत्नवर्षसमाकीर्णे जम्बुद्वीपे स भूपतिः॥ १३३॥

अभिषिक्तः सुरेन्द्रेण प्रसाद्य दयितासखः।
दानपुण्यप्रभावोत्थकुशलव्यापितप्रजः॥ १३४॥

समाप्तसत्त्वसंसारसंतारणकृतव्रतह्।
सम्यक्संबोधिसंबुद्धमनाः प्रमुदितोऽभवत्॥ १३५॥

मैत्रं चेतस्तरुणकरुणं सत्त्वसिद्धं विशुद्धं
आपन्नार्तिप्रशमनफलस्फूतमात्मप्रदानम्।
दृष्ट्वा राज्ञह् प्रमुदसलिलक्षालिताक्षो विलक्षः
शक्रः प्रायादमरनगरीं पूरितां तद्यशोभिः॥ १३६॥

इति स विबुधवृन्दैः सिद्धयक्षोरगेन्द्रैः पुलकरुचिरवर्चैरर्च्यमानप्रभावः।
अवनिमवनशक्तः कल्पयन्नाककल्पा-
मबह्वविभवशोभामाप्तवान् बोधिसत्त्वः॥ १३७॥।

पूर्वावतारसंवादे दानोत्कर्षमुदाहरन्।
उपदेशाय भिक्षूणामित्याह भगवान् जिनह्॥ १३८॥

इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायां
श्रीसेनावदानं नाम द्वितीयः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project